"ऐतरेय ब्राह्मणम्/पञ्चिका ४ (चतुर्थ पञ्चिका)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २७:
679
 
पान्तमा वो अन्धस इत्यन्धस्वत्यानुष्टुभा रात्रीम्प्रतिपद्यल आनुष्टुभी वै रात्रिरेतद्र ?ात्रिरूपमन्धस्वत्यःरात्रिरेतद्रात्रिरूपमन्धस्वत्यः पीतवत्यो मद्वत्यस्त्रिष्टुभो याज्या भवन्त्यभिरूपा यद्यज्ञेऽभिरूपं तत्समृद्धम्प्रथमेन पर्यायेण स्तुवते प्रथमान्येव पदानि पुनराददते यदेवैषामश्वा गाव आसंस्तदेवैषां तेनाददते मध्यमेन पर्यायेण स्तुवते मध्यमान्येव पदानि पुनराददते यदेवैषामनोरथा आसंस्तदेवैषां तेनाददत उत्तमेन पर्यायेण स्तुवत उत्तमान्येव पदानि पुनराददते यदेवैषां वासो हिरण्यम्मणिरध्यात्ममासीत्तदेवैषां तेनाददत आ द्विषतो वसु दत्ते निरेनमेभ्यः सर्वेभ्यो लोकेभ्यो नुदते य एवं वेद पवमानवदहरित्याहुर्न रात्रिः पवमानवती कथमुभे पवमानवती भवतः केन ते समावद्भाजौ भवत इति यदेवेन्द्राय मद्वने सुतमिदं वसो सुतमन्ध इदं ह्यन्वोजसा सुतमिति स्तुवन्ति च शंसन्ति च तेन रात्रिः पवमानवती तेनोभे पवमानवती भवतस्तेन ते समावद्भाजौ भवतः पञ्चदशस्तोत्रमहरित्याहुर्न रात्रिः पञ्चदशस्तोत्रा कथमुभे पञ्चदशस्तोत्रे भवतः केन ते समावद्भाजौ भवत इति द्वादश स्तोत्राण्यपिशर्वराणि तिसृभिर्देवताभिः संधिना राथंतरेण स्तुवते तेन रात्रिः पञ्चदशस्तोत्रा तेनोभे पञ्चदशस्तोत्रे भवतस्तेन ते समावद्भाजौ भवतः परिमितं स्तुवन्त्यपरिमितमनुशंसति परिमितं वै भूतमपरिमितम्भव्यमपरिमितस्यावरुद्ध्या इत्यतिशंसति स्तोत्रमति वै प्रजात्मानमति पशवस्तद्यत्स्तोत्रमतिशंसति यदेवास्यात्यात्मानं तदेवास्यैतेनावरुन्धे वरुन्धे॥4.6॥