"ऋग्वेदः सूक्तं ३.२६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
}}
 
<poem><span style="font-size: 14pt; line-height: 200%">
 
 
<div class="verse">
<pre>
वैश्वानरं मनसाग्निं निचाय्या हविष्मन्तो अनुषत्यं स्वर्विदम् ।
सुदानुं देवं रथिरं वसूयवो गीर्भी रण्वं कुशिकासो हवामहे ॥१॥
Line ३२ ⟶ २९:
मेळिं मदन्तं पित्रोरुपस्थे तं रोदसी पिपृतं सत्यवाचम् ॥९॥
 
</prespan></poem>
 
</div>
 
{{सायणभाष्यम्|
वै॒श्वा॒न॒रं मन॑सा॒ग्निं नि॒चाय्या॑ ह॒विष्मं॑तो अनुष॒त्यं स्व॒र्विदं॑ ।
 
सु॒दानुं॑ दे॒वं र॑थि॒रं व॑सू॒यवो॑ गी॒र्भी र॒ण्वं कु॑शि॒कासो॑ हवामहे ॥१
 
वै॒श्वा॒न॒रम् । मन॑सा । अ॒ग्निम् । नि॒ऽचाय्य॑ । ह॒विष्म॑न्तः । अ॒नु॒ऽस॒त्यम् । स्वः॒ऽविद॑म् ।
 
सु॒ऽदानु॑म् । दे॒वम् । र॒थि॒रम् । व॒सु॒ऽयवः॑ । गीः॒ऽभिः । र॒ण्वम् । कु॒शि॒कासः॑ । ह॒वा॒म॒हे॒ ॥
 
वैश्वानरम् । मनसा । अग्निम् । निऽचाय्य । हविष्मन्तः । अनुऽसत्यम् । स्वःऽविदम् ।
 
सुऽदानुम् । देवम् । रथिरम् । वसुऽयवः । गीःऽभिः । रण्वम् । कुशिकासः । हवामहे ॥
 
 
 
तं शु॒भ्रम॒ग्निमव॑से हवामहे वैश्वान॒रं मा॑त॒रिश्वा॑नमु॒क्थ्यं॑ ।
 
बृह॒स्पतिं॒ मनु॑षो दे॒वता॑तये॒ विप्रं॒ श्रोता॑र॒मति॑थिं रघु॒ष्यदं॑ ॥२
 
तम् । शु॒भ्रम् । अ॒ग्निम् । अव॑से । ह॒वा॒म॒हे॒ । वै॒श्वा॒न॒रम् । मा॒त॒रिश्वा॑नम् । उ॒क्थ्य॑म् ।
 
बृह॒स्पति॑म् । मनु॑षः । दे॒वऽता॑तये । विप्र॑म् । श्रोता॑रम् । अति॑थिम् । र॒घु॒ऽस्यद॑म् ॥
 
तम् । शुभ्रम् । अग्निम् । अवसे । हवामहे । वैश्वानरम् । मातरिश्वानम् । उक्थ्यम् ।
 
बृहस्पतिम् । मनुषः । देवऽतातये । विप्रम् । श्रोतारम् । अतिथिम् । रघुऽस्यदम् ॥
 
 
 
अश्वो॒ न क्रंदं॒जनि॑भिः॒ समि॑ध्यते वैश्वान॒रः कु॑शि॒केभि॑र्यु॒गेयु॑गे ।
 
स नो॑ अ॒ग्निः सु॒वीर्यं॒ स्वश्व्यं॒ दधा॑तु॒ रत्न॑म॒मृते॑षु॒ जागृ॑विः ॥३
 
अश्वः॑ । न । क्रन्द॑न् । जनि॑ऽभिः । सम् । इ॒ध्य॒ते॒ । वै॒श्वा॒न॒रः । कु॒शि॒केभिः॑ । यु॒गेऽयु॑गे ।
 
सः । नः॒ । अ॒ग्निः । सु॒ऽवीर्य॑म् । सु॒ऽअश्व्य॑म् । दधा॑तु । रत्न॑म् । अ॒मृते॑षु । जागृ॑विः ॥
 
अश्वः । न । क्रन्दन् । जनिऽभिः । सम् । इध्यते । वैश्वानरः । कुशिकेभिः । युगेऽयुगे ।
 
सः । नः । अग्निः । सुऽवीर्यम् । सुऽअश्व्यम् । दधातु । रत्नम् । अमृतेषु । जागृविः ॥
 
 
 
प्र यं॑तु॒ वाजा॒स्तवि॑षीभिर॒ग्नयः॑ शु॒भे सम्मि॑श्लाः॒ पृष॑तीरयुक्षत ।
 
बृ॒ह॒दुक्षो॑ म॒रुतो॑ वि॒श्ववे॑दसः॒ प्र वे॑पयंति॒ पर्व॑ताँ॒ अदा॑भ्याः ॥४
 
प्र । य॒न्तु॒ । वाजाः॑ । तवि॑षीभिः । अ॒ग्नयः॑ । शु॒भे । सम्ऽमि॑श्लाः । पृष॑तीः । अ॒यु॒क्ष॒त॒ ।
 
बृ॒ह॒त्ऽउक्षः॑ । म॒रुतः॑ । वि॒श्वऽवे॑दसः । प्र । वे॒प॒य॒न्ति॒ । पर्व॑तान् । अदा॑भ्याः ॥
 
प्र । यन्तु । वाजाः । तविषीभिः । अग्नयः । शुभे । सम्ऽमिश्लाः । पृषतीः । अयुक्षत ।
 
बृहत्ऽउक्षः । मरुतः । विश्वऽवेदसः । प्र । वेपयन्ति । पर्वतान् । अदाभ्याः ॥
 
 
 
अ॒ग्नि॒श्रियो॑ म॒रुतो॑ वि॒श्वकृ॑ष्टय॒ आ त्वे॒षमु॒ग्रमव॑ ईमहे व॒यं ।
 
ते स्वा॒निनो॑ रु॒द्रिया॑ व॒र्षनि॑र्णिजः सिं॒हा न हे॒षक्र॑तवः सु॒दान॑वः ॥५
 
अ॒ग्नि॒ऽश्रियः॑ । म॒रुतः॑ । वि॒श्वऽकृ॑ष्टयः । आ । त्वे॒षम् । उ॒ग्रम् । अवः॑ । ई॒म॒हे॒ । व॒यम् ।
 
ते । स्वा॒निनः॑ । रु॒द्रियाः॑ । व॒र्षऽनि॑र्निजः । सिं॒हाः । न । हे॒षऽक्र॑तवः । सु॒ऽदान॑वः ॥
 
अग्निऽश्रियः । मरुतः । विश्वऽकृष्टयः । आ । त्वेषम् । उग्रम् । अवः । ईमहे । वयम् ।
 
ते । स्वानिनः । रुद्रियाः । वर्षऽनिर्निजः । सिंहाः । न । हेषऽक्रतवः । सुऽदानवः ॥
 
 
 
व्रातं॑व्रातं ग॒णंग॑णं सुश॒स्तिभि॑र॒ग्नेर्भामं॑ म॒रुता॒मोज॑ ईमहे ।
 
पृष॑दश्वासो अनव॒भ्ररा॑धसो॒ गंता॑रो य॒ज्ञं वि॒दथे॑षु॒ धीराः॑ ॥६
 
व्रात॑म्ऽव्रातम् । ग॒णम्ऽग॑णम् । सु॒श॒स्तिऽभिः॑ । अ॒ग्नेः । भाम॑म् । म॒रुता॑म् । ओजः॑ । ई॒म॒हे॒ ।
 
पृष॑त्ऽअश्वासः । अ॒न॒व॒भ्रऽरा॑धसः । गन्ता॑रः । य॒ज्ञम् । वि॒दथे॑षु । धीराः॑ ॥
 
व्रातम्ऽव्रातम् । गणम्ऽगणम् । सुशस्तिऽभिः । अग्नेः । भामम् । मरुताम् । ओजः । ईमहे ।
 
पृषत्ऽअश्वासः । अनवभ्रऽराधसः । गन्तारः । यज्ञम् । विदथेषु । धीराः ॥
 
 
 
अ॒ग्निर॑स्मि॒ जन्म॑ना जा॒तवे॑दा घृ॒तं मे॒ चक्षु॑र॒मृतं॑ म आ॒सन् ।
 
अ॒र्कस्त्रि॒धातू॒ रज॑सो वि॒मानोऽज॑स्रो घ॒र्मो ह॒विर॑स्मि॒ नाम॑ ॥७
 
अ॒ग्निः । अ॒स्मि॒ । जन्म॑ना । जा॒तऽवे॑दाः । घृ॒तम् । मे॒ । चक्षुः॑ । अ॒मृत॑म् । मे॒ । आ॒सन् ।
 
अ॒र्कः । त्रि॒ऽधातुः॑ । रज॑सः । वि॒ऽमानः॑ । अज॑स्रः । घ॒र्मः । ह॒विः । अ॒स्मि॒ । नाम॑ ॥
 
अग्निः । अस्मि । जन्मना । जातऽवेदाः । घृतम् । मे । चक्षुः । अमृतम् । मे । आसन् ।
 
अर्कः । त्रिऽधातुः । रजसः । विऽमानः । अजस्रः । घर्मः । हविः । अस्मि । नाम ॥
 
 
 
त्रि॒भिः प॒वित्रै॒रपु॑पो॒द्ध्य१॒॑र्कं हृ॒दा म॒तिं ज्योति॒रनु॑ प्रजा॒नन् ।
 
वर्षि॑ष्ठं॒ रत्न॑मकृत स्व॒धाभि॒रादिद्द्यावा॑पृथि॒वी पर्य॑पश्यत् ॥८
 
त्रि॒ऽभिः । प॒वित्रैः॑ । अपु॑पोत् । हि । अ॒र्कम् । हृ॒दा । म॒तिम् । ज्योतिः॑ । अनु॑ । प्र॒ऽजा॒नन् ।
 
वर्षि॑ष्ठम् । रत्न॑म् । अ॒कृ॒त॒ । स्व॒धाभिः॑ । आत् । इत् । द्यावा॑पृथि॒वी इति॑ । परि॑ । अ॒प॒श्य॒त् ॥
 
त्रिऽभिः । पवित्रैः । अपुपोत् । हि । अर्कम् । हृदा । मतिम् । ज्योतिः । अनु । प्रऽजानन् ।
 
वर्षिष्ठम् । रत्नम् । अकृत । स्वधाभिः । आत् । इत् । द्यावापृथिवी इति । परि । अपश्यत् ॥
 
 
 
श॒तधा॑र॒मुत्स॒मक्षी॑यमाणं विप॒श्चितं॑ पि॒तरं॒ वक्त्वा॑नां ।
 
मे॒ळिं मदं॑तं पि॒त्रोरु॒पस्थे॒ तं रो॑दसी पिपृतं सत्य॒वाचं॑ ॥९
 
श॒तऽधा॑रम् । उत्स॑म् । अक्षी॑यमाणम् । वि॒पः॒ऽचित॑म् । पि॒तर॑म् । वक्त्वा॑नाम् ।
 
मे॒ळिम् । मद॑न्तम् । पि॒त्रोः । उ॒पऽस्थे॑ । तम् । रो॒द॒सी॒ इति॑ । पि॒पृ॒त॒म् । स॒त्य॒ऽवाच॑म् ॥
 
शतऽधारम् । उत्सम् । अक्षीयमाणम् । विपःऽचितम् । पितरम् । वक्त्वानाम् ।
 
मेळिम् । मदन्तम् । पित्रोः । उपऽस्थे । तम् । रोदसी इति । पिपृतम् । सत्यऽवाचम् ॥
 
 
 
}}
{{ऋग्वेदः मण्डल ३}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.२६" इत्यस्माद् प्रतिप्राप्तम्