"ऋग्वेदः सूक्तं १.२२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५४:
</span></poem>
{{सायणभाष्यम्|
 
प्रा॒त॒र्युजा॒ वि बो॑धया॒श्विना॒वेह ग॑च्छताम् ।
 
अ॒स्य सोम॑स्य पी॒तये॑ ॥
 
या सु॒रथा॑ र॒थीत॑मो॒भा दे॒वा दि॑वि॒स्पृशा॑ ।
 
अ॒श्विना॒ ता ह॑वामहे ॥
 
या वां॒ कशा॒ मधु॑म॒त्यश्वि॑ना सू॒नृता॑वती ।
 
तया॑ य॒ज्ञं मि॑मिक्षतम् ॥
 
न॒हि वा॒मस्ति॑ दूर॒के यत्रा॒ रथे॑न॒ गच्छ॑थः ।
 
अश्वि॑ना सो॒मिनो॑ गृ॒हम् ॥
 
हिर॑ण्यपाणिमू॒तये॑ सवि॒तार॒मुप॑ ह्वये ।
 
स चेत्ता॑ दे॒वता॑ प॒दम् ॥
 
अ॒पां नपा॑त॒मव॑से सवि॒तार॒मुप॑ स्तुहि ।
 
तस्य॑ व्र॒तान्यु॑श्मसि ॥
 
वि॒भ॒क्तारं॑ हवामहे॒ वसो॑श्चि॒त्रस्य॒ राध॑सः ।
 
स॒वि॒तारं॑ नृ॒चक्ष॑सम् ॥
 
सखा॑य॒ आ नि षी॑दत सवि॒ता स्तोम्यो॒ नु न॑ः ।
 
दाता॒ राधां॑सि शुम्भति ॥
 
अग्ने॒ पत्नी॑रि॒हा व॑ह दे॒वाना॑मुश॒तीरुप॑ ।
 
त्वष्टा॑रं॒ सोम॑पीतये ॥
 
आ ग्ना अ॑ग्न इ॒हाव॑से॒ होत्रां॑ यविष्ठ॒ भार॑तीम् ।
 
वरू॑त्रीं धि॒षणां॑ वह ॥
 
अ॒भि नो॑ दे॒वीरव॑सा म॒हः शर्म॑णा नृ॒पत्नी॑ः ।
 
अच्छि॑न्नपत्राः सचन्ताम् ॥
 
इ॒हेन्द्रा॒णीमुप॑ ह्वये वरुणा॒नीं स्व॒स्तये॑ ।
 
अ॒ग्नायीं॒ सोम॑पीतये ॥
 
म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञं मि॑मिक्षताम् ।
 
पि॒पृ॒तां नो॒ भरी॑मभिः ॥
 
तयो॒रिद्घृ॒तव॒त्पयो॒ विप्रा॑ रिहन्ति धी॒तिभि॑ः ।
 
ग॒न्ध॒र्वस्य॑ ध्रु॒वे प॒दे ॥
 
स्यो॒ना पृ॑थिवि भवानृक्ष॒रा नि॒वेश॑नी ।
 
यच्छा॑ न॒ः शर्म॑ स॒प्रथ॑ः ॥
 
अतो॑ दे॒वा अ॑वन्तु नो॒ यतो॒ विष्णु॑र्विचक्र॒मे ।
 
पृ॒थि॒व्याः स॒प्त धाम॑भिः ॥
 
इ॒दं विष्णु॒र्वि च॑क्रमे त्रे॒धा नि द॑धे प॒दम् ।
 
समू॑ळ्हमस्य पांसु॒रे ॥
 
त्रीणि॑ प॒दा वि च॑क्रमे॒ विष्णु॑र्गो॒पा अदा॑भ्यः ।
 
अतो॒ धर्मा॑णि धा॒रय॑न् ॥
 
विष्णो॒ः कर्मा॑णि पश्यत॒ यतो॑ व्र॒तानि॑ पस्प॒शे ।
 
इन्द्र॑स्य॒ युज्य॒ः सखा॑ ॥
 
तद्विष्णो॑ः पर॒मं प॒दं सदा॑ पश्यन्ति सू॒रय॑ः ।
 
दि॒वी॑व॒ चक्षु॒रात॑तम् ॥
 
तद्विप्रा॑सो विप॒न्यवो॑ जागृ॒वांस॒ः समि॑न्धते ।
 
विष्णो॒र्यत्प॑र॒मं प॒दम् ॥
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२२" इत्यस्माद् प्रतिप्राप्तम्