"ऋग्वेदः सूक्तं ५.२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३८:
 
{{सायणभाष्यम्|
‘कुमारं माता ' इति द्वादशर्चं द्वितीयं सूक्तम् । अत्रेः पुत्रः कुमार ऋषिः जननाम्नः पुत्रो वृशो वोभौ वात्र ऋषी । ‘कमेतं त्वं ', ' वि ज्योतिषा' इत्यनयोस्तु वृश एव नोभौ न कुमारः । अन्त्या षट्पञ्चाशदक्षरा शक्करी शिष्टास्त्रिष्टुभः । अग्निर्देवता । अत्रानुक्रमणिका–’ कुमारं कुमारो वृशो वा जान उभौ वा शक्वर्यन्तं कं वीत्यृचोस्तु वृश एव' इति । प्रातरनुवाकाश्विनशस्त्रयोरस्यापि सूक्तस्य विनियोग उक्तः पूर्वसूक्तेन सह ॥
 
 
 
पङ्क्तिः ५३:
अनीकम् । अस्य । न । मिनत् । जनासः । पुरः । पश्यन्ति । निऽहितम् । अरतौ ॥
 
शाट्यायनब्राह्मणोक्त इतिहास इहोच्यते । राजा त्रैवृष्ण ऐक्ष्वाकः त्र्यरुणोऽभवदस्य च ॥ पुरोहितो वृशो जान ऋषिरासीत्तदा खलु । संगृह्णन्ति रथान् राज्ञां रक्षणाय पुरोहिताः ॥ त्र्यरुणस्य वृशो रश्मिं संजग्राह पुरोहितः । कुमारो वर्त्मनि क्रीडन्रथचक्रेण घातितः॥ छिन्नः कुमारश्चक्रेण ममाराथ पुरोहितः । त्वं हन्तास्येति राजानं राजा चापि पुरोहितम् ॥ त्वं हन्तास्य कुमारस्य नाहमित्यब्रवीत्तदा । यतस्त्वं रथवेगस्य नियन्तातस्त्वया हतः ॥ रथस्वामी यतो राजन् तस्मात्त्वं तस्य घातकः । एवं विवदमानौ ताविक्ष्वाकून्प्रष्टुमागतौ ॥ तौ पप्रच्छतुरिक्ष्वाकून् केनासौ निहतो द्विजः। तेऽब्रुवन्रथयन्तारं हन्तारं वृशसंज्ञकम् ॥ स वृशो वार्शसाम्ना तं कुमारं समजीवयत् । एवमाख्याय तत्रैव पुनरन्यदुदीरितम् ॥ यत इक्ष्वाकवो रागात् हन्तारमृषिमब्रुवन् । तस्मात्तेषां गृहेष्वग्नेस्तेजो निर्गतमेषु च ॥ गृहे पाकादयो नासन् तत्कारणमचिन्तयन् । वृशं कुमारहन्तारं यदवोचाम तेन नः ॥ अपाक्रमद्धरो वहेराह्वयाम वृशं वयम् । इति संचिन्त्य तमृषिमाह्वयामासुरादरात् ॥ समागत्य ततः शीघ्रं तेषामग्नेर्हरो भवेत् । इति वार्शेन साम्नासावकामयत पूर्ववत् ॥ एवं गायन् स ऋषिर्ब्रह्महत्यां भार्याजातां त्रसदस्योर्नृपस्य । पिशाचवेषां हर आदाय चाग्नेर्गृहान्नीत्वा कशिपौ स्थापयन्तीम् ॥ दृष्ट्वा सम्यक् तद्धरस्तोषयित्वा साम्ना पश्चाद्योजयामास चाग्निम् । ततः सतेजाः संजातोऽभवत्पाकादि पूर्ववत् ॥ एवं शाट्यायनेनोक्तं ताण्डकोक्तमथोच्यते । वृशः पुरोधा अभवत्त्रसदस्योर्महीपतेः ॥ स रथं धावयन्नाजा ब्राह्मणस्य कुमारकम् । चिच्छेद रथचक्रेण प्रमादात्सोऽब्रवीद्वशम् ॥ पुरोहिते वर्तमाने त्वयि मां हन्तिरागता। एषा त्वयापनेतव्या ऋषिमित्यब्रवीन्नृपः ॥ स ऋषिर्वार्शसाम्रा तं कुमारमुदजीवयत् ॥ "माता कुमारस्योत्पादयित्री "युवतिः यौवनोपेता "कुमारं पथि संचरन्तं "समुब्धं चक्रेण हतं "गुहा गुहायां “बिभर्ति धारयति । "न "ददाति "पित्रे तस्य जनकाय । यद्वा । माता सर्वस्य निर्मात्री पृथिवी समुब्धं सम्यक् निगूढं गुहा बिभर्ति न ददाति पित्रे । "अस्य कुमारस्य "अनीकं रूपं "मिनत् हिंसितं “जनासः जनाः “न पश्यन्ति । किंतु “अरतौ अरमणे देशे "निहितं स्थितं "पुरः पुरोदेशे पश्यन्ति । अथवायं वृशेन पुनरुज्जीवितः कुमार आत्मानमपरोक्षतया वक्ति कथयति । जानः वा तं जीवयित्वा वक्ति। अथवा। सूक्तस्य आग्नेयत्वात् कुमार इत्यग्निरुच्यते । तं माता अरणिर्युवतिर्मिश्रयन्ती समुब्धं निगूढं गुहायां बिभर्ति पित्रे उत्पादकाय यजमानाय न ददाति । अस्याग्नेर्मिनत् हिंसत् दाहकमनीकं तेजो जना न पश्यन्ति । किंतु अरतौ अरण्यां हितं पश्यन्ति ॥
 
 
Line ६७ ⟶ ६८:
पूर्वीः । हि । गर्भः । शरदः । ववर्ध । अपश्यम् । जातम् । यत् । असूत । माता ॥
 
अत्राग्नेरुत्पाद्यमानत्वात् कुमारशब्देन व्यवहारः । हे "युवते “त्वं "कमेतं "कुमारं "पेषी हिंसिका पिशाचिका सती “बिभर्षि । एवं वृशाख्यो महर्षिः कशिपुनाच्छन्नम् अग्नेर्हरो ब्रूते । त्वयानुत्पादितत्वात् धारणमनुचितमित्यर्थः। "महिषी महती पूजनीयारणिः एनं "जजान अजनयत् । तदेवाह। "गर्भः शिशोर्ग्राहकोऽरण्याः संबन्धी गर्भः “हि यस्मात् "पूर्वीः "शरदः गताननेकान् संवत्सरान् "ववर्ध ववृधे । अहं च ततो "जातम् "अपश्यम् । "यत् यस्मात् "माता अरणिः "असूत उदपादयत् । राजकुमारपक्षे हे युवते भूदेवि कमेतं कुमारं पेषी सती बिभर्षि । अवशिष्टं कुमारजननपरतया योज्यम् । एवमुत्तरत्रापि कुमाराग्निहरसोः परत्वेन यथोचितं व्याख्येयम् ॥
 
 
Line ८१ ⟶ ८३:
ददानः । अस्मै । अमृतम् । विपृक्वत् । किम् । माम् । अनिन्द्राः । कृणवन् । अनुक्थाः ॥
 
“हिरण्यदन्तं हिरण्यसदृशदन्तस्थानीयज्वालोपेतं “शुचिवर्णं प्रदीप्तवर्णम् "आयुधा आयुधानि आयुधस्थानीयान् स्फुलिङ्गान् ज्वाला वा “मिमानं निर्मिमाणमग्निम् “आरात् समीपे "क्षेत्रात् क्षेत्रे देशे “अपश्यं पश्येयम् । एवं वृशः कामयते । अहम् "अस्मै अग्नये "अमृतम् अविनाश्यमृतत्वसाधनं वा "विपृक्वत् सर्वतो व्याप्तं हविः स्तोत्रं वा ददानः दातास्मि । "माम् "अनिन्द्राः । इन्द्रः परमैश्वर्योऽग्निः । तद्रहिता अनिन्द्राः । इन्द्रमयजन्त इत्यर्थः । अनुक्थाः अस्तुतय इन्द्रमस्तुवन्तश्च “किं “कृणवन् किं कुर्युः ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.२" इत्यस्माद् प्रतिप्राप्तम्