"ऋग्वेदः सूक्तं ७.६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
}}
 
<poem><span style="font-size: 14pt; line-height:200%">
<div class="verse">
<pre>
प्र सम्राजो असुरस्य प्रशस्तिं पुंसः कृष्टीनामनुमाद्यस्य ।
इन्द्रस्येव प्र तवसस्कृतानि वन्दे दारुं वन्दमानो विवक्मि ॥१॥
Line २६ ⟶ २५:
आ समुद्रादवरादा परस्मादाग्निर्ददे दिव आ पृथिव्याः ॥७॥
 
</prespan></poem>
 
</div>
 
 
{{सायणभाष्यम्|
प्र स॒म्राजो॒ असु॑रस्य॒ प्रश॑स्तिं पुं॒सः कृ॑ष्टी॒नाम॑नु॒माद्य॑स्य ।
 
इंद्र॑स्येव॒ प्र त॒वस॑स्कृ॒तानि॒ वंदे॑ दा॒रुं वंद॑मानो विवक्मि ॥१
 
प्र । स॒म्ऽराजः॑ । असु॑रस्य । प्रऽश॑स्तिम् । पुं॒सः । कृ॒ष्टी॒नाम् । अ॒नु॒ऽमाद्य॑स्य ।
 
इन्द्र॑स्यऽइव । प्र । त॒वसः॑ । कृ॒तानि॑ । वन्दे॑ । दा॒रुम् । वन्द॑मानः । वि॒व॒क्मि॒ ॥
 
प्र । सम्ऽराजः । असुरस्य । प्रऽशस्तिम् । पुंसः । कृष्टीनाम् । अनुऽमाद्यस्य ।
 
इन्द्रस्यऽइव । प्र । तवसः । कृतानि । वन्दे । दारुम् । वन्दमानः । विवक्मि ॥
 
 
 
क॒विं के॒तुं धा॒सिं भा॒नुमद्रे॑र्हि॒न्वंति॒ शं रा॒ज्यं रोद॑स्योः ।
 
पु॒रं॒द॒रस्य॑ गी॒र्भिरा वि॑वासे॒ऽग्नेर्व्र॒तानि॑ पू॒र्व्या म॒हानि॑ ॥२
 
क॒विम् । के॒तुम् । धा॒सिम् । भा॒नुम् । अद्रेः॑ । हि॒न्वन्ति॑ । शम् । रा॒ज्यम् । रोद॑स्योः ।
 
पु॒र॒म्ऽद॒रस्य॑ । गीः॒ऽभिः । आ । वि॒वा॒से॒ । अ॒ग्नेः । व्र॒तानि॑ । पू॒र्व्या । म॒हानि॑ ॥
 
कविम् । केतुम् । धासिम् । भानुम् । अद्रेः । हिन्वन्ति । शम् । राज्यम् । रोदस्योः ।
 
पुरम्ऽदरस्य । गीःऽभिः । आ । विवासे । अग्नेः । व्रतानि । पूर्व्या । महानि ॥
 
 
 
न्य॑क्र॒तून्ग्र॒थिनो॑ मृ॒ध्रवा॑चः प॒णीँर॑श्र॒द्धाँ अ॑वृ॒धाँ अ॑य॒ज्ञान् ।
 
प्रप्र॒ तांदस्यूँ॑र॒ग्निर्वि॑वाय॒ पूर्व॑श्चका॒राप॑राँ॒ अय॑ज्यून् ॥३
 
नि । अ॒क्र॒तून् । ग्र॒थिनः॑ । मृ॒ध्रऽवा॑चः । प॒णीन् । अ॒श्र॒द्धान् । अ॒वृ॒धान् । अ॒य॒ज्ञान् ।
 
प्रऽप्र॑ । तान् । दस्यू॑न् । अ॒ग्निः । वि॒वा॒य॒ । पूर्वः॑ । च॒का॒र॒ । अप॑रान् । अय॑ज्यून् ॥
 
नि । अक्रतून् । ग्रथिनः । मृध्रऽवाचः । पणीन् । अश्रद्धान् । अवृधान् । अयज्ञान् ।
 
प्रऽप्र । तान् । दस्यून् । अग्निः । विवाय । पूर्वः । चकार । अपरान् । अयज्यून् ॥
 
 
 
यो अ॑पा॒चीने॒ तम॑सि॒ मदं॑तीः॒ प्राची॑श्च॒कार॒ नृत॑मः॒ शची॑भिः ।
 
तमीशा॑नं॒ वस्वो॑ अ॒ग्निं गृ॑णी॒षेऽना॑नतं द॒मयं॑तं पृत॒न्यून् ॥४
 
यः । अ॒पा॒चीने॑ । तम॑सि । मद॑न्तीः । प्राचीः॑ । च॒कार॑ । नृऽत॑मः । शची॑भिः ।
 
तम् । ईशा॑नम् । वस्वः॑ । अ॒ग्निम् । गृ॒णी॒षे॒ । अना॑नतम् । द॒मय॑न्तम् । पृ॒त॒न्यून् ॥
 
यः । अपाचीने । तमसि । मदन्तीः । प्राचीः । चकार । नृऽतमः । शचीभिः ।
 
तम् । ईशानम् । वस्वः । अग्निम् । गृणीषे । अनानतम् । दमयन्तम् । पृतन्यून् ॥
 
 
 
यो दे॒ह्यो॒३॒॑ अन॑मयद्वध॒स्नैर्यो अ॒र्यप॑त्नीरु॒षस॑श्च॒कार॑ ।
 
स नि॒रुध्या॒ नहु॑षो य॒ह्वो अ॒ग्निर्विश॑श्चक्रे बलि॒हृतः॒ सहो॑भिः ॥५
 
यः । दे॒ह्यः॑ । अन॑मयत् । व॒ध॒ऽस्नैः । यः । अ॒र्यऽप॑त्नीः । उ॒षसः॑ । च॒कार॑ ।
 
सः । नि॒ऽरुध्य॑ । नहु॑षः । य॒ह्वः । अ॒ग्निः । विशः॑ । च॒क्रे॒ । ब॒लि॒ऽहृतः॑ । सहः॑ऽभिः ॥
 
यः । देह्यः । अनमयत् । वधऽस्नैः । यः । अर्यऽपत्नीः । उषसः । चकार ।
 
सः । निऽरुध्य । नहुषः । यह्वः । अग्निः । विशः । चक्रे । बलिऽहृतः । सहःऽभिः ॥
 
 
 
यस्य॒ शर्म॒न्नुप॒ विश्वे॒ जना॑स॒ एवै॑स्त॒स्थुः सु॑म॒तिं भिक्ष॑माणाः ।
 
वै॒श्वा॒न॒रो वर॒मा रोद॑स्यो॒राग्निः स॑साद पि॒त्रोरु॒पस्थं॑ ॥६
 
यस्य॑ । शर्म॑न् । उप॑ । विश्वे॑ । जना॑सः । एवैः॑ । त॒स्थुः । सु॒ऽम॒तिम् । भिक्ष॑माणाः ।
 
वै॒श्वा॒न॒रः । वर॑म् । आ । रोद॑स्योः । आ । अ॒ग्निः । स॒सा॒द॒ । पि॒त्रोः । उ॒पऽस्थ॑म् ॥
 
यस्य । शर्मन् । उप । विश्वे । जनासः । एवैः । तस्थुः । सुऽमतिम् । भिक्षमाणाः ।
 
वैश्वानरः । वरम् । आ । रोदस्योः । आ । अग्निः । ससाद । पित्रोः । उपऽस्थम् ॥
 
 
 
आ दे॒वो द॑दे बु॒ध्न्या॒३॒॑ वसू॑नि वैश्वान॒र उदि॑ता॒ सूर्य॑स्य ।
 
आ स॑मु॒द्रादव॑रा॒दा पर॑स्मा॒दाग्निर्द॑दे दि॒व आ पृ॑थि॒व्याः ॥७
 
आ । दे॒वः । द॒दे॒ । बु॒ध्न्या॑ । वसू॑नि । वै॒श्वा॒न॒रः । उत्ऽइ॑ता । सूर्य॑स्य ।
 
आ । स॒मु॒द्रात् । अव॑रात् । आ । पर॑स्मात् । आ । अ॒ग्निः । द॒दे॒ । दि॒वः । आ । पृ॒थि॒व्याः ॥
 
आ । देवः । ददे । बुध्न्या । वसूनि । वैश्वानरः । उत्ऽइता । सूर्यस्य ।
 
आ । समुद्रात् । अवरात् । आ । परस्मात् । आ । अग्निः । ददे । दिवः । आ । पृथिव्याः ॥
 
 
 
}}
{{ऋग्वेदः मण्डल ७}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.६" इत्यस्माद् प्रतिप्राप्तम्