"ऋग्वेदः सूक्तं ७.७०" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
अश्वः । न । वाजी । शुनऽपृष्ठः । अस्थात् । आ । यत् । सेदथुः । ध्रुवसे । न । योनिम् ॥
 
हे “विश्ववारा सर्वैर्वरणीयौ “अश्विना अश्विनौ “नः अस्माकं यत् यं यागम् “आ “गतम् आगच्छतं “वां युवथोः तत्स्थानं “पृथिव्यां वेद्यां “प्र “अवाचि प्रोच्यते । तदर्थं “शुनपृष्ठः सुखकरपृष्ठभागः । अत्यन्तविपुलत्वात् आरूढानां सुखकरपृष्ठभाग इत्यर्थः। “वाजी वेगवान् “अश्वः “अस्थात् तिष्ठतु युवयोः समीपे । “यत् । यमित्यर्थः । यमश्वम् “आ “सेदथुः आसीदथः सोऽश्वः । यद्वा । यत्स्थानमासीदथः तत्स्थानमश्व आश्रयत्वितो गमनाय । स्थितौ दृष्टान्तः । “ध्रुवसे धुवाय निवासाय “योनिं “न योनिं स्थानमिव ॥
 
 
यः । वाम् । समुद्रान् । सरितः । पिपर्ति । एतऽग्वा । चित् । न । सुऽयुजा । युजानः ॥
 
“सा "सुमतिः अस्माभिः क्रियमाणा शोभना स्तुतिः "चनिष्ठा कमनीयतमातिशयेनान्नवती वा “वां युवां “सिषक्ति सेवते । किंच “घर्मः प्रवर्ग्यश्च “मनुषः मनुष्यस्य यजमानस्य “दुरोणे यागग्रहे “अतापि तप्तोऽभूत् । यत् घ्राँ इत्यपतत्तद्घर्मस्य घर्मत्वम् ' (तै. आ. ५. १. ५) इति श्रुतिः । यज्ञस्य शिरःस्थानीयत्वादस्य । “यः घर्मः “वां युवां प्राप्नुवन्निति शेषः । “समुद्रान् “सरितः च “पिपर्ति पूरयति वृष्टिद्वारा । “एतग्वा “चिन्न । चिदिति पूरणः । अश्वाविव यथा “सुयुजा सुष्ठु युक्तौ रथे भवतस्तथेत्यर्थः। नेत्युपमार्थे । तद्वद्युवां यज्ञे युजानः योजयन् यज्ञः । स एवं करोति ॥
 
 
नि । पर्वतस्य । मूर्धनि । सदन्ता । इषम् । जनाय । दाशुषे । वहन्ता ॥
 
हे “अश्विना युवां “दिवः द्युलोकादागत्य “यानि "स्थानानि “दधाथे कुरुथः । कुत्रेति उच्यते । “यह्वीषु महतीषु “ओषधीषु “विक्षु यजमानेषु च । तौ युवां “पर्वतस्य मेघस्यान्तरिक्षस्य वा "मूर्धनि स्थाने “नि “सदन्ता निषीदन्तौ “इषम् अन्नं “दाशुषे हविर्दात्रे “जनाय यजमानाय “वहन्ता प्रापयन्तौ भवतमिति शेषः ॥
 
 
पुरूणि । रत्ना । दधतौ । नि । अस्मे इति । अनु । पूर्वाणि । चख्यथुः । युगानि ॥
 
हे “देवा देवौ युवाम् “ओषधीषु ओषधिविकारांश्चरुपुरोडाशादिकान् “अप्सु सोमरसान् “चनिष्टम् । अत्यन्तकमनीयतमं कामयेथामित्यर्थः। “यत् यस्मात् "योग्याः युवयोरुचिता ओषधीरपश्च “ऋषीणां संबन्धिनीः “अश्नवैथे व्याप्नुथः तस्मादस्मदीया अपि कामयेथामित्यर्थः । यद्वा । ऋषीणामस्माकमिति पूजार्थं बहुवचनम् । यद्यस्मादोषधीष्वप्सु च चनिष्टं योग्याः स्तुतीश्चाश्नवैथे तस्मात् “अस्मे अस्मासु “पुरूणि बहूनि “रत्ना रमणीयानि धनानि “नि “दधतौ “पूर्वाणि "युगानि मिथुनानि जायापतिरूपाणि "अनु “चख्यथुः ख्यातवन्तौ । अनुकृष्टवन्तावनुग्रहार्थम् ॥
 
 
प्रति । प्र । यातम् । वरम् । आ । जनाय । अस्मे इति । वाम् । अस्तु । सुऽमतिः । चनिष्ठा ॥
 
हे “अश्विना अश्विनौ । “चित् इति पूरणः । युवां “शुश्रुवांसा श्रुतवन्तौ सन्तौ “पुरूणि बहूनि “ब्रह्माणि परिवृढानि कर्माणि स्तुतिलक्षणानि “ऋषीणाम् अस्माकं संबन्धीनि “अभि “चक्षाथे अभिपश्यथो युवाम् । अतः “जनाय जनस्य यजमानस्य मम “वरं यज्ञं “प्रति “प्र “यातम् । “वां युवयोः “चनिष्ठा उक्तलक्षणा “सुमतिः अनुग्रहमतिः “अस्मे अस्मासु “अस्तु भवतु ॥
 
 
उप । प्र । यातम् । वरम् । आ । वसिष्ठम् । इमा । ब्रह्माणि । ऋच्यन्ते । युवऽभ्याम् ॥
 
हे “नासत्या अश्विनौ “वां युवयोः “यः यज्ञः यजमानः “समर्यः ऋत्विग्रूपैर्मर्त्यैः सहितः सन् "हविष्मान् हविषा युक्तः “कृतब्रह्मा कृतस्तोत्ररूपकर्मा “भवाति भवति तं “वरं वरणीयं "वसिष्ठम् “आ “उप “प्र “यातं प्रकर्षेणोपागच्छतम् । “इमा इमानि “ब्रह्माणि मन्त्रजातानि “युवभ्यां युवाभ्यामर्थायागमनाय “ऋच्यन्ते स्तूयन्ते । क्रियन्त इत्यर्थः ।।
 
 
इमा । ब्रह्माणि । युवऽयूनि । अग्मन् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥
 
अथ सप्तम्या स्तुतिमुपसंहरति । हे “अश्विना अश्विनौ “इयं “मनीषा स्तुतिर्युवयोः कृतेति शेषः । तदेवादरार्थं पुनरुच्यते । “इयं “गीः स्तुतिः कृता । हे “वृषणा कामानां वर्षको "इमाम् अस्मत्कृतां “सुवृक्तिं शोभनां स्तुतिं "जुषेथां सेवेथाम् । “इमा इमानि “ब्रह्माणि कर्माणि स्तुतिरूपाणि युवयूनि युवां कामयमानानि सन्ति “अग्मन् गच्छन्तु युवाम् । यूयं पातेति सिद्धम् ॥ ॥ १७ ॥ ॥ ४ ॥
 
 
}}
२९,८००

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/163430" इत्यस्माद् पुनः प्राप्तिः