"ऋग्वेदः सूक्तं १.१६३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४०:
== ==
{{सायणभाष्यम्|
‘यदक्रन्दः' इति त्रयोदशर्चं सप्तमं सूक्तं दैर्घतमसं त्रैष्टुभम् । अश्वस्य स्तूयमानत्वात्तद्देवत्यम् । ‘यदक्रन्दः सप्तोना' इत्यनुक्रमणिका । आश्वमेधिके मध्यमेऽहनि उपाकरणाय अवस्थितम् अश्वम् आद्याभिरेकादशभिः स्तौति । तथा च त्रीणि सुत्यानि' इति खण्डे सूत्रितं - तमवस्थितमुपाकरणाय यदक्रन्द इत्येकादशभिः स्तौत्यप्रणुवन्' (आश्व. श्रौ. १०. ८) इति ॥
 
 
यदक्र॑न्दः प्रथ॒मं जाय॑मान उ॒द्यन्स॑मु॒द्रादु॒त वा॒ पुरी॑षात् ।
 
Line ५१ ⟶ ५४:
 
श्येनस्य । पक्षा । हरिणस्य । बाहू इति । उपऽस्तुत्यम् । महि । जातम् । ते । अर्वन् ॥
 
हे "अर्वन् अरणकुशलाश्व "ते तव “जातं जन्म जननम् “उपस्तुत्यम् उपेत्य सर्वैः स्तोतव्यम् ॥ स्तौतेः ‘एतिस्तुशास्वृ°' इति क्यप् । ततः तुक् ।। कथं स्तुत्यत्वमिति उच्यते । “यत् यस्मात् “समुद्रात् । अन्तरिक्षनामैतत् । उदकसमुन्दनापादानात् यक्षगन्धर्वादिसंमोदनाधिकरणात् वा अन्तरिक्षात् "प्रथमं पूर्वं “जायमानः उत्पन्नः । यद्वा । समुद्रः आदित्यः समुन्दगात् वृष्ट्या । तस्माद्वा जायमानः । ‘सूरादश्वं वसवो निरतष्ट' (ऋ. सं. १. १६३. २) इति वक्ष्यमाणत्वात् । “उत “वा अथवा “पुरीषात् सर्वकामानां पूरकात् उदकात् प्रथमम् “उद्यन् जायमानः । स तादृशस्त्वं यत् यस्मात् "अक्रन्दः महाशब्दमकरोः यजमानमनुग्रहीतुम् । किंच ते "पक्षा पतनसाधनौ पक्षौ “श्येनस्य पक्षाविव । तौ यथा शीघ्रपतनसाधनौ तादृशावित्यर्थः । तव “बाहू "हरिणस्य बाहू इव । तौ यथा वेगवन्तौ तादृशावित्यर्थः । यस्मादेवं तस्मात्ते जन्म स्तुत्यमित्यर्थः ॥
 
 
Line ६५ ⟶ ७०:
गन्धर्वः । अस्य । रशनाम् । अगृभ्णात् । सूरात् । अश्वम् । वसवः । निः । अतष्ट ॥
 
“यमेन नियामकेनाग्निना "दत्तम् “एनम् अश्वं “त्रितः पृथिव्यादिषु त्रिषु स्थानेषु वर्तमानः स्तीर्णतमो वा वायुः "अयुनक् रथे योजितवान् । किंच “एनम् अश्वम् “इन्द्रः “प्रथमः प्रतमः प्रकृष्टतमः । प्रथम इति मुख्यनाम । अध्यतिष्ठत् अधिष्ठितवान् । “अस्य “गन्धर्वः सोमः। ‘सोमेन समया विपृक्तः ' ( ऋ. सं. १. १६३. ३) इति वक्ष्यमाणत्वात् । स च अस्य अश्वस्य “रशनां नियमनरज्जुम् “अगृभ्णात् अग्रहीत् । ईदृशोऽश्वः कुतः समुत्पन्नः इति चेत् उच्यते । हे “वसवः रश्मयः यूयं "सूरात् आदित्यात् “अश्वम् एवंमहानुभावं “निरतष्ट निःशेषेण साधु संपादितवन्तः । यद्वा ।। वसुशब्देनोक्ता एव यमादयः परामृश्यन्ते । हे वसवः स्वस्वव्यापारेण सर्वस्याच्छादयितारः यूयं सूरादादित्यात् अश्वम् एनं निरतष्ट अतक्षत । निरित्येष समित्येतस्य स्थाने । तक्षतिः करोतिकर्मा । स च क्रियासमान्यवचनः । अत्रौचित्यात् धारणे वर्तते । सम्यग्धारितवन्त इत्यर्थः ॥ तक्षेर्लङि छान्दसः शपो लुक्। ‘स्कोः संयोगाद्योः०' इति कलोपः ॥
 
 
Line ७९ ⟶ ८५:
असि । सोमेन । समया । विऽपृक्तः । आहुः । ते । त्रीणि । दिवि । बन्धनानि ॥
 
हे "अर्वन् त्वं “यमः असि नियमिता अग्निरसि । तेन दत्तत्वात् तच्छब्दव्यपदेशः । तथा “आदित्यः “असि । ‘सूरान्निरतष्ट' इत्युक्तत्वात् । तथा “गुह्येन “व्रतेन गोपनीयेन दुर्निरूपेण वा कर्मणा । सर्वत्र व्याप्तिरूपेणेत्यर्थः । तेन “त्रितः त्रिषु स्थानेषु तायमानो वायुः “असि । “त्रित एनमायुनक्' इत्युक्तत्वात्तद्रूपत्वम् । अथवा गुह्येन व्रतेन गोपनीयेन कर्मणा योगादिसाधनरूपेण त्रितः एतन्नामकः ऋषिरसि। किंच हे अश्व त्वं “सोमेन “समया सह विपृक्तः। वि इत्येष समित्येतस्मिन्नर्थे । संपृक्तः “असि तेन गृहीतत्वात्। हे अश्व एवंरूप “ते तव “दिवि द्युलोके आदित्ये वा वर्तमानस्य “त्रीणि “बन्धनानि उत्पत्तिकारणानि “आहुः पुराविदः । वसवः आदित्यो द्युस्थानं चेति त्रीणि ।।
 
 
Line ९३ ⟶ १००:
उतऽइव । मे । वरुणः । छन्त्सि । अर्वन् । यत्र । ते । आहुः । परमम् । जनित्रम् ॥
 
पूर्वं दिवि त्रीणि बन्धनानि इत्युक्तम् । इदानीं स्थानत्रयेष्वपि त्रीणि बन्धनानि इत्याह । हे अर्वन् "ते तव "दिवि “बन्धनानि "त्रीणि 'आहुः तानि पूर्वमुक्तानि । "अप्सु । अबुपजीवितत्वात् भूलोकोऽपि अपशब्देनाभिधीयते । पृथिव्यां “त्रीणि बन्धनान्याहुः । अन्नं स्थानं बीजमिति त्रीणि । तथा "समुद्रे "अन्तः समुद्रमध्ये । समुद्द्रवणादपादानात् समुद्रमन्तरिक्षम् । तस्मिन् “त्रीणि वृष्ट्युत्पत्तिनिमित्तानि मेघो विद्युत् स्तनितमिति । "उतेव । इवशब्दश्चार्थे । अपि च हे "अर्वन् अश्व “वरुणः पापस्य वारकः फलस्यावर्जयिता वा त्वं “मे मह्यं “छन्त्सि कथयसि । किं कथयसीति चेत् उच्यते । "ते तव "परमं “जनित्रं निरतिशयं जन्म ॥ जनेरौणादिकः इत्रप्रत्ययः ॥ “यत्र येषु त्रिषूक्तेषु स्थानेषु “आहुः कथयन्ति । यद्वा । यत्र यस्मिन् आदित्ये परमं जनित्रमाहुः । ‘सूरादश्वं वसवो निरतष्ट 'इत्युक्तत्वात् । तादृशं प्रशस्यं जन्म यज्ञसाधनभावेन कथयसीत्यर्थः ॥
 
 
Line १०७ ⟶ ११५:
अत्र । ते । भद्राः । रशनाः । अपश्यम् । ऋतस्य । याः । अभिऽरक्षन्ति । गोपाः ॥
 
हे "वाजिन् अश्व "ते संबन्धीनि "अवमार्जनानि अङ्गसंशोधकानि स्थानानि "इमा इमान्युक्तानि द्युलोकादीनि किंच “सनितुः यागसंभक्तुः तव "इमा इमानि “शफानां निधानानि स्थानानि संचारप्रदेशा इत्यर्थः । किंच “अत्र एव “ते तव “भद्राः भन्दनीयाः कल्याणाः “रशनाः ग्रीवादिषु संयुक्ताः रज्जूः अत्र “अपश्यम् एषूक्तेषु स्थानेषु अपश्यम् । रशनाः विशेष्यन्ते । “याः “गोपाः गोपयित्र्यः रशनाः “ऋतस्य सत्यभूतस्य यज्ञसाधनस्य वाश्वस्य ॥ कर्मणि षष्ठी ॥ ऋतम् "अभिरक्षन्ति अभितः पालयन्ति ताः अपश्यं दृष्टवानस्मि । यद्वा । इमा ते तव अवमार्जनानि अङ्गप्रक्षालनसाधनान्युदकानि । इमानि सनितुः तव शफानां निधानानि देवयजनभूमयः संचारप्रदेशा वा । अत्रास्मिन् देवयजनस्थाने या रशनाः गोपाः तव पालयितारो राजपुरुषाः ऋत्विजो वा ऋतस्य संबन्धिन्योऽभिरक्षन्ति ता अपश्यम् ॥ ॥ ११ ॥
 
 
Line १२१ ⟶ १३०:
शिरः । अपश्यम् । पथिऽभिः । सुऽगेभिः । अरेणुऽभिः । जेहमानम् । पतत्रि ॥
 
हे अश्व "ते तव "आत्मानं शरीरं “मनसा अस्मदीयेन प्रकृष्टगमनवता चेतसा “आरात् अतिदूरे स्थितम् "अजानां जानामि अतिव्याप्तं भावयामीत्यर्थः । कथम् । “अवः अवस्तात् सामर्थ्यात् भूमेः । भूमिमारभ्य "दिवा अन्तरिक्षेण मार्गेण “पतङ्गम् आदित्यं “पतयन्तं गच्छन्तं व्याप्नुवन्तम् । यद्वा । यतो दिवा अन्तरिक्षेण मार्गेण दिवि वा पतयन्तं गच्छन्तं पतङ्गमादित्यम् अवः आवः व्याप्नोषि अतो व्याप्तं जानामि । किंच "शिरः “अपश्यम् । तव शिरः एवं पश्यामि । कथम् । “सुगेभिः शोभनगमनसाधनैः “अरेणुभिः अपापैः “पथिभिः मार्गैः । आदित्यमण्डलादपि उपरिभूतैः सत्यलोकमार्गैरित्यर्थः । तत्र प्रतिबन्धाभावात् मार्गाणामुक्तरूपत्वम् । तथाविधैस्तैः "जेहमानम् उपर्युपरि व्याप्नुवत् “पतत्रि पतनवच्छिरोऽपश्यं भावयामि । एवं लोकत्रयव्याप्तं भावयामीत्यर्थः । यद्वा । ते आत्मानम् एवं भावयामि मनसा दिवा द्योतनात्मकेन अन्तरिक्षमार्गेण दिवः सकाशाद्वा अवः अवस्तादवाङ्मुखं पतयन्तं यागदेशं प्रति व्याप्नुवत् अत एव पतङ्गं पतनशीलम् अधःपतदादित्यसदृशं वा । एवं तव शिरो भावयामीत्यर्थः । शिरश्चैवमपश्यम् । उक्तरूपैर्देवयजनमार्गैर्जेहमानं यज्ञदेशं व्याप्नुवत् पतत्रि शीघ्रगामि शिरः पश्यामि । यद्यप्यात्मशब्देन सशिरस्कं शरीरमुक्तं तथापि देहात् पूर्वं शिरसो दृश्यमानत्वात् पृथगभिधीयते ॥
 
 
Line १३५ ⟶ १४५:
यदा । ते । मर्तः । अनु । भोगम् । आनट् । आत् । इत् । ग्रसिष्ठः । ओषधीः । अजीगरिति ॥
 
एवं गमनानन्तरं हे अश्व “ते तव “उत्तमम् उक्तरूपेणोत्कृष्टतमं “रूपम् “अत्र अस्मिन् यागदेशे “अपश्यं पश्यामि । कीदृशम् । "गोः भूम्याः “पदे स्थाने देवस्थाने देवयजनप्रदेशे आजिधावनस्थाने वा “इषः । कर्मणि षष्ठी ॥ इषम् इष्यमाणम् अन्नम् अन्नानि वा “आ सर्वतः “जिगीषमाणं गन्तुमिच्छन्तम् । हे अश्व "ते तव "यदा मर्तः मनुष्यः “भोगं भोक्तव्यमन्नम् “अनु “आनट् ॥ नशतिर्गतिकर्मा ॥ अनुक्रमेण समीपं गमयति । "आदित् अनन्तरं तदानीमेव तदनुग्रहात् विलम्बमकृत्वा "ग्रसिष्ठः महातृष्णयेव ग्रसितृतमो भक्षयितृतमः सन् “ओषधीः अन्नानि "अजीगः गिरसि भक्षयसि । महानुभावोऽपि त्वं लौकिकाश्ववत् तुच्छेन पुरुषेण दीयमानं स्वल्पं भक्ष्यम् अनुग्रहात् स्वीकरोषीत्यर्थः ।।
 
 
Line १४९ ⟶ १६०:
अनु । व्रातासः । तव । सख्यम् । ईयुः । अनु । देवाः । ममिरे । वीर्यम् । ते ॥
 
इदानीं कृत्स्नस्य लोकस्यापि मुख्यः इति प्रतिपादयति । हे "अर्वन् गमनशीलाश्व “त्वा त्वाम् “अनु अनुसृत्य “रथः गच्छति । ततः पुरतोऽश्वस्य गमनात् । तथा “मर्यः मर्त्यः त्वा त्वाम् “अनु । जात्येकवचनम् ॥ "अनु “गावः । गावोऽपि त्वामनुगच्छन्ति । तथा “कनीनां कन्यकानां स्त्रीणां “भगः भाग्यं सौन्दर्यं त्वद्भगम् “अनु। तथा व्रातासः व्राताः संघात्मकाः अन्ये अश्वसमूहाः वस्वादिदेवगणाः वा त्वाम् “अनु अनुसृत्य “तव "सख्यम् “ईयुः सखिभावं गच्छन्ति । "देवाः ऋत्विजो द्योतमाना देवा वा त्वामनुसृत्य “ते “वीर्यं वीरकर्म “ममिरे स्तुत्या मान्ति । अतः सर्वोऽपि त्वाम् अनुसरः “त्वं तु सर्वस्य श्रेष्ठ इत्यर्थः ॥
 
 
Line १६३ ⟶ १७५:
देवाः । इत् । अस्य । हविःऽअद्यम् । आयन् । यः । अर्वन्तम् । प्रथमः । अधिऽअतिष्ठत् ॥
 
अयमश्वः “हिरण्यशृङ्गः हितरमणीयशृङ्गो वा उन्नतशिरस्को हृदयरमणशृङ्ग स्थानीयशिरोरुहो वा “अस्य “पादाः “अयः अयोमयाः अयःपिण्डसदृशा इत्यर्थः । तथा “मनोजवाः मनोवेगाः । अथवा एतदिन्द्रविशेषणम् । ईदृशस्याश्वस्य सामर्थ्यं प्रति मनोवेगः “इन्द्रः अपि "अवरः निकृष्टः “आसीत् । किंच “अस्य अश्वस्य हविरद्यं हविषः अदनं भक्षणम् ॥ स्वार्थिको यत् ॥ अदनयोग्यं हविर्वा अपेक्ष्य “देवा “इत् सर्वेऽपि देवाः "आयन् प्राप्ताः । “यः इन्द्रः "अर्वन्तं “प्रथमः प्रथमभावी सन् “अध्यतिष्ठत् अधिष्ठितवान् स्वहविष्ट्वेन' स्वकीयत्वेन वा आश्रितवानित्यर्थः । ‘इन्द्र एणं प्रथमो अध्यतिष्ठत्' इति ह्युक्तम् ॥
 
 
Line १७७ ⟶ १९०:
हंसाःऽइव । श्रेणिऽशः । यतन्ते । यत् । आक्षिषुः । दिव्यम् । अज्मम् । अश्वाः ॥
 
अत्र अश्वसमूहस्तुतिद्वारेण अयं स्तूयते। “ईर्मान्तासः ईरिताः प्रेरिताः अन्ताः येषां ते तथोक्ताः। विरलान्ता इत्यर्थः। “सिलिकमध्यमासः संसृताः संगताः मध्यप्रदेशाः येषां ते तथोक्ताः । मध्ये निबिडा इत्यर्थः । अथवा शरीरस्यैते विशेषणे । ईर्म ईरितः पुरतो नुन्नः इत्यर्थः । तादृशः पृथुः अन्तो जघनप्रदेशो येषां ते तादृशाः । तथा सिलिकमध्यमासः । संसृतः संगतः संलग्नो मध्यभागो येषां ते तादृशाः । पुष्टत्वात् प्रौढपृष्ठाः संलग्नमध्याश्चेत्यर्थः । जघनपुरोभागावपेक्ष्य सिलिकमध्यमाः। इत्युक्तम् । सम् इत्ययमुपसर्गो यतन्ते इत्याख्यातेन संबन्धयितव्यः । “शूरणासः विक्रमशीलाः “दिव्यासः दिवि भवाः “अत्याः अतनशीलाः । यद्यप्ययमश्वनाम तथाप्यश्वशब्दस्य वक्ष्यमाणत्वात् अयं यौगिकोऽवगन्तव्यः । ईदृशा अश्वाः “श्रेणिशः । एकव्यापाराणां बहूनां समूहः श्रेणिरित्युच्यते । शीघ्रधावनाय श्रेणिशः पङ्क्तीभूय “सं “यतन्ते सम्यक् यत्नं कुर्वन्ति । तत्र दृष्टान्तः । "हंसाइव । ते यथा श्रेणीभूताः ईर्मान्तासः इत्याद्युक्तरूपाः सन्तः अन्तरिक्षे गमनाय यतन्ते तद्वत् । कदा । उच्यते । “यत् यदा “अश्वाः "दिव्यम् “अज्मं गमनं गन्तव्यं वा मार्गम् “आक्षिषुः व्याप्नुवन्ति तदा । अयं मन्त्रो यास्केनैवं व्याख्यातः - ’ईर्मान्ताः समीरितान्ताः पृथ्वन्ता वा सिलिकमध्यमाः संसृतमध्यमाः शीर्षमध्यमा वा अपि वा शिर आदित्यो भवति यदनुशेते सर्वाणि भूतानि मध्ये चैषां तिष्ठति । इदमपीतरच्छिर एतस्मादेव समाश्रितान्येतदिन्द्रियाणि भवन्ति । सं शूरणासो दिव्यासो अत्याः । शूरः शवतेर्गतिकर्मणो दिव्या दिविजा अत्या अतनाः । हंसा इव श्रेणिशो यतन्ते । हंसा हन्तेर्घ्नन्त्यध्वानम् । श्रेणिशः इति श्रेणिः श्रयतेः समाश्रिता भवन्ति । यदाक्षिषुर्यदापुर्दिव्यमज्ममजनिमाजिमश्वाः' (निरु. ४. १३) इति ॥ ॥ १२ ॥
 
 
Line १९१ ⟶ २०५:
तव । शृङ्गाणि । विऽस्थिता । पुरुऽत्रा । अरण्येषु । जर्भुराणा । चरन्ति ॥
 
हे "अर्वन् “तव शरीरं “पतयिष्णु पतनशीलं व्याप्तमित्यर्थः । तथा “तव “चित्तं मनः “वातइव “ध्रजीमान् शीघ्रगमनवायुरिव तद्वच्छीघ्रगमनानुकूलमित्यर्थः । किंच “तव “शृङ्गाणि शिरसो निर्गताः शृङ्गस्थानीयाः केशाः "पुरुत्रा पुरुषु बहुषु प्रदेशेषु "विष्ठिता विष्ठितानि विविधं स्थिताः । किंच त एव "अरण्येषु "जर्भुराणा मनोहराणि पूर्यमाणानि वा एवंभूताः केशाः "चरन्ति । यद्वा । अत्र अश्वस्य शृङ्गाभावात् तद्वदुन्नतानि तेजांसि परिगृह्यन्ते ।।
 
 
अश्वमेधिके मध्यमेऽहनि अध्रिगुप्रैषे ‘मा नो मित्रः' इति सूक्तानन्तरम् ‘उप प्रागाच्छसनम्' इति द्वे ऋचौ शंसनीये । सूत्रितं च- उप प्रागाच्छसनमिति द्वे' (आश्व. श्रौ. १०. ८) इति ॥
 
उप॒ प्रागा॒च्छस॑नं वा॒ज्यर्वा॑ देव॒द्रीचा॒ मन॑सा॒ दीध्या॑नः ।
Line २०५ ⟶ २२२:
अजः । पुरः । नीयते । नाभिः । अस्य । अनु । पश्चात् । कवयः । यन्ति । रेभाः ॥
 
अयम् “अर्वा अरणकुशलः "वाजी अश्वः “शसनं विशसनस्थानम् "उप "प्रागात् उपप्रैति । किं कुर्वन् । “देवद्रीचा “मनसा देवान् गच्छता मनसा "दीध्यानः ध्यायन् । कदा । देवान् अस्मदवयवेन अर्चामि देवत्वं प्राप्नोमीति वा मनसि ध्यायन् । किंच अस्य पुरः पुरस्तात् 'नाभिः नहनं बन्धुभूत इत्यर्थः । यद्वा। अस्य बन्धनस्थानीयः अविमुक्तत्वात्। एवंभूतः "अजः “पुरः “नीयते पुरतः प्राप्यते “अनु अनुसृत्य "पश्चात् अनन्तरम् । अत्र यद्यप्युभयोः पर्यवसितोऽर्थः एक एव तथापि अजाश्वोभयान न्तर्यत्वप्रकटनाय पदद्वयम् । यद्वा । अन्विति क्रियया संबध्यते। "कवयः अनूचानाः "रेभाः स्तोतारः ऋत्विजः "यन्ति गच्छन्ति । ‘ये वा अनूचानास्ते कवयः' इति श्रुतेः । यद्वा । कवय इति मेधाविनाम, ‘कविः मनीषी' ( नि, ३. १५. १०) इति तन्नामसु पठितत्वात् । रेभः इति स्तोतृनाम, ‘रेभः जरिता ' (नि. ३. १६. 1) इति तत्र पाठात् ॥
 
 
Line २१८ ⟶ २३६:
 
अद्य । देवान् । जुष्टऽतमः । हि । गम्याः । अथ । आ । शास्ते । दाशुषे । वार्याणि ॥
 
"अर्वान् अरणकुशलोऽयमश्वः “उप “प्रागात् उपगच्छति । किम् । “यत् “परमम् उत्कृष्टं “सधस्थं सहस्थानं सुकृतिभिरेकत्रनिवासयोग्यं स्वर्गाख्यं यदस्ति तत् । किमर्थम् । “पितरं “मातरं च “अच्छ आभिमुख्येन प्राप्तुम् । हे अश्व “अद्य अस्मिन् काले "जुष्टतमः प्रीततमः स्वर्गं प्राप्नोमीति हर्षयुक्तः इत्यर्थः। एवंभूतः “देवान् “गम्याः गच्छेर्देवान् । हिशब्दो यज्ञे उपयुक्तस्य पशोः स्वर्गप्राप्तेः ‘सगभ्योऽनु सखा सयूथ्यः' (तै. सं. १. २. ४. २) इत्यादिमन्त्रान्तरप्रसिद्धिद्योतनार्थः । “अथ अनन्तरं यजमानः “आ “शास्ते । कस्मै । “दाशुषे हविर्दत्तवते स्वस्मै । कानि । “वार्यणि वरणीयानि धनानि । यद्वा ॥ पुरुषस्य व्यत्ययः ॥ आ शास्ते प्रार्थये यजमानार्थम् ॥ ॥ १३ ॥
 
}}
 
{{ऋग्वेदः मण्डल १}}
 
== ==
१.१६३.६ सुगेभिः शोभनगमनसाधनैः अरेणुभिः अपापैः पथिभिः मार्गैः
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१६३" इत्यस्माद् प्रतिप्राप्तम्