"ऋग्वेदः सूक्तं ५.२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९८:
न । ताः । अगृभ्रन् । अजनिष्ट । हि । सः । पलिक्नीः । इत् । युवतयः । भवन्ति ॥
 
अहं वृश इदानीं “क्षेत्रात् क्षेत्रे “सनुतः । अन्तर्हितनामैतत् । निगूढं "चरन्तम् अरण्यां “यूथं “न गवां समूहमिव "सुमत् स्वयमेव “पुरु बहु “शोभमानम् “अपश्यं पश्यामि । पुरा हरसः पिशाच्याक्रमणकाले “ताः ज्वाला निर्वीर्याः "न “अगृभ्रन् नागृह्णन्त नराः । इदानीं 'सः अग्निः "अजनिष्ट “हि । हरसा प्रादुरभूत् खलु। अत एव हेतोः “पलिक्नीरित् पलिक्न्यः पलिता जीर्णाः ज्वाला एवेदानीं “युवतयो “भवन्ति ॥
 
 
Line ११२ ⟶ ११३:
ये । ईम् । जगृभुः । अव । ते । सृजन्तु । आ । अजाति । पश्वः । उप । नः । चिकित्वान् ॥
 
“के “मे मदीयं “मर्यकं मर्त्यसंघं राष्ट्रं "गोभिः सह “वि "यवन्त वियुक्तमकुर्वन् । गा भृत्यांश्च व्ययोजयन्। "येषां “गोपाः अस्माकं गोपयिता: “अरणश्चित् अभिगन्ता “न “आस बभूव। सोऽयमग्निः । "ये द्वेषिणः "ईम् एनं जनसंघं राष्ट्रं "जगृभुः गृह्णन्ति । “ते “अव “सृजन्तु नश्यन्तु । किंच “चिकित्वान् चेतनावान् अस्मद्विषयज्ञानवानग्निः “नः अस्माकं “पश्वः पशून् “उप “आजाति उपागच्छति ॥
 
 
Line १२६ ⟶ १२८:
ब्रह्माणि । अत्रेः । अव । तम् । सृजन्तु । निन्दितारः । निन्द्यासः । भवन्तु ॥
 
“वसां वसतां प्राणिनां "राजानं स्वामिनं “जनानां प्राणिनां “वसतिम् आवासभूतं त्र्यरुणमुक्तलक्षणमग्निं वा “अरातयो “नि "दधुः अगोपयन् “मर्त्येषु लोकेषु मध्ये। “अत्रेः अत्रिगोत्रस्य वृशस्य “ब्रह्माणि मन्त्राः स्तोत्राणि वा “तं कुमारम् अग्निं वा "अव “सृजन्तु । अथवा अत्रेः अत्रिगोत्रस्य कुमारं ब्रह्माणि । यद्वा । वृशस्य ब्रह्माण्यत्रेत्रिगोत्रम् ॥ कर्मणि षष्ठी ॥ तं कुमारमव सृजन्तु विसृजन्तु । “निन्दितारः अस्मन्निन्दकाः “निन्द्यासः अस्माभिर्निन्द्याः “भवन्तु । अत्रेर्ब्रह्माणीत्येतत् उपजीव्य वृशमप्यात्रेयं वदन्ति। आत्रेयः कुमार इति पक्षे स एव प्राणमयम् आत्मानमवसृजन्त्वित्याशास्ते ॥१४॥
 
 
अञ्जःसवे आहवनीयोपस्थाने 'शुनश्चिच्छेपम्' इत्येषा। ‘अग्निमाहवनीयमुपस्थापयांचकारशुनश्चिच्छेपं निदितं सहस्रात्' (ऐ. ब्रा. ७. १७ ) इति ब्राह्मणम् ।।
 
शुन॑श्चि॒च्छेपं॒ निदि॑तं स॒हस्रा॒द्यूपा॑दमुंचो॒ अश॑मिष्ट॒ हि षः ।
Line १४० ⟶ १४५:
एव । अस्मत् । अग्ने । वि । मुमुग्धि । पाशान् । होतरिति । चिकित्वः । इह । तु । निऽसद्य ॥
 
हे अग्ने “निदितं नितरां बद्धं “शुनःशेपम् ऋषिं “सहस्रात् अनेकरूपात् “यूपात् "अमुञ्चः अमोचयः। “चित् इति पूरणः। शुनःशेपमिति पदस्य मध्ये पदान्तरस्य संहितायां व्यत्ययेनावस्थितिः । “सः ऋषिः "अशमिष्ट हि शान्तवान् खलु । यद्वा । स हि यस्मादशमिष्ट । स्तुतिकर्मैतत् । अस्तावीत् । तस्मादमुञ्च इति संबन्धः। “एव एवम् “अस्मत् अस्मत्तः "पाशान् “वि “मुमुग्धि विमोचय । हे "होतः हे “चिकित्वः चेतनावन् “अग्ने “इह “तु वेद्यां “निषद्य अवस्थाय ॥
 
 
Line १५४ ⟶ १६०:
इन्द्रः । विद्वान् । अनु । हि । त्वा । चचक्ष । तेन । अहम् । अग्ने । अनुऽशिष्टः । आ । अगाम् ॥
 
हे अग्ने “हृणीयमानः क्रुध्यंस्त्वं “मत् मत्तः “अप “ऐयेः “हि अपागाः खलु ॥ ‘ ई गतौ' इत्यस्मात् श्यन्विकरणात् लङि मध्यमे छान्दसे परस्मैपद आडागमे वृद्धौ व्यत्ययेन श्यनोऽकारस्य एकारे च कृते रूपम् ॥ “मे मह्यं “देवानां “व्रतपाः कर्मणः पालकः “इन्द्रः “प्र “उवाच “हि । स एव “विद्वान् “त्वा “अनु “चचक्ष त्वां ददर्श । “तेन “अनुशिष्टः अहं हे “अग्ने त्वाम् “आगाम् इति । एवं वृश आह ॥
 
 
Line १६८ ⟶ १७५:
प्र । अदेवीः । मायाः । सहते । दुःऽएवाः । शिशीते । शृङ्गे इति । रक्षसे । विऽनिक्षे ॥
 
अयम् “अग्निः “ज्योतिषा तेजसा “बृहता महता “वि “भाति विशेषेण दीप्यते । अथ तथाभूतः सन् "महित्वा स्वमहत्त्वेन "विश्वानि सर्वाणि पदार्थजातानि "आविः “कृणुते प्रकटीकरोति । एवं प्रवृद्धोऽग्निः "अदेवीः अदेवनशीला आसुरीः "मायाः "दुरेवाः दुःखगमनाः' “प्र “सहते अभिभवति । किंच "शिशीते तीक्ष्णीकरोति । “शृङ्गे शृङ्गाणि । शृङ्गसदृशीर्हिंसिका वा ज्वालाः शिशीते तीक्ष्णीकरोति । किमर्थम् । “रक्षसे “विनिक्षे रक्षसो नाशाय । ‘निश्यति श्रङ्गे रक्षसो विनिक्षणनाय' (निरु. ४. १८) इति यास्कः ॥
 
 
Line १८२ ⟶ १९०:
मदे । चित् । अस्य । प्र । रुजन्ति । भामाः । न । वरन्ते । परिऽबाधः । अदेवीः ॥
 
“उत अपि च "अग्नेः "स्वानासः शब्दं कुर्वाणा ज्वालाः “दिवि “षन्तु द्युलोके प्रादुर्भवन्तु । किमर्थम् । “तिग्मायुधाः तीक्ष्णायुधस्थानीया ज्वालाः । “रक्षसे “हन्तवा “उ रक्षसो हननाय । उ इति पूरणः । “मदे “चित् हर्षे सति “अस्य अग्नेः “भामाः क्रोधा दीप्तयो वा “प्र “रुजन्ति प्रकर्षेण भङ्गं गच्छन्ति पीडयन्ति वा रक्षांसि । “परिबाधः परितो बाधिकाः “अदेवीः अदेवनाः आसुर्यः सेनाः “न “वरन्ते न वारयन्त्येनम् ॥
 
 
Line १९६ ⟶ २०५:
यदि । इत् । अग्ने । प्रति । त्वम् । देव । हर्याः । स्वःऽवतीः । अपः । एन । जयेम ॥
 
हे "तुविजात बहुभावमापन्नाग्ने “ते त्वदर्थम् “एतं “स्तोमम् एतत् स्तोत्रं “विप्रः मेधावी स्तोता “रथं “न रथमिव “धीरः “स्वपाः शोभनकर्माहम् “अतक्षं समपादयम् । हे अग्ने “देव “त्वं “यदीत् एनं स्तोमं “प्रति हर्याः प्रतिकामयेथाः । तर्हि स्वर्वतीः स्वरणवतीर्व्याप्तिमतीः "अपः “एना एनेन “जयेम प्राप्नुयाम ॥
 
 
Line २१० ⟶ २२०:
इति । इमम् । अग्निम् । अमृताः । अवोचन् । बर्हिष्मते । मनवे । शर्म । यंसत् । हविष्मते । मनवे । शर्म । यंसत् ॥
 
“तुविग्रीवः बहुज्वालः प्रभूतग्रीवो वा “वृषभः वर्षिता कामानां “ववृधानः वर्धमानोऽग्निः “अर्यः अरेः “वेदः धनम् “अशत्रु अकण्टकं “समजाति संयोजयति । “इतीमम् अर्थम् “अग्निम् “अमृताः अन्ये देवाः “अवोचन् । यस्मादेवं तस्मात् “बहिष्मते यागवते “मनवे मनुष्याय यजमानाय “शर्म सुखं “यंसत् यच्छतु । "हविष्मते च “शर्म “यंसत् ॥ ॥ १५ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.२" इत्यस्माद् प्रतिप्राप्तम्