"ऋग्वेदः सूक्तं १.११६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४४६:
}}
{{ऋग्वेदः मण्डल १}}
 
== ==
{{टिप्पणी|
[http://puranastudy.angelfire.com/pur_index2/ashwinau.htm अश्विनौ उपरि टिप्पणी]
 
 
का॒रो॒त॒राच्छ॒फादश्व॑स्य॒ वृष्णः॑ श॒तं कुं॒भाँ अ॑सिंचतं॒ सुरा॑याः ॥७
 
कथनमस्ति यत् अश्वस्य यः शफः अस्ति, तत् एकः कारोतरः, छन्नकः, निःस्यन्दकः अस्ति। अस्मात् कारोतरात् शतानां कुंभपरिमाणानां सुरायाः सिञ्चनं भवति।
 
पुराणेषु सार्वत्रिकरूपेण आख्यानमस्ति यत् यदा सूर्यः वडवारूपधारिण्या स्वपत्न्या संज्ञा सह मिथुनं करोति एवं तस्याः नासिकायां वीर्यसेकं करोति, तदैव अश्विनोः प्रादुर्भावं भवति। ध्यानसाधकेषु सुविदितमस्ति यत् यदा ध्यानस्य प्रभावं नासिकायाः श्वासवायोरुपरि पतति, तदा देहस्य क्रियाप्रणाल्यां बहवः परिवर्तनाः घटन्ति। नायं अनिवार्यमस्ति यत् सूर्येणैव संज्ञया सह मिथुनं भविष्यति। सूर्यः यम-नियमस्य पालनकर्ता सामान्यसाधकः अस्ति। श्वासे परिवर्तनस्य प्रभावं अयं अस्ति यत् देहे चेतनायाः गतिः ऊर्ध्वमुखी भवति। ये पादाः सन्ति, तेभ्यः कस्यचित् द्रवस्य निस्सरणं भवति एवं अस्य द्रवस्य गतिः शिरोगामी भवति। अयं प्रतीयते यत् अस्मिन् ऋचायां पादयोः संज्ञा शफौ अस्ति एवं यस्य द्रवस्य निःसरणं भवति, तस्य संज्ञा सुरा अस्ति। केन कारणेन अश्विनोः स्वरूपं द्विवचनीयं अस्ति, अयं अन्वेषणीयं अस्ति।
 
मन्त्रेषु अश्विन्योः विशिष्टानां कृत्यानां उल्लेखं यत्रतत्रास्ति। सौत्रामणीयागे अश्विन्योः कार्यं सुरायाः शोधनं सोमस्य सीमातः करणमस्ति, अयं प्रतीयते। न सुरा देवानां प्रियमस्ति। किन्तु मनुष्याणां सर्वं व्यापारं सुरायाः माध्यमेन एव भवति। सुरायाः शोधनस्य नैसर्गिकं प्रयासं अपि भवति। एके मन्त्रे कथनमस्ति - रेतो मूत्रं विजहाति इति। सुरातः रेतसः ग्रहणं, मूत्रस्य विसर्जनं जीवस्य देहे स्वाभाविकरूपेण भवति। यदा सुरायाः गतिः पादेभ्यः शिरं प्रति भवति, अयमपि नैसर्गिकं अस्ति। अस्यां क्रियायां बाह्यप्रयत्नेन परिवर्तनं संभवं नास्ति। किन्तु, सुरायाः पादेभ्यः शिरोपर्यन्तं वहने ये प्रतिरोधाः सन्ति, तेषां अपनयनं साधकस्य कर्तव्यमस्ति। पादेभ्यः शिरोपर्यन्तं वहनं द्रवस्य साधारणं वहनं नास्ति, अपितु नैरन्तर्येण द्रवस्य न्यून एण्ट्रांपी ग्रहणस्य प्रक्रिया अस्ति। शिरः न्यूनतम अव्यवस्थायाः, न्यूनतम एण्ट्रांपेः केन्द्रं अस्ति।
 
मन्त्रे कथनमस्ति - सोममद्भ्यो व्यपिबच्छन्दसा हंसः शुचिषत् इति।
 
अद्भ्यः क्षीरं व्यपिबत् क्रुङ्ङागिरसो धिया इति।
 
अयं संकेतमस्ति यत् सुरायाः शोधनं द्विस्तरयोपरि संभवमस्ति - हंसस्तरे एवं क्रौञ्चस्तरे।
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.११६" इत्यस्माद् प्रतिप्राप्तम्