"ऋग्वेदः सूक्तं ७.६८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९१:
आ । वल्गू इति । विप्रः । ववृतीत । हव्यैः ॥
 
“यत् यदा “वां युवां प्रति "देवयाः देवौ युवां कामयमानः । “उ इति पूरणः । “अयम् “अद्रिः अभिषवग्रावा "सोमसुत् सोममभिषुण्वन् “युवभ्यां युवाभ्यामर्थायाभिषुण्वन्निति संबन्धः। एवं कुर्वन् “ऊर्ध्वः उन्नतः सन् “विवक्ति उच्चैः शब्दयति तदानीं “वल्गू सुन्दरौ युवां “विप्रः मेधावी यजमानः "हव्यैः हविर्भिः “आ “ववृतीत आवर्तयति ।।।
 
 
पङ्क्तिः १०६:
यः । वाम् । ओमानम् । दधते । प्रियः । सन् ॥
 
हे अश्विनौ “वां युवयोः “चित्रं चायनीयं यत् "भोजनं धनम् “अस्ति “ह अस्ति खलु । “नु इति पूरणः । तदस्मभ्यं दत्तमित्यर्थः । अथ तयोः स्तुतिः । “अत्रये एतन्नामकादृषेः । पञ्चम्यर्थे चतुर्थी। तस्मात् “महिष्वन्तम् ऋबीसं “नि “युयोतं पृथक्कुरुतम् । “यः अत्रिः “प्रियः “सन् स्तोतृत्वाद्युवाभ्यां प्रियभूतः सन् युवाभ्यामेव कृतम् “ओमानं रक्षणं सुखं दधते धारयति ।। ॥१४॥
 
 
Line १२० ⟶ १२१:
अधि । यत् । वर्पः । इतःऽऊति । धत्थः ॥
 
“उत अपि च हे “अश्विना अश्विनौ "वां युवयोः कर्म कुर्वते "जुरते जूर्णाय 'हविर्दे हविर्दात्रे “च्यवानाय एतन्नामकाय महर्षये “त्यत् तत् "प्रतीत्यं प्रतिगमनं तस्य रूपस्य प्रत्याप्त्यै “भूत् अभूत् । किं तदिति । “यद्वर्पः रूपम् इतऊति इतोगमनाख्यं मृत्योः सकाशादितःप्राप्तिरूपम् “अधि “धत्थः अध्यधत्तम् । ‘युवं च्यवानमश्विना जरन्तं पुनर्युवानं चक्रथुः शचीभिः' ( ऋ. सं. १. ११७. १३) इत्यादिषु च्यवानस्य युवयोर्नवीकरणं प्रसिद्धम् ॥
 
 
Line १३४ ⟶ १३६:
निः । ईम् । पर्षत् । अरावा । यः । युवाकुः ॥
 
“उत अपि च “त्यं तं “भुज्युम् एतन्नामानं "समुद्रे “मध्ये समुद्रोदकस्य मध्ये "सखायः भुज्युसखिभूताः "दुरेवासः दुष्टगमनाः “जहुः त्यक्तवन्तः । "ईम् एनं समुद्रमध्ये क्षिप्तं “निः “पर्षत् निरपारयतम् । “यः भुज्युः “युवाकुः युवां कामयिता “अरावा अरणवानभिगन्ता च तमेनं निरपारयतम् ।अत्राश्विनेषु सूक्तेषु कथाः सूच्यन्ते । अत्रिभुज्य्वादीनामग्निजलादिभ्यो रक्षणरूपास्ताः सर्वा महता प्रपञ्चेनास्माभिः ‘नासत्याभ्यां बर्हिरिव' (ऋ. सं. १. ११६. १) इत्यत्र प्रपञ्चिताः । तास्तत्र द्रष्टव्याः ॥
 
 
Line १४८ ⟶ १५१:
यौ । अघ्न्याम् । अपिन्वतम् । अपः । न । स्तर्यम् । चित् । शक्ती । अश्विना । शचीभिः ॥
 
“वृकाय धनादात्रे । अभिलषत इत्यर्थः । “चित् इति पूरणः । अथवा परेभ्यो धनानि प्रयच्छते । यद्वा । वृकाय वृकवद्धिंसकाय । एतन्नामकाय “जसमानाय कर्मभिरुपक्षीयमाणायर्षये “शक्तम् अभिमतं धनमदत्तम् । शकेर्दानार्थस्य लुङयेतद्रूपम् । अडभावश्छान्दसः । “उत अपि च “शयवे एतन्नामकायर्षये “हूयमाना आहूयमानौ युवां “श्रुतम् अशृणुतम् । “यौ युवाम् “अघ्न्यां गाम् “अपिन्वतम् अपूरयतं क्षीरेण “अपो “न अद्भिरिव नदीम् । तां यथोदकेन पूरयतस्तद्वत् । कीदृशीमघ्न्याम् । “स्तर्यं “चित् स्तरीमपि निवृत्तप्रसवां वृद्धामपि “शक्ती शक्त्या सामर्थ्येन दोहनलक्षणेन युक्तां कृत्वा "शचीभिः युष्मदीयैः कर्मभिर्हे अश्विनाविति । ‘शयवे चिन्नासत्या शचीभिर्जसुरये स्तर्यं पिप्यथुर्गाम्' (ऋ. सं. १. ११६. २२) इत्यादि ह्युक्तम् ॥
 
 
Line १६२ ⟶ १६६:
इषा । तम् । वर्धत् । अघ्न्या । पयःऽभिः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥
 
“एषः स्तोता “स्यः स प्रसिद्धो वसिष्ठः “कारुः स्तोता “उषसाम् “अग्रे प्रातःसवने “बुधानः बुध्यमानः “सुमन्मा शोभनमतिः सुष्टुतिर्वा "सूक्तैः "जरते स्तौति । “तम् “इषा अन्नेन “वर्धत् वर्धयतम् । वचनव्यत्ययः । “अघ्न्या अहन्तव्या गौश्च वर्धत् वर्धयतु । अथवैकमेव वाक्यम् । अघ्न्या गौर्वसिष्ठस्य प्रतिनियताग्निहोत्रार्था गौरिषान्नेन । घृतादिनेत्यर्थः। “पयोभिः च तं वसिष्ठं वर्धत् वर्धयतु । एवमात्मानं परोक्षेण निर्दिदेश । शिष्टं स्पष्टम् ॥ ॥ १५ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.६८" इत्यस्माद् प्रतिप्राप्तम्