"ऋग्वेदः सूक्तं ७.७१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
}}
 
<poem><span style="font-size: 14pt; line-height:200%">
 
<div class="verse">
<pre>
अप स्वसुरुषसो नग्जिहीते रिणक्ति कृष्णीररुषाय पन्थाम् ।
अश्वामघा गोमघा वां हुवेम दिवा नक्तं शरुमस्मद्युयोतम् ॥१॥
Line २५ ⟶ २३:
इमा ब्रह्माणि युवयून्यग्मन्यूयं पात स्वस्तिभिः सदा नः ॥६॥
 
</prespan></poem>
{{सायणभाष्यम्|
</div>
पञ्चमेऽनुवाके एकोनविंशतिसूक्तानि । तत्र ‘अप स्वसुः' इति षडृचं प्रथमं सूक्तं त्रैष्टुभमाश्विनम् । अनुक्रम्यते च -– अप स्वसुः षट्' इति । गतो विनियोगः ॥
 
 
अप॒ स्वसु॑रु॒षसो॒ नग्जि॑हीते रि॒णक्ति॑ कृ॒ष्णीर॑रु॒षाय॒ पंथां॑ ।
 
अश्वा॑मघा॒ गोम॑घा वां हुवेम॒ दिवा॒ नक्तं॒ शरु॑म॒स्मद्यु॑योतं ॥१
 
अप॑ । स्वसुः॑ । उ॒षसः॑ । नक् । जि॒ही॒ते॒ । रि॒णक्ति॑ । कृ॒ष्णीः । अ॒रु॒षाय॑ । पन्था॑म् ।
 
अश्व॑ऽमघा । गोऽम॑घा । वा॒म् । हु॒वे॒म॒ । दिवा॑ । नक्त॑म् । शरु॑म् । अ॒स्मत् । यु॒यो॒त॒म् ॥
 
अप । स्वसुः । उषसः । नक् । जिहीते । रिणक्ति । कृष्णीः । अरुषाय । पन्थाम् ।
 
अश्वऽमघा । गोऽमघा । वाम् । हुवेम । दिवा । नक्तम् । शरुम् । अस्मत् । युयोतम् ॥
 
"स्वसुः स्वसृस्थानीयायाः “उषसः सकाशात् "नक् नक्तं रात्रिः "अप “जिहीते अपगच्छति । तस्या अवकाशं दत्वा स्वयमपगतेत्यर्थः। ‘स्वसा स्वस्रे ज्यायस्यै योनिमारैक्' (ऋ. सं. १. १२४. ८) इत्युक्तम् । “कृष्णीः कृष्णवर्णा रात्रिः “अरुषाय आरोचमानायाह्ने सूर्याय वा “पन्थां पन्थानं मार्गं “रिणक्ति रेचयति । यस्मादेवं तस्माद्युवयोरागमनसमयत्वात् हे “अश्वामघा अश्वधनौ हे “गोमघा गोधनौ । उभयोः प्रदातारावित्यर्थः । ईदृशौ “वां युवां “हुवेम स्तुमः । आह्वयामः । “दिवा “नक्तं सर्वदा “शरुं हिंसकम् “अस्मत् अस्मत्तः "युयोतं पृथक्कुरुतम् ॥
 
 
उ॒पाया॑तं दा॒शुषे॒ मर्त्या॑य॒ रथे॑न वा॒मम॑श्विना॒ वहं॑ता ।
 
यु॒यु॒तम॒स्मदनि॑रा॒ममी॑वां॒ दिवा॒ नक्तं॑ माध्वी॒ त्रासी॑थां नः ॥२
 
उ॒प॒ऽआया॑तम् । दा॒शुषे॑ । मर्त्या॑य । रथे॑न । वा॒मम् । अ॒श्वि॒ना॒ । वह॑न्ता ।
 
यु॒यु॒तम् । अ॒स्मत् । अनि॑राम् । अमी॑वाम् । दिवा॑ । नक्त॑म् । मा॒ध्वी॒ इति॑ । त्रासी॑थाम् । नः॒ ॥
 
उपऽआयातम् । दाशुषे । मर्त्याय । रथेन । वामम् । अश्विना । वहन्ता ।
 
युयुतम् । अस्मत् । अनिराम् । अमीवाम् । दिवा । नक्तम् । माध्वी इति । त्रासीथाम् । नः ॥
 
हे अश्विनौ युवाम् “उपायातम् उपागच्छतमस्मदाह्वानं प्रति । किमर्थम् । “दाशुषे हविषां दात्रे यजमानाय तदर्थं “रथेन “वामं वननीयं धनं “वहन्ता वहन्तौ । “अस्मत् अस्मत्तः “युयुतं पृथकुरुतम् । किम् । “अनिराम् । इरान्नम् । तदभावं दारिद्र्यमित्यर्थः । “अमीवां रोगं च । हे "माध्वी मधुमन्तौ युवां “नः अस्मान् “दिवा “नक्तं सर्वदा “त्रासीथां रक्षतम् ॥
 
 
आ वां॒ रथ॑मव॒मस्यां॒ व्यु॑ष्टौ सुम्ना॒यवो॒ वृष॑णो वर्तयंतु ।
 
स्यूम॑गभस्तिमृत॒युग्भि॒रश्वै॒राश्वि॑ना॒ वसु॑मंतं वहेथां ॥३
 
आ । वा॒म् । रथ॑म् । अ॒व॒मस्या॑म् । विऽउ॑ष्टौ । सु॒म्न॒ऽयवः॑ । वृष॑णः । व॒र्त॒य॒न्तु॒ ।
 
स्यूम॑ऽगभस्तिम् । ऋ॒त॒युक्ऽभिः॑ । अश्वैः॑ । आ । अ॒श्वि॒ना॒ । वसु॑ऽमन्तम् । व॒हे॒था॒म् ॥
 
आ । वाम् । रथम् । अवमस्याम् । विऽउष्टौ । सुम्नऽयवः । वृषणः । वर्तयन्तु ।
 
स्यूमऽगभस्तिम् । ऋतयुक्ऽभिः । अश्वैः । आ । अश्विना । वसुऽमन्तम् । वहेथाम् ॥
 
“अवमस्याम् आसन्नायां “व्युष्टौ व्युच्छन उषसि “वां युवयोः “रथं "सुम्नायवः सुखेन योजयन्तोऽश्वाः “वृषणः वर्षका युवाम् "आ "वर्तयन्तु । “स्यूमगभस्तिं सुखरश्मिं स्यूतरश्मिं "वसुमन्तं प्रदेयधनयुक्तं रथं हे “अश्विना अश्विनौ “ऋतयुग्भिः उदकयुक्तैः “अश्वैः उदकप्रदैरश्वैः “आ “वहेथाम् ॥
 
 
यो वां॒ रथो॑ नृपती॒ अस्ति॑ वो॒ळ्हा त्रि॑वंधु॒रो वसु॑माँ उ॒स्रया॑मा ।
 
आ न॑ ए॒ना ना॑स॒त्योप॑ यातम॒भि यद्वां॑ वि॒श्वप्स्न्यो॒ जिगा॑ति ॥४
 
यः । वा॒म् । रथः॑ । नृ॒प॒ती॒ इति॑ नृऽपती । अस्ति॑ । वो॒ळ्हा । त्रि॒ऽव॒न्धु॒रः । वसु॑ऽमान् । उ॒स्रऽया॑मा ।
 
आ । नः॒ । ए॒ना । ना॒स॒त्या॒ । उप॑ । या॒त॒म् । अ॒भि । यत् । वा॒म् । वि॒श्वऽप्स्न्यः॑ । जिगा॑ति ॥
 
यः । वाम् । रथः । नृपती इति नृऽपती । अस्ति । वोळ्हा । त्रिऽवन्धुरः । वसुऽमान् । उस्रऽयामा ।
 
आ । नः । एना । नासत्या । उप । यातम् । अभि । यत् । वाम् । विश्वऽप्स्न्यः । जिगाति ॥
 
हे “नृपती नृणां यजमानानां पालकावश्विनौ “वां युवयोः “यः “रथः “वोळ्हा युवयोर्वाहकः “अस्ति सर्वदा संनिहितो वर्तते । कीदृशोऽसौ । “त्रिवन्धुरः सारथ्यधिष्ठानस्थानत्रयोपेतः “वसुमान् धनवान् “उस्रयामा उस्रं दिवसं प्रति गन्ता । “एना एतेन रथेन हे “नासत्या अश्विनौ “नः अस्मान् "उप “आ “यातम् । “यत् रथः यश्च रथः “वां “विश्वप्स्न्यः व्याप्तरूपः “अभि “जिगाति अभिगच्छति । अन्य आह । यद्यस्माद्विश्वप्स्न्यो वसिष्ठो वां जिगाति स्तौति अत उपा यातम् ।।
 
 
यु॒वं च्यवा॑नं ज॒रसो॑ऽमुमुक्तं॒ नि पे॒दव॑ ऊहथुरा॒शुमश्वं॑ ।
 
निरंह॑स॒स्तम॑सः स्पर्त॒मत्रिं॒ नि जा॑हु॒षं शि॑थि॒रे धा॑तमं॒तः ॥५
 
यु॒वम् । च्यवा॑नम् । ज॒रसः॑ । अ॒मु॒मु॒क्त॒म् । नि । पे॒दवे॑ । ऊ॒ह॒थुः॒ । आ॒शुम् । अश्व॑म् ।
 
निः । अंह॑सः । तम॑सः । स्प॒र्त॒म् । अत्रि॑म् । नि । जा॒हु॒षम् । शि॒थि॒रे । धा॒त॒म् । अ॒न्तरिति॑ ॥
 
युवम् । च्यवानम् । जरसः । अमुमुक्तम् । नि । पेदवे । ऊहथुः । आशुम् । अश्वम् ।
 
निः । अंहसः । तमसः । स्पर्तम् । अत्रिम् । नि । जाहुषम् । शिथिरे । धातम् । अन्तरिति ॥
 
हे अश्विना “युवं युवां “च्यवानं “जरसः जीर्णाद्रूपात् "अमुमुक्तम् अमुञ्चतम् ।' युवं च्यवानमश्विना जरन्तं पुनर्युवानम्' (ऋ. सं. १. ११७. १३) इति ह्यन्यत्र । तथा "पेदवे एतन्नामकाय राज्ञे "आशुं शीघ्रगामिनम् “अश्वं “निः “ऊहथुः न्यवहतं युद्धे । युवं श्वेतं पेदवे' (ऋ. सं. १. ११८. ९) इति निगमः । तथा “अत्रिं महर्षिम् “अंहसः ऋबीसादग्नेः सकाशात् “तमसः च गुहान्तःस्थिताच्च सकाशात् “निः “स्पर्त न्यपारयतम् । ‘युवमृबीसमुत तप्तमत्रय ओमन्वन्तं चक्रथुः' (ऋ. सं. १०. ३९. ९) इति निगमः । तथा “जाहुषं “शिथिरे शिथिले भ्रष्टे स्वराष्ट्रे "अन्तः मध्ये पुनः “नि “धातं न्यधातम् । “परिविष्टं जाहुषं विश्वतः सीम्' (ऋ. सं. १. ११६. २०) इति ह्युक्तम् ।।
 
 
इ॒यं म॑नी॒षा इ॒यम॑श्विना॒ गीरि॒मां सु॑वृ॒क्तिं वृ॑षणा जुषेथां ।
 
इ॒मा ब्रह्मा॑णि युव॒यून्य॑ग्मन्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥६
 
इ॒यम् । म॒नी॒षा । इ॒यम् । अ॒श्वि॒ना॒ । गीः । इ॒माम् । सु॒ऽवृ॒क्तिम् । वृ॒ष॒णा॒ । जु॒षे॒था॒म् ।
 
इ॒मा । ब्रह्मा॑णि । यु॒व॒ऽयूनि॑ । अ॒ग्म॒न् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥
 
इयम् । मनीषा । इयम् । अश्विना । गीः । इमाम् । सुऽवृक्तिम् । वृषणा । जुषेथाम् ।
 
इमा । ब्रह्माणि । युवऽयूनि । अग्मन् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥
 
‘इयं मनीषा' इति षष्ठी गता ॥ ॥ १८ ॥
 
}}
{{ऋग्वेदः मण्डल ७}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.७१" इत्यस्माद् प्रतिप्राप्तम्