"ऋग्वेदः सूक्तं ८.४४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. अग्निः। गायत्री
}}
<poem><span style="font-size: 14pt; line-height: 200%">
<div class="verse">
<pre>
समिधाग्निं दुवस्यत घृतैर्बोधयतातिथिम् ।
आस्मिन्हव्या जुहोतन ॥१॥
Line ७१ ⟶ ७०:
प्र ण आयुर्वसो तिर ॥३०॥
 
</prespan></poem>
 
</div>
{{सायणभाष्यम्|
स॒मिधा॒ग्निं दु॑वस्यत घृ॒तैर्बो॑धय॒ताति॑थिं ।
 
आस्मि॑न्ह॒व्या जु॑होतन ॥१
 
स॒म्ऽइधा॑ । अ॒ग्निम् । दु॒व॒स्य॒त॒ । घृ॒तैः । बो॒ध॒य॒त॒ । अति॑थिम् ।
 
आ । अ॒स्मि॒न् । ह॒व्या । जु॒हो॒त॒न॒ ॥
 
सम्ऽइधा । अग्निम् । दुवस्यत । घृतैः । बोधयत । अतिथिम् ।
 
आ । अस्मिन् । हव्या । जुहोतन ॥
 
 
 
अग्ने॒ स्तोमं॑ जुषस्व मे॒ वर्ध॑स्वा॒नेन॒ मन्म॑ना ।
 
प्रति॑ सू॒क्तानि॑ हर्य नः ॥२
 
अग्ने॑ । स्तोम॑म् । जु॒ष॒स्व॒ । मे॒ । वर्ध॑स्व । अ॒नेन॑ । मन्म॑ना ।
 
प्रति॑ । सु॒ऽउ॒क्तानि॑ । ह॒र्य॒ । नः॒ ॥
 
अग्ने । स्तोमम् । जुषस्व । मे । वर्धस्व । अनेन । मन्मना ।
 
प्रति । सुऽउक्तानि । हर्य । नः ॥
 
 
 
अ॒ग्निं दू॒तं पु॒रो द॑धे हव्य॒वाह॒मुप॑ ब्रुवे ।
 
दे॒वाँ आ सा॑दयादि॒ह ॥३
 
अ॒ग्निम् । दू॒तम् । पु॒रः । द॒धे॒ । ह॒व्य॒ऽवाह॑म् । उप॑ । ब्रु॒वे॒ ।
 
दे॒वान् । आ । सा॒द॒या॒त् । इ॒ह ॥
 
अग्निम् । दूतम् । पुरः । दधे । हव्यऽवाहम् । उप । ब्रुवे ।
 
देवान् । आ । सादयात् । इह ॥
 
 
 
उत्ते॑ बृ॒हंतो॑ अ॒र्चयः॑ समिधा॒नस्य॑ दीदिवः ।
 
अग्ने॑ शु॒क्रास॑ ईरते ॥४
 
उत् । ते॒ । बृ॒हन्तः॑ । अ॒र्चयः॑ । स॒म्ऽइ॒धा॒नस्य॑ । दी॒दि॒ऽवः॒ ।
 
अग्ने॑ । शु॒क्रासः॑ । ई॒र॒ते॒ ॥
 
उत् । ते । बृहन्तः । अर्चयः । सम्ऽइधानस्य । दीदिऽवः ।
 
अग्ने । शुक्रासः । ईरते ॥
 
 
 
उप॑ त्वा जु॒ह्वो॒३॒॑ मम॑ घृ॒ताची॑र्यंतु हर्यत ।
 
अग्ने॑ ह॒व्या जु॑षस्व नः ॥५
 
उप॑ । त्वा॒ । जु॒ह्वः॑ । मम॑ । घृ॒ताचीः॑ । य॒न्तु॒ । ह॒र्य॒त॒ ।
 
अग्ने॑ । ह॒व्या । जु॒ष॒स्व॒ । नः॒ ॥
 
उप । त्वा । जुह्वः । मम । घृताचीः । यन्तु । हर्यत ।
 
अग्ने । हव्या । जुषस्व । नः ॥
 
 
 
मं॒द्रं होता॑रमृ॒त्विजं॑ चि॒त्रभा॑नुं वि॒भाव॑सुं ।
 
अ॒ग्निमी॑ळे॒ स उ॑ श्रवत् ॥६
 
म॒न्द्रम् । होता॑रम् । ऋ॒त्विज॑म् । चि॒त्रऽभा॑नुम् । वि॒भाऽव॑सुम् ।
 
अ॒ग्निम् । ई॒ळे॒ । सः । ऊं॒ इति॑ । श्र॒व॒त् ॥
 
मन्द्रम् । होतारम् । ऋत्विजम् । चित्रऽभानुम् । विभाऽवसुम् ।
 
अग्निम् । ईळे । सः । ऊं इति । श्रवत् ॥
 
 
 
प्र॒त्नं होता॑र॒मीड्यं॒ जुष्ट॑म॒ग्निं क॒विक्र॑तुं ।
 
अ॒ध्व॒राणा॑मभि॒श्रियं॑ ॥७
 
प्र॒त्नम् । होता॑रम् । ईड्य॑म् । जुष्ट॑म् । अ॒ग्निम् । क॒विऽक्र॑तुम् ।
 
अ॒ध्व॒राणा॑म् । अ॒भि॒ऽश्रिय॑म् ॥
 
प्रत्नम् । होतारम् । ईड्यम् । जुष्टम् । अग्निम् । कविऽक्रतुम् ।
 
अध्वराणाम् । अभिऽश्रियम् ॥
 
 
 
जु॒षा॒णो अं॑गिरस्तमे॒मा ह॒व्यान्या॑नु॒षक् ।
 
अग्ने॑ य॒ज्ञं न॑य ऋतु॒था ॥८
 
जु॒षा॒णः । अ॒ङ्गि॒रः॒ऽत॒म॒ । इ॒मा । ह॒व्यानि॑ । आ॒नु॒षक् ।
 
अग्ने॑ । य॒ज्ञम् । न॒य॒ । ऋ॒तु॒ऽथा ॥
 
जुषाणः । अङ्गिरःऽतम । इमा । हव्यानि । आनुषक् ।
 
अग्ने । यज्ञम् । नय । ऋतुऽथा ॥
 
 
 
स॒मि॒धा॒न उ॑ संत्य॒ शुक्र॑शोच इ॒हा व॑ह ।
 
चि॒कि॒त्वांदैव्यं॒ जनं॑ ॥९
 
स॒म्ऽइ॒धा॒नः । ऊं॒ इति॑ । स॒न्त्य॒ । शुक्र॑ऽशोचे । इ॒ह । आ । व॒ह॒ ।
 
चि॒कि॒त्वान् । दैव्य॑म् । जन॑म् ॥
 
सम्ऽइधानः । ऊं इति । सन्त्य । शुक्रऽशोचे । इह । आ । वह ।
 
चिकित्वान् । दैव्यम् । जनम् ॥
 
 
 
विप्रं॒ होता॑रम॒द्रुहं॑ धू॒मके॑तुं वि॒भाव॑सुं ।
 
य॒ज्ञानां॑ के॒तुमी॑महे ॥१०
 
विप्र॑म् । होता॑रम् । अ॒द्रुह॑म् । धू॒मऽके॑तुम् । वि॒भाऽव॑सुम् ।
 
य॒ज्ञाना॑म् । के॒तुम् । ई॒म॒हे॒ ॥
 
विप्रम् । होतारम् । अद्रुहम् । धूमऽकेतुम् । विभाऽवसुम् ।
 
यज्ञानाम् । केतुम् । ईमहे ॥
 
 
 
अग्ने॒ नि पा॑हि न॒स्त्वं प्रति॑ ष्म देव॒ रीष॑तः ।
 
भिं॒धि द्वेषः॑ सहस्कृत ॥११
 
अग्ने॑ । नि । पा॒हि॒ । नः॒ । त्वम् । प्रति॑ । स्म॒ । दे॒व॒ । रिष॑तः ।
 
भि॒न्धि । द्वेषः॑ । स॒हः॒ऽकृ॒त॒ ॥
 
अग्ने । नि । पाहि । नः । त्वम् । प्रति । स्म । देव । रिषतः ।
 
भिन्धि । द्वेषः । सहःऽकृत ॥
 
 
 
अ॒ग्निः प्र॒त्नेन॒ मन्म॑ना॒ शुंभा॑नस्त॒न्वं१॒॑ स्वां ।
 
क॒विर्विप्रे॑ण वावृधे ॥१२
 
अ॒ग्निः । प्र॒त्नेन॑ । मन्म॑ना । शुम्भा॑नः । त॒न्व॑म् । स्वाम् ।
 
क॒विः । विप्रे॑ण । व॒वृ॒धे॒ ॥
 
अग्निः । प्रत्नेन । मन्मना । शुम्भानः । तन्वम् । स्वाम् ।
 
कविः । विप्रेण । ववृधे ॥
 
 
 
ऊ॒र्जो नपा॑त॒मा हु॑वे॒ऽग्निं पा॑व॒कशो॑चिषं ।
 
अ॒स्मिन्य॒ज्ञे स्व॑ध्व॒रे ॥१३
 
ऊ॒र्जः । नपा॑तम् । आ । हु॒वे॒ । अ॒ग्निम् । पा॒व॒कऽशो॑चिषम् ।
 
अ॒स्मिन् । य॒ज्ञे । सु॒ऽअ॒ध्व॒रे ॥
 
ऊर्जः । नपातम् । आ । हुवे । अग्निम् । पावकऽशोचिषम् ।
 
अस्मिन् । यज्ञे । सुऽअध्वरे ॥
 
 
 
स नो॑ मित्रमह॒स्त्वमग्ने॑ शु॒क्रेण॑ शो॒चिषा॑ ।
 
दे॒वैरा स॑त्सि ब॒र्हिषि॑ ॥१४
 
सः । नः॒ । मि॒त्र॒ऽम॒हः॒ । त्वम् । अग्ने॑ । शु॒क्रेण॑ । शो॒चिषा॑ ।
 
दे॒वैः । आ । स॒त्सि॒ । ब॒र्हिषि॑ ॥
 
सः । नः । मित्रऽमहः । त्वम् । अग्ने । शुक्रेण । शोचिषा ।
 
देवैः । आ । सत्सि । बर्हिषि ॥
 
 
 
यो अ॒ग्निं त॒न्वो॒३॒॑ दमे॑ दे॒वं मर्तः॑ सप॒र्यति॑ ।
 
तस्मा॒ इद्दी॑दय॒द्वसु॑ ॥१५
 
यः । अ॒ग्निम् । त॒न्वः॑ । दमे॑ । दे॒वम् । मर्तः॑ । स॒प॒र्यति॑ ।
 
तस्मै॑ । इत् । दी॒द॒य॒त् । वसु॑ ॥
 
 
 
यः । अग्निम् । तन्वः । दमे । देवम् । मर्तः । सपर्यति ।
 
तस्मै । इत् । दीदयत् । वसु ॥१६
 
अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यं ।
 
अ॒पां रेतां॑सि जिन्वति ॥
 
अ॒ग्निः । मू॒र्धा । दि॒वः । क॒कुत् । पतिः॑ । पृ॒थि॒व्याः । अ॒यम् ।
 
अ॒पाम् । रेतां॑सि । जि॒न्व॒ति॒ ॥
 
 
 
अग्निः । मूर्धा । दिवः । ककुत् । पतिः । पृथिव्याः । अयम् ।
 
अपाम् । रेतांसि । जिन्वति ॥१७
 
उद॑ग्ने॒ शुच॑य॒स्तव॑ शु॒क्रा भ्राजं॑त ईरते ।
 
तव॒ ज्योतीं॑ष्य॒र्चयः॑ ॥
 
उत् । अ॒ग्ने॒ । शुच॑यः । तव॑ । शु॒क्राः । भ्राज॑न्तः । ई॒र॒ते॒ ।
 
तव॑ । ज्योतीं॑षि । अ॒र्चयः॑ ॥
 
 
 
उत् । अग्ने । शुचयः । तव । शुक्राः । भ्राजन्तः । ईरते ।
 
तव । ज्योतींषि । अर्चयः ॥१८
 
ईशि॑षे॒ वार्य॑स्य॒ हि दा॒त्रस्या॑ग्ने॒ स्व॑र्पतिः ।
 
स्तो॒ता स्यां॒ तव॒ शर्म॑णि ॥
 
ईशि॑षे । वार्य॑स्य । हि । दा॒त्रस्य॑ । अ॒ग्ने॒ । स्वः॑ऽपतिः ।
 
स्तो॒ता । स्या॒म् । तव॑ । शर्म॑णि ॥
 
 
 
ईशिषे । वार्यस्य । हि । दात्रस्य । अग्ने । स्वःऽपतिः ।
 
स्तोता । स्याम् । तव । शर्मणि ॥१९
 
त्वाम॑ग्ने मनी॒षिण॒स्त्वां हि॑न्वंति॒ चित्ति॑भिः ।
 
त्वां व॑र्धंतु नो॒ गिरः॑ ॥
 
त्वाम् । अ॒ग्ने॒ । म॒नी॒षिणः॑ । त्वाम् । हि॒न्व॒न्ति॒ । चित्ति॑ऽभिः ।
 
त्वाम् । व॒र्ध॒न्तु॒ । नः॒ । गिरः॑ ॥
 
त्वाम् । अग्ने । मनीषिणः । त्वाम् । हिन्वन्ति । चित्तिऽभिः ।
 
त्वाम् । वर्धन्तु । नः । गिरः ॥
 
 
अद॑ब्धस्य स्व॒धाव॑तो दू॒तस्य॒ रेभ॑तः॒ सदा॑ ।
 
अ॒ग्नेः स॒ख्यं वृ॑णीमहे ॥२०
 
अद॑ब्धस्य । स्व॒धाऽव॑तः । दू॒तस्य॑ । रेभ॑तः । सदा॑ ।
 
अ॒ग्नेः । स॒ख्यम् । वृ॒णी॒म॒हे॒ ॥
 
अदब्धस्य । स्वधाऽवतः । दूतस्य । रेभतः । सदा ।
 
अग्नेः । सख्यम् । वृणीमहे ॥
 
 
अ॒ग्निः शुचि॑व्रततमः॒ शुचि॒र्विप्रः॒ शुचिः॑ क॒विः ।
 
शुची॑ रोचत॒ आहु॑तः ॥२१
 
अ॒ग्निः । शुचि॑व्रतऽतमः । शुचिः॑ । विप्रः॑ । शुचिः॑ । क॒विः ।
 
शुचिः॑ । रो॒च॒ते॒ । आऽहु॑तः ॥
 
अग्निः । शुचिव्रतऽतमः । शुचिः । विप्रः । शुचिः । कविः ।
 
शुचिः । रोचते । आऽहुतः ॥
 
 
उ॒त त्वा॑ धी॒तयो॒ मम॒ गिरो॑ वर्धंतु वि॒श्वहा॑ ।
 
अग्ने॑ स॒ख्यस्य॑ बोधि नः ॥२२
 
उ॒त । त्वा॒ । धी॒तयः॑ । मम॑ । गिरः॑ । व॒र्ध॒न्तु॒ । वि॒श्वहा॑ ।
 
अग्ने॑ । स॒ख्यस्य॑ । बो॒धि॒ । नः॒ ॥
 
उत । त्वा । धीतयः । मम । गिरः । वर्धन्तु । विश्वहा ।
 
अग्ने । सख्यस्य । बोधि । नः ॥
 
 
यद॑ग्ने॒ स्याम॒हं त्वं त्वं वा॑ घा॒ स्या अ॒हं ।
 
स्युष्टे॑ स॒त्या इ॒हाशिषः॑ ॥२३
 
यत् । अ॒ग्ने॒ । स्याम् । अ॒हम् । त्वम् । त्वम् । वा॒ । घ॒ । स्याः । अ॒हम् ।
 
स्युः । ते॒ । स॒त्याः । इ॒ह । आ॒ऽशिषः॑ ॥
 
यत् । अग्ने । स्याम् । अहम् । त्वम् । त्वम् । वा । घ । स्याः । अहम् ।
 
स्युः । ते । सत्याः । इह । आऽशिषः ॥
 
 
वसु॒र्वसु॑पति॒र्हि क॒मस्य॑ग्ने वि॒भाव॑सुः ।
 
स्याम॑ ते सुम॒तावपि॑ ॥२४
 
वसुः॑ । वसु॑ऽपतिः । हि । क॒म् । असि॑ । अ॒ग्ने॒ । वि॒भाऽव॑सुः ।
 
स्याम॑ । ते॒ । सु॒ऽम॒तौ । अपि॑ ॥
 
वसुः । वसुऽपतिः । हि । कम् । असि । अग्ने । विभाऽवसुः ।
 
स्याम । ते । सुऽमतौ । अपि ॥
 
 
अग्ने॑ धृ॒तव्र॑ताय ते समु॒द्राये॑व॒ सिंध॑वः ।
 
गिरो॑ वा॒श्रास॑ ईरते ॥२५
 
अग्ने॑ । धृ॒तऽव्र॑ताय । ते॒ । स॒मु॒द्राय॑ऽइव । सिन्ध॑वः ।
 
गिरः॑ । वा॒श्रासः॑ । ई॒र॒ते॒ ॥
 
अग्ने । धृतऽव्रताय । ते । समुद्रायऽइव । सिन्धवः ।
 
गिरः । वाश्रासः । ईरते ॥
 
 
युवा॑नं वि॒श्पतिं॑ क॒विं वि॒श्वादं॑ पुरु॒वेप॑सं ।
 
अ॒ग्निं शुं॑भामि॒ मन्म॑भिः ॥२६
 
युवा॑नम् । वि॒श्पति॑म् । क॒विम् । वि॒श्व॒ऽअद॑म् । पु॒रु॒ऽवेप॑सम् ।
 
अ॒ग्निम् । शु॒म्भा॒मि॒ । मन्म॑ऽभिः ॥
 
युवानम् । विश्पतिम् । कविम् । विश्वऽअदम् । पुरुऽवेपसम् ।
 
अग्निम् । शुम्भामि । मन्मऽभिः ॥
 
 
य॒ज्ञानां॑ र॒थ्ये॑ व॒यं ति॒ग्मजं॑भाय वी॒ळवे॑ ।
 
स्तोमै॑रिषेमा॒ग्नये॑ ॥२७
 
य॒ज्ञाना॑म् । र॒थ्ये॑ । व॒यम् । ति॒ग्मऽज॑म्भाय । वी॒ळवे॑ ।
 
स्तोमैः॑ । इ॒षे॒म॒ । अ॒ग्नये॑ ॥
 
यज्ञानाम् । रथ्ये । वयम् । तिग्मऽजम्भाय । वीळवे ।
 
स्तोमैः । इषेम । अग्नये ॥
 
 
अ॒यम॑ग्ने॒ त्वे अपि॑ जरि॒ता भू॑तु संत्य ।
 
तस्मै॑ पावक मृळय ॥२८
 
अ॒यम् । अ॒ग्ने॒ । त्वे इति॑ । अपि॑ । ज॒रि॒ता । भू॒तु॒ । स॒न्त्य॒ ।
 
तस्मै॑ । पा॒व॒क॒ । मृ॒ळ॒य॒ ॥
 
अयम् । अग्ने । त्वे इति । अपि । जरिता । भूतु । सन्त्य ।
 
तस्मै । पावक । मृळय ॥
 
 
धीरो॒ ह्यस्य॑द्म॒सद्विप्रो॒ न जागृ॑विः॒ सदा॑ ।
 
अग्ने॑ दी॒दय॑सि॒ द्यवि॑ ॥२९
 
धीरः॑ । हि । असि॑ । अ॒द्म॒ऽसत् । विप्रः॑ । न । जागृ॑विः । सदा॑ ।
 
अग्ने॑ । दी॒दय॑सि । द्यवि॑ ॥
 
धीरः । हि । असि । अद्मऽसत् । विप्रः । न । जागृविः । सदा ।
 
अग्ने । दीदयसि । द्यवि ॥
 
 
 
पु॒राग्ने॑ दुरि॒तेभ्यः॑ पु॒रा मृ॒ध्रेभ्यः॑ कवे ।
 
प्र ण॒ आयु॑र्वसो तिर ॥३०
 
पु॒रा । अ॒ग्ने॒ । दुः॒ऽइ॒तेभ्यः॑ । पु॒रा । मृ॒ध्रेभ्यः॑ । क॒वे॒ ।
 
प्र । नः॒ । आयुः॑ । व॒सो॒ इति॑ । ति॒र॒ ॥
 
पुरा । अग्ने । दुःऽइतेभ्यः । पुरा । मृध्रेभ्यः । कवे ।
 
प्र । नः । आयुः । वसो इति । तिर ॥
 
 
 
}}
{{ऋग्वेदः मण्डल ८}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.४४" इत्यस्माद् प्रतिप्राप्तम्