"ऋग्वेदः सूक्तं १.२२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५४:
</span></poem>
{{सायणभाष्यम्|
‘प्रातर्युजा' इत्यादिकमेकविंशत्यृचं पञ्चमं सूक्तम् । तस्य ऋषिच्छन्दसी पूर्ववत् । देवताविशेषस्त्वनुक्रम्यते-- प्रातर्युजा सैका चतस्र आश्विन्यस्तथा सावित्र्य आग्नेय्यौ द्वे देवीनामेकैकेन्द्राणीवरुणान्यग्नायीनां द्यावापृथिव्ये पार्थिवी षड्वैष्णव्योऽतो देवा दैवी वा' इति । ‘सूक्तसंख्यानुवर्तते ' इत्यस्मिन् खण्डे अनिरुक्ता संख्या विंशतिः' (अनु. १२. ४ ) इति परिभाषितत्वात् ‘ प्रातर्युजा' इति सूक्ते संख्याविशेषस्यानिरुक्ता संख्या विंशतिसंख्या द्रष्टव्या । सा च विंशतिः एकयाधिकया सह वर्तते इति सैका । तत्रादौ चतस्र ऋचः अश्विदेवताकाः । पञ्चमीमारभ्य अष्टम्यन्ताः चतस्रः सवितृदेवताकाः । नवमी दशमी चोभे अग्निदेवताके । एकादश्या ऋचो देवसंबन्धिन्यो देव्यो देवताः । द्वादश्या इन्द्रवरुणाग्निपत्न्य इन्द्राणीवरुणान्यग्नाय्यो देवताः । त्रयोदशीचतुर्दश्यौ द्यावापृथिवीदेवताके । पञ्चदशी पार्थिवी । षोडश्याद्याः षट् विष्णुदेवत्याः । षोडशी कृत्स्नदेवत्या वा । अत्र सूक्तविनियोगो लैङ्गिकः । प्रातरनुवाके आश्विने क्रतौ ‘ प्रातर्युजा वि बोधय' इति चतस्र ऋचः । सूत्रितं च - ’अथाश्विन एषो उषाः प्रातर्युजेति चतस्रः ' ( आश्व. श्रौ. ४. १५ ) इति । आश्विनग्रहस्य ‘प्रातर्युजा' इत्येका पुरोनुवाक्या । ‘द्विदेवत्यैश्चरन्ति' इति खण्डे सूत्रितम्- आश्विनस्य प्रातर्युजा वि बोधय' (आश्व. श्रौ. ५. ५) इति ।
 
 
प्रा॒त॒र्युजा॒ वि बो॑धया॒श्विना॒वेह ग॑च्छताम् ।
Line ६६ ⟶ ६८:
 
अस्य । सोमस्य । पीतये ॥
 
अत्र होता अध्वर्युमुद्दिश्य ब्रूते । हे अध्वर्यो “प्रातर्युजा प्रातःसवनग्रहेण संयुक्तावश्विनौ देवौ “वि "बोधय विशेषेण प्रबुद्धौ कुरु । “अश्विनौ प्रबुद्धौ चाश्विनौ देवौ “अस्य अभिषवसंस्कारयुक्तस्य “सोमस्य “पीतये पानाय "इह कर्मणि “आ “गच्छताम् । प्रातर्युञ्जाते गृह्यमाणेन ग्रहेण सहेति प्रातर्युजा । ‘सत्सूद्विष" ' इत्यादिना क्विप् । सुपां सुलुक्° ' इति आकारः । कृदुत्तरपदप्रकृतिस्वरत्वम् । अस्य । ‘उडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् । पीतये । व्यत्ययेन क्तिन उदात्तत्वम् ॥
 
 
Line ७९ ⟶ ८३:
 
अश्विना । ता । हवामहे ॥
 
"या “उभा “अश्विना "देवा यावुभावश्विनौ देवौ “सुरथा शोभनरथयुक्तौ “रथीतमा रथिनां मध्ये अतिशयेन रथिनौ “दिविस्पृशा द्युलोकनिवासिनौ “ता “हवामहे तादृशावश्विनावाह्वयामहे ॥ या इत्यादिष्वष्टसु पदेषु ‘सुपां सुलुक्' इति द्विवचनस्य आकारः । सुरथा । शोभनो रथो ययोस्तौ सुरथौ । समासान्तोदात्तत्वापवादं बहुव्रीहौ पूर्वपदप्रकृतिस्वरं बाधित्वा ‘नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वे प्राप्ते ' आद्युदात्तं द्व्यच्छन्दसि ' इत्युत्तरपदाद्युदात्तत्वम् । रथीतमा । ‘अन्येषामपि दृश्यते' ( पा. सू. ६. ३. १३७ ) इति संहितायाम् इकारस्य दीर्घत्वम् । दिविस्पृशा । दिवि स्पृशतः इति दिविस्पृशौ । ‘क्विप् च ' इति क्विप् । ‘तत्पुरुषे कृति बहुलम् ' ( पा. सू. ६. ३. १४ ) इति अलुक् ।' गतिकारकोपपदात्कृत्' इति कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
 
 
Line ९२ ⟶ ९८:
 
तया । यज्ञम् । मिमिक्षतम् ॥
 
“अश्विना हे अश्विनौ देवौ “वां युवयोः संबन्धिनी “या “कशा अश्वताडनी विद्यते “तया सहागत्य “यज्ञम् अस्मदीयं “मिमिक्षतं सोमरसेन सेक्तुमिच्छतम् । कशयाश्वान् दृढं ताडयित्वा सहसा समागत्य भवद्विषयां सोमरसाहुतिं निष्पादयितुमुद्युक्तौ भवतमित्यर्थः । कीदृशी कशा । “मधुमती।' अर्णः क्षोदः' इत्यादिषु एकशतसंख्याकेषु उदकनामसु ‘मधु पुरीषम्' (नि. १. १२. ११) इति पठितम् । तस्मात् उदकवतीत्युक्तं भवति । अश्वस्य शीघ्रगत्या यत् स्वेदोदकं स्रवति तेनेयं कशा क्लिन्नेत्यर्थः । "सूनृतावती प्रियसत्यवाग्युक्ता । तीव्रेण कशाताडनेन यो ध्वनिर्निष्पद्यते ताडनवेलायाम् अश्वारूढेन च य आक्रोशः क्रियते तदुभयं शीघ्रगमनहेतुत्वेन यजमानस्य प्रियम् । यद्वा । ' श्लोकः धारा' इत्यादिषु सप्तपञ्चाशद्वाङ्नामसु • कशा धिषणा ' ( नि. १. ११. ४३ ) इति पठितम् । अश्विनोर्या वाक् मधुमती माधुर्योपेता पारुष्यरहिता सूनृतावती प्रियत्वसत्यत्वोपेता फलप्रदानविषयेत्यर्थः । तया वाचा युक्तौ यज्ञं मिमिक्षतमिति योजनीयम् ॥ कशा ।' कश गतिशातनयोः '। पचाद्यच् । वृषादित्वादाद्युदात्तः । सूनृतावती। ‘ऊन परिहाणे '। सुष्ठु ऊनयति अप्रियम् इति सून् । तथाविधम् ऋतं सत्यं यस्यां वाचि सा सुनृता। ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वं बाधित्वा • परादिश्छन्दसि बहुलम्' इति ऋकार उदात्तः । सा यस्या अस्ति सा कशा सूनृतावतीति कशायाः संज्ञा । एवंनामा या कशेत्यर्थः । ‘संज्ञायाम् ' (पा. सू. ८. २. ११) इति मतुपो वत्वम् । मिमिक्षतम् । मिहेः सन् । हलन्ताच्च ' ( पा. सू. १. २. १० ) इति कित्वाद्गुणाभावः । ढत्वकत्वषत्वानि ॥
 
 
Line १०६ ⟶ ११४:
अश्विना । सोमिनः । गृहम् ॥
 
“अश्विना हे अश्विनौ देवौ युवां “सोमिनः सोमवतो यजमानस्य “गृहं प्रति “रथेन “गच्छथः स मार्गो “वां युवयोः "दूरके दूरदेशे “नहि “अस्ति न वर्तते खलु । यद्वा । "यत्र गृहे गच्छथः तच्च गृहं दूरे न भवति ॥ नहि। ' एवमादीनामन्तः' इत्यन्तोदात्तः । अस्ति । ‘चादिलोपे विभाषा' इति निघाताभावः । अत्र हि गृहं दूरे च नास्ति युवां च रथेन गच्छथः इति समुच्चयश्चार्थो गम्यते, चशब्दो न प्रयुज्यते इति चलोपे प्रथमा तिङ्विभक्तिरस्तीति । यत्र । 'निपातस्य च ' इति संहितायां दीर्घत्वम् । गच्छथः । इयं यद्यपि न प्रथमा तथापि यत्र इति यद्वृत्तयोगात् न निघातः ॥
 
 
व्यूढस्य द्वितीये छन्दोमे वैश्वदेवशस्त्रे ‘हिरण्यपाणिमूतये' इति सावित्र्यश्चतस्रः । ‘द्वितीयस्य' इति खण्डे सूत्रितं - ’हिरण्यपाणिमूतय इति चतस्रो मही द्यौः पृथिवी च नः ' ( आश्व. श्रौ. ८. १०) इति ॥
 
हिर॑ण्यपाणिमू॒तये॑ सवि॒तार॒मुप॑ ह्वये ।
Line ११८ ⟶ १३०:
 
सः । चेत्ता । देवता । पदम् ॥
 
“ऊतये अस्मद्रक्षणार्थं “सवितारं देवम् "उप "हृये आह्वयामि। “सः च सविता देवः एतन्मन्त्रप्रतिपाद्यदेवता भूत्वा “पदं यजमानेन प्राप्यं स्थानं “चेत्ता ज्ञापयिता भवति । कीदृशं सवितारम् । “हिरण्यपाणिं यजमानाय दातुं हस्ते सुवर्णधारिणम् । यद्वा । देवकर्तृके यागे सविता स्वयमृत्विग्भूत्वा ब्रह्मत्वेन अवस्थितः । तदानीं कस्यांचिदिष्टौ अध्वर्यवः तस्मै सवित्रे ब्रह्मणे प्राशित्रनामकं पुरोडाशभागं दत्तवन्तः । तच्च प्राशित्रं हस्ते सवित्रा गृहीतं सत् तदीयपाणिं चिच्छेद । ततः प्राशित्रस्य दातारोऽध्वर्यवः सुवर्णमयं पाणिं निर्माय प्रक्षिप्तवन्तः । सोऽयमर्थः कौषीतकिब्राह्मणे समाम्नातः- सवित्रे प्राशित्रं प्रतिजह्रुस्तत्तस्य पाणी प्रचिच्छेद तस्मै हिरण्मयौ प्रतिदधुस्तस्माद्धिरण्यपाणिरिति स्तुतः ' इति । हिरण्यशब्दं पाणिशब्दं च यास्क एवं निर्वक्ति - ’हिरण्यं कस्माद्ध्रियत आयम्यमानमिति वा ह्रियते जनाज्जनमिति वा हितरमणं भवतीति वा हृदयरमणं भवतीति वा हर्यतेर्वा स्थात्प्रेप्साकर्मणः' (निरु. २. १०) इति । तथा ' पाणिः पणायतेः पूजाकर्मणः ' ( नि. २. २६ ) इति ॥ हिरण्यशब्दो नञ्विषयत्वादाद्युदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । ऊतये । 'उदात्तः ' इत्यनुवृत्तौ उतियूतिजूतिसाति' इत्यादिना क्तिनन्तः अन्तोदात्तो निपातितः । सवितारम् । तृचश्चित्त्वादन्तोदात्तत्वम् । चेत्ता। ‘चिती संज्ञाने'। अस्मादन्तर्भावितण्यर्थात्ताच्छील्ये तृन् । ' अनित्यमागमशासनम् ' इति इडभावः । नित्त्वादाद्युदात्तः । देवता । देवात्तल्' (पा. सू. ५. ४.२७ ) इति स्वार्थे तल् । ‘लिति' इति प्रत्ययात्पूर्वमुदात्तत्वम् । पदशब्दः पचाद्यजन्तः । ‘चितः ' इत्यन्तोदात्तः ॥ ॥ ४ ॥
 
 
Line १३१ ⟶ १४५:
 
तस्य । व्रतानि । उश्मसि ॥
 
अत्र होता सामगमृत्विजम् अन्यं वा शस्त्रिणं ब्रूते । “अवसे अस्मान् रक्षतुं “सवितारम् “उप “स्तुहि । “तस्य सवितुः संबन्धीनि “व्रतानि कर्माणि सोमयागादिरूपाणि "उश्मसि कामयामहे । कीदृशं सवितारम् । “अपां “नपातं जलस्य न पालकम् । संतापेन शोषकमित्यर्थः ॥ अपाम् । ‘उडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् । नपातम् ।' पा रक्षणे ' । अस्य शत्रन्तः पाच्छब्दः । तस्य नञा समासे ‘नभ्राण्नपात्' इत्यादिना नलोपप्रतिषेध इति वृत्तिकारः । अग्निर्ह्यपो न पाति तच्छोषकत्वात् । तर्हि कथम् अपाम् इति षष्ठी ‘न लोकाव्ययनिष्ठाखलर्थ' (पा. सू. २. ३. ६९ ) इति कर्मणि षष्ठ्याः प्रतिषेधात् इति चेत्, तर्ह्येषा शेषलक्षणास्तु। अग्न्यादित्यौ अपां कारणतया संबन्धिनौ ‘अग्नेरापः' (तै. आ. ८.२ ) इति श्रुतेः । ‘आदित्याज्जायते वृष्टिः' (मनु. ३.७६) इति स्मृतेश्च । अस्मिन्पक्षे ‘उगिदचाम्' इति नुमभावोऽपि निपातनादेवेति मन्तव्यम् । पातेः क्विबन्तस्य तुग्वा निपातनात् द्रष्टव्यः । अथवा न पातयति इति नपात् । पत्लृ गतौ ' इति धातोर्यन्तात्क्विप् । अग्न्यादित्यौ ह्यपां न प्रापकौ प्रत्युत तच्छोषकौ । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अवसे । ‘तुमर्थे सेसेन्' इत्यादिना असेन् । नित्त्वादाद्युदात्तः । उश्मसि ।' वश कान्तौ' ।' अदिप्रभृतिभ्यः° ' इति शपो लुक् । 'इदन्तो मसि' इति इकारोपजनः ॥
 
 
Line १४४ ⟶ १६०:
 
सवितारम् । नृऽचक्षसम् ॥
 
“वसोः निवासहेतोः "चित्रस्य सुवर्णरजतादिरूपेण बहुविधस्य “राधसः धनस्य “विभक्तारम् अस्य यजमानस्य एतावद्धनदानम् उचितमिति विभागकारिणं “नृचक्षसं मनुष्याणां प्रकाशकारिणं “सवितारं “हवामहे । कौषीतकिन एतस्या ऋचो व्याख्यानरूपे ब्राह्मणे सवितुर्विभागहेतुत्वम् एव समामनन्ति- ' यदेतद्वसोश्चित्रं राधस्तदेष सविता विभक्ताभ्यः प्रजाभ्यो विभजति' इति ॥ विभक्तारम् । तृचश्चित्त्वादन्तोदात्तत्वम्। कृदुत्तरपदप्रकृतिस्वरत्वेन तदेव शिष्यते । हवामहे । ह्वयतेः ‘बहुलं छन्दसि’ इति संप्रसारणम् । वसोः । वस निवासे '।' शॄस्वृस्निहि ' ( उ. सू. १. १० ) इत्यादिना उः । ‘नित्' इत्यनुवृत्तेः नित्त्वादाद्युदात्तः । राधसः । असुनन्तः नित्त्वादाद्युदात्तः । नृचक्षसम् । नॄन् चष्टे इति नृचक्षाः तं नृचक्षसम् । ‘चक्षेर्बहुलं शिच्च' ( उ. सू. ४. ६७२) इति असुन्। शित्त्वात् अनार्धधातुकत्वेन ख्याञादेशाभावः । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
 
 
Line १५८ ⟶ १७६:
दाता । राधांसि । शुम्भति ॥
 
सखिभूता हे ऋत्विजः “आ “नि “षीदत सर्वत्रोपविशत । "नः अस्माकम् अयं “सविता "नु क्षिप्रं “स्तोम्यः स्तुतियोग्यः “राधांसि धनानि "दाता प्रदातुमुद्युक्तः एष सविता “शुम्भति शोभते ॥ समानाः सन्तः ख्यान्ति प्रकाशन्ते इति सखायः। ‘ख्या प्रकथने '। 'समाने ख्यश्चोदात्तः ' ( उ.सू. ४. ५७६ ) इति इण्प्रत्ययः; तत्संनियोगेन डित्त्वं यलोपश्च । डित्त्वात् आकारलोपः । ‘समानस्यू च्छन्दसि ' (पा. सू. ६. ३. ८४ ) इत्यादिना समानशब्दस्य सादेशः । इण्संनियोगेनोदात्तत्वम् । जसि ‘सख्युरसंबुद्धौ ' ( पा. सू. ७. १. ९२ ) इति णित्त्वात् वृद्धिः आयादेशश्च । नि षीदत । ‘सदिरप्रतेः ' ( पा. सू. ८. ३. ६६ ) इति षत्वम् । स्तोमेषु प्रतिपाद्यत्वेन भवः स्तोम्यः । ‘भवे छन्दसि ' ( पा. सू. ४. ४. ११०) इति यत् । यतोऽनावः ' ( पा. सू. ६. १. २१३ ) इत्याद्युदात्तत्वम् दाता दानशीलः । ताच्छील्ये तृन् । नित्त्वादाद्युदात्तः । राधांसि । गतम् । ‘कर्तृकर्मणोः कृति ' ( पा. सू. २. ३. ६५) इति प्राप्तायाः षष्ठ्याः ‘न लोकव्यय° ' ( पा. सू. २. ३. ६९ ) इति प्रतिषेधः ॥
 
 
अग्निष्टोमे प्रातःसवने ‘अग्ने पत्नीरिहा वह ' इति नेष्टुः प्रस्थितयाज्या । ‘प्रशास्ता ब्राह्मणाच्छंसी ' इति खण्डे सूत्रितम् - ‘अग्ने पत्नीरिहा वहोक्षान्नाय वशान्नाय' ( आश्व. श्रौ. ५. ५) इति ॥
 
अग्ने॒ पत्नी॑रि॒हा व॑ह दे॒वाना॑मुश॒तीरुप॑ ।
Line १७० ⟶ १९२:
 
त्वष्टारम् । सोमऽपीतये ॥
 
हे अग्ने "उशतीः कामयमानाः "देवानां "पत्नीः इन्द्राण्याद्याः इह देवयजनदेशे “आ “वह । तथा “त्वष्टारं देवं "सोमपीतये सोमपानार्थम् "उप समीपे आ वह ॥ पत्नीः । डत्यन्तः पतिशब्द आद्युदात्तः । ‘पत्युर्नो यज्ञसंयोगे' ( पा. सू. ४. १. ३३ ) इति ङीप् ; तत्संनियोगेन नकारश्च । डीपः पित्त्वात् डतिस्वर एव । उशतीः । ‘वश कान्तौ । लटः शतृ । ‘अदिप्रभृतिभ्यः शपः' इति शपो लुक् । शतुर्ङित्वात् ग्रहिज्यादिना संप्रसारणम् । उगितश्च ' इति ङीप् । ‘शतुरनुमः० ' इति ङीप् उदात्तः ॥
 
 
Line १८३ ⟶ २०७:
 
वरूत्रीम् । धिषणाम् । वह ॥
 
हे "अग्ने "अवसे अस्मानवितुं "ग्नाः देवपत्नीः "इह “आ “वह । तथा हे "यविष्ठ युवतमाग्ने “होत्रां होमनिष्पादकाग्निपत्नीं “भारतीं भरतनामकस्य आदित्यस्य पत्नीं “वरूत्रीं वरणीयां "धिषणां वाग्देवीं च आ वह। ‘वाग्वै धिषणा' इति वाजसनेयकम् । “भरत आदित्यः (निरु. ८. १३ ) इति यास्केन उक्तत्वात् तस्य पत्नी भारती इत्युच्यते ॥ गम्यन्त इति ग्नाः । ‘गम्लृ सृप्लृ गतौ'। औणादिको ड्नप्रत्ययः । डित्त्वात् टिलोपः । प्रत्ययस्वरः । होत्राम् । “हुयामाश्रुभसिभ्यस्त्रन् ' ( उ. सू. ४. ६०७ ) इति त्रनन्तो नित्त्वादाद्युदात्तः । अतिशयेन युवा यविष्ठः । ‘अतिशायने तमबिष्ठनौ ' ( पा. सू. ५. ३. ५५ )। ' स्थूलदूर ' ( पा. सू.. ६. ४. १५६ ) इत्यादिना यणादिपरस्य लोपः पूर्वस्य च गुणः। भारतीम् । शार्ङ्गरवादेः अवृत्कृतत्वात् ङीनन्तो नित्त्वादाद्युदात्तः । वरूत्रीम् । ‘ग्रसितस्कभित° ' (पा. सू. ७. २. ३४) इत्यादौ यद्यपि वरूतृशब्दः तृजन्त इत्युक्तं तथापि अन्ते इतिकरणस्य प्रदर्शनार्थत्वात् वरूतृशब्दः तृनन्तोऽपि द्रष्टव्यः । तेन नित्त्वादाद्युदात्तत्वम् । शेषनिघातेन ऋकारस्य अनुदात्तत्वात् “ उदात्तयणो हल्पूर्वात्' इत्यपि न ङीप उदात्तत्वम्। धिषणाम् । क्युप्रत्ययानुवृत्तौ • धृषेर्धिष च संज्ञायाम् ' ( उ. सू. २. २४० ) इति क्युः ॥ ॥ ५ ॥
 
 
Line १९६ ⟶ २२२:
 
अच्छिन्नऽपत्राः । सचन्ताम् ॥
 
“देवीः देव्यः देवपत्न्यः "अवसा रक्षणेन "महः महता "शर्मणा च सुखेन च सह "नः अस्मान् “अभि "सचन्ताम् आभिमुख्येन सेवन्ताम् । कीदृश्यो देव्यः । "नृपत्नीः मनुष्याणां पालयित्र्यः “अच्छिन्नपत्राः अच्छिन्नपक्षाः । न हि पक्षिरूपाणां देवपत्नीनां पक्षाः केनचित् छिद्यन्ते ॥ देवीः । ‘पुंयोगादाख्यायाम् ' ( पा. सू. ४. १. ४८ ) इति ङीषन्तः प्रत्ययस्वरेणान्तोदात्तः । ‘दीर्घाञ्जसि च ' ( पा. सू. ६. १. १०५) इति प्रतिषेधस्य वा छन्दसि ' ( पा. सू. ६. १. १०६ ) इति पाक्षिकस्योक्तेः पूर्वसवर्णदीर्घत्वम् । अवसा । अव रक्षणे ' । असुन् । नित्वादाद्युदात्तः । महः । ‘मह पूजायाम् ' । क्विप् । ‘सुपां सुपो भवन्ति ' ( पा. म. ७. १. ३९ ) इति तृतीयैकवचनस्य ङसादेशः । ‘सावेकाचः° ' इति विभक्तेरुदात्तत्वम् । नृपत्नीः । समासान्तोदात्तत्वे प्राप्ते ‘परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् । अच्छिन्नपत्राः । न च्छिन्नानि अच्छिन्नानि ।। अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अच्छिन्नानि पत्राणि यासां ताः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥
 
 
Line २०९ ⟶ २३७:
 
अग्नायीम् । सोमऽपीतये ॥
 
इह अस्मिन्कर्मणि "स्वस्तये अस्माकमविनाशाय "सोमपीतये सोमपानाय च इन्द्रवरुणाग्नीनां पत्नीः आह्वयामि ॥ इन्द्राणीम् । वरुणानीम् । इन्द्रवरुण ' ( पा. सू. ४. १. ४९ ) इत्यादिना पुंयोगे ङीष्प्रत्ययः आनुगागमश्च । प्रत्ययस्वरः । अग्नायीम् । ‘वृषाकप्यग्निकुसितकुसिदानामुदात्तः ' ( पा. सू. ४. १. ३७ ) इति ङीप्; तत्संनियोगेन इकारस्य ऐकार उदात्तः । सोमपीतये । असकृत् । पूर्वोक्तम् ।।
द्वितीये छन्दोमे वैश्वदेवशस्त्रे ‘मही द्यौः पृथिवी च नः' इति द्यावापृथिव्यनिविद्धानीयस्तृचः । ‘द्वितीयस्याग्निं वः' इति खण्डे सूत्रितं - ‘मही द्यौः पृथिवी च नो युवाना पितरा पुनः' (आश्व. श्रौ. ८. १०) इति । आग्रयणेष्टौ ‘मही द्यौः' इत्येषा द्यावापृथिव्यैककपालस्य अनुवाक्या।' आग्रयणं व्रीहिश्यामाक० ' इति खण्डे सूत्रितं- ये के च ज्मा महिनो अहिमाया मही द्यौः पृथिवी च नः । ( आश्व. श्रौ. २. ९) इति । अग्निमन्थनेऽप्येषा विनियुक्ता।' प्रातर्वैश्वदेव्याम् ' इति खण्डे सूत्रितम् - ’अभि त्वा देव सवितर्मही द्यौः पृथिवी च नः ' (आश्व. श्रौ. २. १६) इति । विष्यन्दमानं सांनाय्यमनयैव आहवनीयदेशे निनयेत् । ‘विध्यपराधे' इति खण्डे तथैव सूत्रितं– विष्यन्दमानं मही द्यौः पृथिवी च न इत्यन्तःपरिधिदेशे निनयेयुः ' (आश्व. श्रौ. ३. १० ) इति । आश्विनशस्त्रेऽप्येषा ‘संस्थितेष्वाश्विनाय ' इति खण्डे सूत्रितं -’मही द्यौः पृथिवी च नस्ते हि द्यावापृथिवी विश्वशंभुवा ' ( आश्व, श्रौ. ६. ५) इति ॥
 
 
Line २२२ ⟶ २५३:
 
पिपृताम् । नः । भरीमऽभिः ॥
 
"मही महती "द्यौः द्युलोकदेवता "पृथिवी भूमिदेवता "च "नः अस्मदीयम् "इमं "यज्ञं "मिमिक्षतां स्वकीयसारभूतेन रसेन मिमिक्षतां सेक्तुमिच्छताम् । तथा “भरीमभिः भरणैः पोषणैः "नः अस्मान् “पिपृताम् उभे देव्यौ पूरयताम् ॥ मही । महच्छब्दात् ‘ उगितश्च ' ( पा. सू. ४. १. ६) इति ङीप् । अच्छब्दलीपश्छान्दसः। ‘बृहन्महतोरुपसंख्यानम्' (पा. सू. ६. १. १७३. १ ) इति ङीप उदात्तत्वम् । द्यौः । दिव्शब्दः प्रातिपदिकस्वरेणान्तोदात्तः । ‘गोतो णित् ' ( पा. सू. ७. १. ९०) इति ततः परस्य सोः णिद्वद्भावात् भवन्ती वृद्धिरपि स्थानिवद्भावेनोदात्ता । पृथिवी। ‘प्रथ प्रख्याने '। प्रथेः षिवन्संप्रसारणं च ' ( उ. सू. १. १४८ ) इति षिवन्प्रत्ययः । ‘षिद्गौरादिभ्यश्च ' ( पा. सू. ४. १. ४१ ) इति ङीष् । प्रत्ययस्वरः । मिमिक्षताम् । मिह सेचने'। सनि द्विर्भावहलादिशेषौ । ढत्वकत्वषत्वानि । पिपृताम् । पॄ पालनपूरणयोः ' । ह्रस्व इत्येके । शपः श्लुः । ‘अर्तिपिपर्त्योश्च' (पा. सू. ७. ४. ७७ ) इति अभ्यासस्य अकारस्य इकारः । तिङः प्रत्ययस्वरः । भरीमभिः । ‘डुभृञ् धारणपोषणयोः । ‘हुस्तॄभृधृस्वृसृभ्य ईमन् ' ( दश. पा. ६) इति ईमन् । नित्त्वादाद्युदात्तः ॥
 
 
Line २३६ ⟶ २६९:
गन्धर्वस्य । ध्रुवे । पदे ॥
 
गन्धर्वस्य ध्रुवं पदम् अन्तरिक्षम् । तथा च तापनीयशाखायां समाम्नायते- यक्षगन्धर्वाप्सरोगणसेवितमन्तरिक्षम् ' (नृ. ता. १. २) इति । तेनान्तरिक्षेण उपलक्षिते आकाशे वर्तमानयोः “तयोरित् द्यावापृथिव्योरेव संबन्धि "पयः जलं “घृतवत् घृतसदृशं "विप्राः मेधाविनः प्राणिनः “धीतिभिः कर्मभिः "रिहन्ति लिहन्ति । यद्वा । घृतवत् घृतं सारं तेनोपेतं रिहन्ति ॥ लिहेर्व्यत्ययेन रेफः । गन्धर्वस्य । ‘धृञ् धारणे'।' गवि गन् धृञो वः' इति वप्रत्ययः; तत्संनियोगेन गोशब्दस्य च गन्नादेशः ॥
 
 
‘स्योना पृथिवि ' इत्येषा महानाम्नीव्रते भूमिस्पर्शने विनियुक्ता । एतद्विदं ब्रह्मचारिणम्' इति खण्डे सूत्रितं- स्योना पृथिवि भवेति समाप्य ' ( आश्व. श्रौ. ८. १४ ) इति । स्मार्ते हेमन्तप्रत्यवरोहणेऽपि एषा जप्या । ‘मार्गशीर्ष्यां प्रत्यवरोहणम्' इति खण्डे सूत्रितं - तस्मिन्नुपविश्य स्योना पृथिवि भवेति जपित्वा' (आश्व. गृ. २. ३. ६) इति ॥
 
स्यो॒ना पृ॑थिवि भवानृक्ष॒रा नि॒वेश॑नी ।
Line २४९ ⟶ २८६:
यच्छ । नः । शर्म । सऽप्रथः ॥
 
हे पृथिवि स्योनत्वादिगुणयुक्ता "भव । स्योनशब्दो विस्तीर्णवाची । तथा च वाजसनेयब्राह्मणे स्योनशब्दोपेतं कंचिन्मन्त्रमुदाहृत्य व्याख्यातम् -‘इन्द्रस्योरुमाविश स्योनः स्योनमिति विस्तीर्णो विस्तीर्णमित्येव तदाह' इति। यद्वा । स्योनशब्दः सुखवाची (नि. ३.६. १५)। तथा च यास्कवाक्यमुदाहरिष्यते । "अनृक्षरा कण्टकरहिता "निवेशनी निवेशस्थानभूता "सप्रथः विस्तारयुक्तं "शर्म शरणं "नः अस्मभ्यं "यच्छ हे पृथिवि देहि । तामेतामृचमुदाहृत्य यास्क एवं व्याचष्टे- ‘सुखा नः पृथिवि भवानृक्षरा निवेशन्यृक्षरः कण्टक ऋच्छतेः कण्टकः कन्तपो वा कृन्ततेर्वा कण्टतेर्वा स्याद्गतिकर्मण उद्गततमो भवति यच्छ नः शर्म शरणं सर्वतः पृथु ' ( निरु. ९. ३२ ) इति ॥ स्योना । ‘षिवु तन्तुसन्ताने '। • सिवेष्टेर्यो च ' ( उ. सू. ३. ३८९ ) इति नप्रत्ययः । टेश्च यो इत्यादेशः । प्रत्ययस्वरः । स्योना पृथिवि इत्यनयोः भव इत्याख्यातेनैवान्वयो न परस्परम् । अतः असामर्थ्येनैव पराङ्गवद्भावाभावात् ओकारस्य न आमन्त्रिताद्युदात्तत्वम् । अनृक्षरा । ' ऋषी गतौ । गच्छति अन्तः इति ऋक्षरः कण्टकः । ‘तन्यृषिभ्यां क्सरन् ' ( उ. सू. ३. ३५५)। ‘षढोः कः सि' (पा. सू. ८. २, ४१ ) इति कत्वम् । ‘आदेशप्रत्यययोः' इति षत्वम् । नञा बहुव्रीहिः । ‘तस्मान्नुडचि' (पा. सू. ६. ३. ७४ ) इति नुडागमः । ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । निविशन्ति अस्याम् इति निवेशनी । “करणाधिकरणयोश्च' (पा. सू. ३. ३. ११७ ) इति ल्युट् । ‘लिति ' इति प्रत्ययात्पूर्वस्योदात्तत्वम् । यच्छ ।' दाण् दाने '।' पाघ्रा' (पा. सू. ७. ३. ७८ ) इत्यादिना यच्छादेशः । द्व्यचोऽतस्तिङः' इति दीर्घः । सप्रथः । ‘प्रथ प्रख्याने '। असुन्। प्रथसा सह वर्तते इति ‘तेन सहेति तुल्ययोगे' (पा. सू. २. २. २८) इति समासः। वोपसर्जनस्य ' ( पा. सू. ६. ३. ८२) इति सभावः । कृत्स्वरः ॥ ॥ ६ ॥
 
 
प्रातःसवने सोमातिरेके एकं शस्त्रं शंसनीयम् । अत्र ‘ अतो देवाः' इत्याद्याः षडृचः । ‘सोमातिरेके ' इति खण्डे सूत्रितं - ’महाँ इन्द्रो य ओजसातो देवा अवन्तु न इत्यैन्द्रीभिर्वैष्णवीभिश्च ' ( आश्व. श्रौ. ६. ७ ) इति । अप्तोर्यामे अच्छावाकातिरिक्तोक्थेऽपि एताः षडृचः स्तोत्रियानुरूपार्थाः । तथा च यस्य पशवः' इति खण्डे सूत्रितम्- ' अतो देवा अवन्तु न इति स्तोत्रियानुरूपौ' ( आश्व. श्रौ. ९. ११) इति । दर्शपूर्णमासयोः प्रायश्चित्तहोमेऽपि आद्ये विनियुक्ते । तथैव वेदं पत्न्यै ' इति खण्डे सूत्रितम्-’अतो देवा अवन्तु न इति द्वाभ्यां व्याहृतिभिश्च' (आश्व. श्रौ. १. ११ ) इति । याज्यानुवाक्ययोर्मध्ये लौकिकभाषणे ‘अतो देवाः' इत्येषा जप्या। सूत्रितं हि - ’आपद्यातो देवा अवन्तु न इति जपेत् ' ( आश्व. श्रौ. १. ५) इति ॥
 
अतो॑ दे॒वा अ॑वन्तु नो॒ यतो॒ विष्णु॑र्विचक्र॒मे ।
Line २६२ ⟶ ३०३:
पृथिव्याः । सप्त । धामऽभिः ॥
 
“विष्णुः परमेश्वरः “सप्त “धामभिः सप्तभिर्गायत्र्यादिभिश्छन्दोभिः साधनभूतैः “यतः “पृथिव्याः यस्माद्भूप्रदेशात् "विचक्रमे विविधं पदक्रमणं कृतवान् , “अतः अस्मात् पृथिवीप्रदेशात् “नः अस्मान् “देवाः “अवन्तु । विष्णोः पृथिव्यादिलोकेषु च्छन्दोभिः साधनैर्जयं तैत्तिरिया आमनन्ति– विष्णुमुखा वै देवाश्छन्दोभिरिमाँल्लोकाननपजय्यमभ्यजयन् ' ( तै. सं. ५. २. १. १ ) इति । विष्णोस्त्रिविक्रमावतारे पादत्रयक्रमणस्य पृथिव्यपादानम् । पृथिवीप्रदेशाद्रक्षणं नाम भूलोके वर्तमानानां पापनिवारणम् ॥ अतः । एतच्छब्दात् ‘पञ्चम्यास्तसिल् ' ( पा. सू. ५. ३. ७ ) इति तसिल् । ‘एतदोऽश् ' ( पा. सू. ५. ३. ५) इति अशादेशः । लित्स्वरेण अकार उदात्तः । यतः । तसिलः ‘प्राग्दिशो विभक्तिः ' (पा. सू. ५. ३. १ ) इति विभक्तिसंज्ञायां त्यदाद्यत्वम् । लित्स्वरः । विष्णुः । विषेः किच्च (उ. सू. ३. ३१९) इति नुप्रत्ययः। कित्त्वात् न गुणः। नित्' इत्यनुवृत्तेः आद्युदात्तत्वम्। विचक्रमे । ‘सुप् ' इति योगविभागात् विशब्दस्य समासः । समासान्तोदात्तत्वम् । यद्वृत्तयोगात् न निघातः । सप्त । ‘सुपां सुलुक्' इति भिसो लुक् । धामभिः । दधातेः ‘आतो मनिन्' (पा. सू. ३. २. ७४ ) इति मनिन् । नित्स्वरः ॥
 
 
वैष्णवोपांशुयाजस्य ' इदं विष्णुः' इत्येषा अनुवाक्या।' उक्ता देवताः' इति खण्डे सूत्रितम् - ’इदं विष्णुर्वि चक्रमे त्रिदेवः पृथिवीमेष एताम्' (आश्व. श्रौ. १. ६) इति । गार्हपत्याहवनीययोर्मध्ये श्वातिक्रमणे अनयैव श्वपदेषु भस्म प्रक्षिपेत् । ‘विध्यपराधे' इति खण्डे सूत्रितं -’भस्मना शुनः पदं प्रतिवपेदिदं विष्णुर्वि चक्रमे ' ( आश्व. श्रौ. ३. १०) इति । आतिथ्यायां प्रधानस्य हविषः एषैवानुवाक्या। ‘अथातिथ्येळान्ता' इति खण्डे सूत्रितम्-- इदं विष्णुर्वि चक्रमे तदस्य प्रियमभिपाथो अश्याम् ' ( आश्व. श्रौ. ४. ५ ) इति । उपसत्सु वैष्णवस्य एषैवानुवाक्या । अथोपसत्' इति खण्डे सूत्रितं--’गयस्फानो अमीवहेदं विष्णुर्वि चक्रमे ' ( आश्व. श्रौ. ४. ८) इति ॥
 
इ॒दं विष्णु॒र्वि च॑क्रमे त्रे॒धा नि द॑धे प॒दम् ।
Line २७५ ⟶ ३२०:
सम्ऽऊळ्हम् । अस्य । पांसुरे ॥
 
"विष्णुः त्रिविक्रमावतारधारी “इदं प्रतीयमानं सर्वं जगदुद्दिश्य "वि “चक्रमे विशेषेण क्रमणं कृतवान् । तदा “त्रेधा त्रिभिः प्रकारैः “पदं “नि “दधे स्वकीयं पादं प्रक्षिप्तवान् । “अस्य विष्णोः “पांसुरे धूलियुक्ते पादस्थाने “समूळ्हम् इदं सर्वं जगत् सम्यगन्तर्भूतम्। सेयमृक् यास्केनैवं व्याख्याता - ’विष्णुर्विशतेर्वा व्यश्नोतेर्वा यदिदं किंच तद्विक्रमते विष्णुस्त्रिधा निधत्ते पदं त्रेधाभावाय पृथिव्यामन्तरिक्षे दिवीति शाकपूणिः समारोहणे विष्णुपदे गयशिरसीत्यौर्णवाभः समूळ्हमस्य पांसुरे प्यायनेऽन्तरिक्षे पदं न दृश्यतेऽपि वोपमार्थे स्यात् पांसुर इव पदं न दृश्यत इति पांसवः पादैः सूयन्त इति वा पन्नाः शेरत इति वा पंसनीया भवन्तीति वा' (निरु. १२. १८-१९) इति ॥ त्रेधा। ‘एधाच्च' (पा. सू. ५. ३. ४६ ) इति एधाच्प्रत्ययः । चितोऽन्तोदात्तः । समूळ्हम् । ‘वह प्रापणे '। निष्ठा ' इति क्तः। ‘वचिस्वपि ' ( पा. सू. ६. १. १५ ) इत्यादिना संप्रसारणम् । ढत्वधत्वष्टुत्वढलोपदीर्घत्वानि । ‘गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । अस्य । इदमोऽन्वादेशे ' इति अश् अनुदात्तः, प्रत्ययश्च सुप्स्वरेण । पांसुरे । 'नगपांसुपाण्डुभ्यश्चेति वक्तव्यम् ' ( का. ५. २. १०७. २ ) इति मत्वर्थीयो रः । प्रत्ययस्वरः ।
 
 
उपसदि वैष्णवयागस्य प्रातःकाले याज्या सायंकालेऽनुवाक्या ‘त्रीणि पदा' इत्येषा । सूत्रितं च – ' त्रीणि पदा वि चक्रम इति स्विष्टकृदादि लुप्यते ' ( आश्व. श्रौ. ४. ८) इति ॥
 
त्रीणि॑ प॒दा वि च॑क्रमे॒ विष्णु॑र्गो॒पा अदा॑भ्यः ।
Line २८७ ⟶ ३३६:
 
अतः । धर्माणि । धारयन् ॥
 
“अदाभ्यः केनापि हिंसितुमशक्यः “गोपाः सर्वस्य जगतः रक्षकः “विष्णुः पृथिव्यादिस्थानेषु “अतः एतेषु “त्रीणि पदानि “वि “चक्रमे । किं कुर्वन् । “धर्माणि अग्निहोत्रादीनि “धारयन् पोषयन् ॥ पदा । सुपां सुलुक्' इत्यादिना विभक्तेः डादेशः । तस्य स्थानिवद्भावेन अनुदात्तत्वे प्राप्ते उदात्तनिवृत्तिस्वरेणोदात्तत्वम् । गोपाः । गोपामृतस्य' (ऋ. सं. १. १. ८) इत्यत्रोक्तम् । अदाभ्यः । दभेः “ ऋहलोर्ण्यत् ' (पा. सू. ३. १. १२४) इति ण्यत् । नञ्समासः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । धारयन्। शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण णिच एव स्वरः शिष्यते ॥
 
 
Line ३०० ⟶ ३५१:
 
इन्द्रस्य । युज्यः । सखा ॥
 
हे ऋत्विगादयः “विष्णोः “कर्माणि पालनादीनि “पश्यत । “यतः यैः कर्मभिः “व्रतानि अग्निहोत्रादीनि “पस्पशे सर्वो यजमानः स्पृष्टवान् विष्णोरनुग्रहात् अनुतिष्ठति इत्यर्थः । तादृशो विष्णुः “इन्द्रस्य “युज्यः योज्यः अनुकूलः “सखा भवति । विष्णोः इन्द्रानुकूल्यं त्वष्टा हतपुत्रः' इत्यनुवाके ‘अथ वै तर्हि विष्णुः ' ( तै. सं. २. ४. १२. २ ) इत्यादिना प्रपञ्चेन तैत्तिरीया आमनन्ति ॥ पस्पशे । ' स्पश बाधनस्पर्शनयोः । लिट् । द्विर्भावे ‘शर्पूर्वाः खयः' ( पा. सू. ७. ४. ६१ ) इति पकारः शिष्यते सकारो लुप्यते । यद्वृत्तयोगादनिघातः । युज्यः । युजेः बाहुलकात् क्यप् । कित्त्वाद्गुणाभावः । क्यपः पित्त्वादनुदात्तत्वम् । धातुस्वरः ॥
 
 
Line ३१३ ⟶ ३६६:
 
दिविऽइव । चक्षुः । आऽततम् ॥
 
"सूरयः विद्वांस ऋत्विगादयः “विष्णोः संबन्धि “परमम् उत्कृष्टं “तत् शास्त्रप्रसिद्धं “पदं स्वर्गस्थानं शास्त्रदृष्ट्या सर्वदा “पश्यन्ति । तत्र दृष्टान्तः । “दिवीव । आकाशे यथा “आततं सर्वतः प्रसृतं “चक्षुः निरोधाभावेन विशदं पश्यति तद्वत् ॥ सदा । ‘सर्वैकान्य ' ( पा. सू. ५. ३. १५) इति दाप्रत्ययः । सर्वस्य सोऽन्यतरस्यां दि ' ( पा. सू. ५. ३. ६ ) इति सर्वशब्दस्य सभावः । व्यत्ययेनाद्युदात्तत्वम् । दिवि । ' उडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् । ‘इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च ' इति तदेव शिष्यते । चक्षुः । ‘नब्विषयस्य° ' इत्याद्युदात्तत्वम् । आततम् । तनोतेः कर्मणि क्तः ।' यस्य विभाषा ' इति इट्प्रतिषेधः । अनुदात्तोपदेश' इत्यादिना नलोपः । कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्ते ‘ गतिरनन्तरः' इति गतेरुदात्तत्वम् ॥
 
 
Line ३२७ ⟶ ३८२:
विष्णोः । यत् । परमम् । पदम् ॥
 
पूर्वोक्तं “विष्णोः “यत् “परमं “पदम् अस्ति “तत् पदं “विप्रासः मेधाविनः “समिन्धते सम्यक् दीपयन्ति। कीदृशाः। “विपन्यवः विशेषेण स्तोतारः "जागृवांसः शब्दार्थयोः प्रमादराहित्येन जागरूकाः।। विप्रासः । ‘आज्जसेरसुक्'। विपन्यवः । स्तुत्यर्थस्य पनेः बाहुलक औणादिको युप्रत्ययः । तत्र प्रत्ययस्वरः । जागृवांसः ।' जागृ निद्राक्षये '। लिटः क्वसुः । क्रादिनियमाप्राप्तस्य इटः ‘वस्वेकाजाद्धसाम् ' ( पा. सू. ७. २. ६७ ) इति नियमात् निवृत्तिः ॥ ॥ ७ ॥
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२२" इत्यस्माद् प्रतिप्राप्तम्