"ऋग्वेदः सूक्तं १.२२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५७:
प्रा॒त॒र्युजा॒ वि बो॑धया॒श्विना॒वेह ग॑च्छताम् ।
 
अ॒स्य सोम॑स्य पी॒तये॑ ॥१
 
प्रा॒तः॒ऽयुजा॑ । वि । बो॒ध॒य॒ । अ॒श्विनौ॑ । आ । इ॒ह । ग॒च्छ॒ता॒म् ।
 
अ॒स्य । सोम॑स्य । पी॒तये॑ ॥
 
प्रातःऽयुजा । वि । बोधय । अश्विनौ । आ । इह । गच्छताम् ।
 
अस्य । सोमस्य । पीतये ॥
 
 
या सु॒रथा॑ र॒थीत॑मो॒भा दे॒वा दि॑वि॒स्पृशा॑ ।
 
अ॒श्विना॒ ता ह॑वामहे ॥२
 
या । सु॒ऽरथा॑ । र॒थिऽत॑मा । उ॒भा । दे॒वा । दि॒वि॒ऽस्पृशा॑ ।
 
अ॒श्विना॑ । ता । ह॒वा॒म॒हे॒ ॥
 
या । सुऽरथा । रथिऽतमा । उभा । देवा । दिविऽस्पृशा ।
 
अश्विना । ता । हवामहे ॥
 
 
या वां॒ कशा॒ मधु॑म॒त्यश्वि॑ना सू॒नृता॑वती ।
 
तया॑ य॒ज्ञं मि॑मिक्षतम् ॥३
 
या । वा॒म् । कशा॑ । मधु॑ऽमती । अश्वि॑ना । सू॒नृता॑ऽवती ।
 
तया॑ । य॒ज्ञम् । मि॒मि॒क्ष॒त॒म् ॥
 
या । वाम् । कशा । मधुऽमती । अश्विना । सूनृताऽवती ।
 
तया । यज्ञम् । मिमिक्षतम् ॥
 
 
न॒हि वा॒मस्ति॑ दूर॒के यत्रा॒ रथे॑न॒ गच्छ॑थः ।
 
अश्वि॑ना सो॒मिनो॑ गृ॒हम् ॥४
 
न॒हि । वा॒म् । अस्ति॑ । दू॒र॒के । यत्र॑ । रथे॑न । गच्छ॑थः ।
 
अश्वि॑ना । सो॒मिनः॑ । गृ॒हम् ॥
 
नहि । वाम् । अस्ति । दूरके । यत्र । रथेन । गच्छथः ।
 
अश्विना । सोमिनः । गृहम् ॥
 
 
हिर॑ण्यपाणिमू॒तये॑ सवि॒तार॒मुप॑ ह्वये ।
 
स चेत्ता॑ दे॒वता॑ प॒दम् ॥५
 
हिर॑ण्यऽपाणिम् । ऊ॒तये॑ । स॒वि॒तार॑म् । उप॑ । ह्व॒ये॒ ।
 
सः । चेत्ता॑ । दे॒वता॑ । प॒दम् ॥
 
हिरण्यऽपाणिम् । ऊतये । सवितारम् । उप । ह्वये ।
 
सः । चेत्ता । देवता । पदम् ॥
 
 
अ॒पां नपा॑त॒मव॑से सवि॒तार॒मुप॑ स्तुहि ।
 
तस्य॑ व्र॒तान्यु॑श्मसि ॥६
 
अ॒पाम् । नपा॑तम् । अव॑से । स॒वि॒तार॑म् । उप॑ । स्तु॒हि॒ ।
 
तस्य॑ । व्र॒तानि॑ । उ॒श्म॒सि॒ ॥
 
अपाम् । नपातम् । अवसे । सवितारम् । उप । स्तुहि ।
 
तस्य । व्रतानि । उश्मसि ॥
 
 
वि॒भ॒क्तारं॑ हवामहे॒ वसो॑श्चि॒त्रस्य॒ राध॑सः ।
 
स॒वि॒तारं॑ नृ॒चक्ष॑सम् ॥७
 
वि॒ऽभ॒क्तार॑म् । ह॒वा॒म॒हे॒ । वसोः॑ । चि॒त्रस्य॑ । राध॑सः ।
 
स॒वि॒तार॑म् । नृ॒ऽचक्ष॑सम् ॥
 
विऽभक्तारम् । हवामहे । वसोः । चित्रस्य । राधसः ।
 
सवितारम् । नृऽचक्षसम् ॥
 
 
सखा॑य॒ आ नि षी॑दत सवि॒ता स्तोम्यो॒ नु न॑ः ।
 
दाता॒ राधां॑सि शुम्भति ॥८
 
सखा॑यः । आ । नि । सी॒द॒त॒ । स॒वि॒ता । स्तोम्यः॑ । नु । नः॒ ।
 
दाता॑ । राधां॑सि । शु॒म्भ॒ति॒ ॥
 
सखायः । आ । नि । सीदत । सविता । स्तोम्यः । नु । नः ।
 
दाता । राधांसि । शुम्भति ॥
 
 
अग्ने॒ पत्नी॑रि॒हा व॑ह दे॒वाना॑मुश॒तीरुप॑ ।
 
त्वष्टा॑रं॒ सोम॑पीतये ॥९
 
अग्ने॑ । पत्नीः॑ । इ॒ह । आ । व॒ह॒ । दे॒वाना॑म् । उ॒श॒तीः । उप॑ ।
 
त्वष्टा॑रम् । सोम॑ऽपीतये ॥
 
अग्ने । पत्नीः । इह । आ । वह । देवानाम् । उशतीः । उप ।
 
त्वष्टारम् । सोमऽपीतये ॥
 
 
आ ग्ना अ॑ग्न इ॒हाव॑से॒ होत्रां॑ यविष्ठ॒ भार॑तीम् ।
 
वरू॑त्रीं धि॒षणां॑ वह ॥१०
 
आ । ग्नाः । अ॒ग्ने॒ । इ॒ह । अव॑से । होत्रा॑म् । य॒वि॒ष्ठ॒ । भार॑तीम् ।
 
वरू॑त्रीम् । धि॒षणा॑म् । व॒ह॒ ॥
 
आ । ग्नाः । अग्ने । इह । अवसे । होत्राम् । यविष्ठ । भारतीम् ।
 
वरूत्रीम् । धिषणाम् । वह ॥
 
 
अ॒भि नो॑ दे॒वीरव॑सा म॒हः शर्म॑णा नृ॒पत्नी॑ः ।
 
अच्छि॑न्नपत्राः सचन्ताम् ॥११
 
अ॒भि । नः॒ । दे॒वीः । अव॑सा । म॒हः । शर्म॑णा । नृ॒ऽपत्नीः॑ ।
 
अच्छि॑न्नऽपत्राः । स॒च॒न्ता॒म् ॥
 
अभि । नः । देवीः । अवसा । महः । शर्मणा । नृऽपत्नीः ।
 
अच्छिन्नऽपत्राः । सचन्ताम् ॥
 
 
इ॒हेन्द्रा॒णीमुप॑ ह्वये वरुणा॒नीं स्व॒स्तये॑ ।
 
अ॒ग्नायीं॒ सोम॑पीतये ॥१२
 
इ॒ह । इ॒न्द्रा॒णीम् । उप॑ । ह्व॒ये॒ । व॒रु॒णा॒नीम् । स्व॒स्तये॑ ।
 
अ॒ग्नायी॑म् । सोम॑ऽपीतये ॥
 
इह । इन्द्राणीम् । उप । ह्वये । वरुणानीम् । स्वस्तये ।
 
अग्नायीम् । सोमऽपीतये ॥
 
 
म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञं मि॑मिक्षताम् ।
 
पि॒पृ॒तां नो॒ भरी॑मभिः ॥१३
 
म॒ही । द्यौः । पृ॒थि॒वी । च॒ । नः॒ । इ॒मम् । य॒ज्ञम् । मि॒मि॒क्ष॒ता॒म् ।
 
पि॒पृ॒ताम् । नः॒ । भरी॑मऽभिः ॥
 
मही । द्यौः । पृथिवी । च । नः । इमम् । यज्ञम् । मिमिक्षताम् ।
 
पिपृताम् । नः । भरीमऽभिः ॥
 
 
तयो॒रिद्घृ॒तव॒त्पयो॒ विप्रा॑ रिहन्ति धी॒तिभि॑ः ।
 
ग॒न्ध॒र्वस्य॑ ध्रु॒वे प॒दे ॥१४
 
तयोः॑ । इत् । घृ॒तऽव॑त् । पयः॑ । विप्राः॑ । रि॒ह॒न्ति॒ । धी॒तिऽभिः॑ ।
 
ग॒न्ध॒र्वस्य॑ । ध्रु॒वे । प॒दे ॥
 
तयोः । इत् । घृतऽवत् । पयः । विप्राः । रिहन्ति । धीतिऽभिः ।
 
गन्धर्वस्य । ध्रुवे । पदे ॥
 
 
स्यो॒ना पृ॑थिवि भवानृक्ष॒रा नि॒वेश॑नी ।
 
यच्छा॑ न॒ः शर्म॑ स॒प्रथ॑ः ॥१५
 
स्यो॒ना । पृ॒थि॒वि॒ । भ॒व॒ । अ॒नृ॒क्ष॒रा । नि॒ऽवेश॑नी ।
 
यच्छ॑ । नः॒ । शर्म॑ । स॒ऽप्रथः॑ ॥
 
स्योना । पृथिवि । भव । अनृक्षरा । निऽवेशनी ।
 
यच्छ । नः । शर्म । सऽप्रथः ॥
 
 
अतो॑ दे॒वा अ॑वन्तु नो॒ यतो॒ विष्णु॑र्विचक्र॒मे ।
 
पृ॒थि॒व्याः स॒प्त धाम॑भिः ॥१६
 
अतः॑ । दे॒वाः । अ॒व॒न्तु॒ । नः॒ । यतः॑ । विष्णुः॑ । वि॒ऽच॒क्र॒मे ।
 
पृ॒थि॒व्याः । स॒प्त । धाम॑ऽभिः ॥
 
अतः । देवाः । अवन्तु । नः । यतः । विष्णुः । विऽचक्रमे ।
 
पृथिव्याः । सप्त । धामऽभिः ॥
 
 
इ॒दं विष्णु॒र्वि च॑क्रमे त्रे॒धा नि द॑धे प॒दम् ।
 
समू॑ळ्हमस्य पांसु॒रे ॥१७
 
इ॒दम् । विष्णुः॑ । वि । च॒क्र॒मे॒ । त्रे॒धा । नि । द॒धे॒ । प॒दम् ।
 
सम्ऽऊ॑ळ्हम् । अ॒स्य॒ । पां॒सु॒रे ॥
 
इदम् । विष्णुः । वि । चक्रमे । त्रेधा । नि । दधे । पदम् ।
 
सम्ऽऊळ्हम् । अस्य । पांसुरे ॥
 
 
त्रीणि॑ प॒दा वि च॑क्रमे॒ विष्णु॑र्गो॒पा अदा॑भ्यः ।
 
अतो॒ धर्मा॑णि धा॒रय॑न् ॥१८
 
त्रीणि॑ । प॒दा । वि । च॒क्र॒मे॒ । विष्णुः॑ । गो॒पाः । अदा॑भ्यः ।
 
अतः॑ । धर्मा॑णि । धा॒रय॑न् ॥
 
त्रीणि । पदा । वि । चक्रमे । विष्णुः । गोपाः । अदाभ्यः ।
 
अतः । धर्माणि । धारयन् ॥
 
 
विष्णो॒ः कर्मा॑णि पश्यत॒ यतो॑ व्र॒तानि॑ पस्प॒शे ।
 
इन्द्र॑स्य॒ युज्य॒ः सखा॑ ॥१९
 
विष्णोः॑ । कर्मा॑णि । प॒श्य॒त॒ । यतः॑ । व्र॒तानि॑ । प॒स्प॒शे ।
 
इन्द्र॑स्य । युज्यः॑ । सखा॑ ॥
 
विष्णोः । कर्माणि । पश्यत । यतः । व्रतानि । पस्पशे ।
 
इन्द्रस्य । युज्यः । सखा ॥
 
 
तद्विष्णो॑ः पर॒मं प॒दं सदा॑ पश्यन्ति सू॒रय॑ः ।
 
दि॒वी॑व॒ चक्षु॒रात॑तम् ॥२०
 
तत् । विष्णोः॑ । प॒र॒मम् । प॒दम् । सदा॑ । प॒श्य॒न्ति॒ । सू॒रयः॑ ।
 
दि॒विऽइ॑व । चक्षुः॑ । आऽत॑तम् ॥
 
तत् । विष्णोः । परमम् । पदम् । सदा । पश्यन्ति । सूरयः ।
 
दिविऽइव । चक्षुः । आऽततम् ॥
 
 
तद्विप्रा॑सो विप॒न्यवो॑ जागृ॒वांस॒ः समि॑न्धते ।
 
विष्णो॒र्यत्प॑र॒मं प॒दम् ॥२१
 
तत् । विप्रा॑सः । वि॒प॒न्यवः॑ । जा॒गृ॒ऽवांसः॑ । सम् । इ॒न्ध॒ते॒ ।
 
विष्णोः॑ । यत् । प॒र॒मम् । प॒दम् ॥
 
तत् । विप्रासः । विपन्यवः । जागृऽवांसः । सम् । इन्धते ।
 
विष्णोः । यत् । परमम् । पदम् ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२२" इत्यस्माद् प्रतिप्राप्तम्