"ऋग्वेदः सूक्तं ४.५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४१:
रुशद्वसानः सुदृशीकरूपः क्षितिर्न राया पुरुवारो अद्यौत् ॥१५॥
</span></poem>
 
 
 
{{सायणभाष्यम्|
॥ श्रीगणेशाय नमः ॥
 
इत्थं तृतीयाष्टकगश्चतुर्थोऽध्याय आदरात् ।
 
व्याख्यातः सायणायेंण पञ्चमो व्याकरिष्यते ॥
 
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
 
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
 
चतुर्थे मण्डले प्रथमेऽनुवाके दश सूक्तानि ।' वैश्वानराय ' इति पञ्चदशर्चं पञ्चमं सूक्तं वामदेवस्यार्षं त्रैष्टुभं वैश्वानराग्निदेवताकम् । अत्रानुक्रमणिका- वैश्वानराय वैश्वानरीयम्' इति । विनियोगो लैङ्गिकः ॥
 
 
वै॒श्वा॒न॒राय॑ मी॒ळ्हुषे॑ स॒जोषाः॑ क॒था दा॑शेमा॒ग्नये॑ बृ॒हद्भाः ।
Line ५६ ⟶ ७०:
अनूनेन । बृहता । वक्षथेन । उप । स्तभायत् । उपऽमित् । न । रोधः ॥
 
"सजोषाः सजोषसः समानप्रीतियुक्ता वयमृत्विग्यजमानाः "वैश्वानराय विश्वनरसंबन्धिने एतन्नामकाय "मीळ्हुषे अभिमतवृष्ट्यादिसेक्त्रे "बृहत् बृहते महते “भाः भासमानाय “अग्नये देवाय “कथा कथं केन प्रकारेण दाशेम दद्याम । सामर्थ्यात् हविरिति गम्यते । अथवा बृहद्भा इत्युत्तरत्र योज्यम् । कथा दाशेमेत्युक्तम् । किं तत्र आधिक्यमिति तदुच्यते । योऽग्निर्बृहन्महान् भा भासमानश्च सन् "अनूनेन अविकलेन संपूर्णेन अत एव "बृहता प्रभूतेन “वक्षथेन वोढव्येन स्वशरीरेण “उप "स्तभायत् उप स्तभ्नाति । सामर्थ्यात् द्यामिति शेषः । द्युलोकं व्याप्नोतीत्यर्थः। तत्र दृष्टान्तः। “उपमिन्न “रोधः । उप समीपे मीयते क्षिप्यते इत्युपमित् स्थूणा । सा यथा तृणाच्छादनादिनिरोधकं वंशादिकमुपस्तभ्नाति तद्वत् । यद्वा । वक्षथेनोक्थलक्षणेन फलादिवाहकेन स्तोत्रेण सह द्युलोकमुपस्तभायत् ॥ स्तभायत् । स्तम्भुः सौत्रो धातुः । लङि ‘ छन्दसि शायजपि ' इति व्यत्ययेन अहावपि शायजादेशः । ‘ बहुलं छन्दसि ' इत्यडभावः ॥ किमिव । उपमिन्न रोधः । उप समीपे मीयते इत्युपमिदुदकम् । कूलमिव ॥
 
 
Line ७० ⟶ ८५:
पाकाय । गृत्सः । अमृतः । विऽचेताः । वैश्वानरः । नृऽतमः । यह्वः । अग्निः ॥
 
हे होत्रादयः अमुं वैश्वानरमग्निं "मा "निन्दत निन्दां मा कुरुत । स्तुतेत्यर्थः । "यः "देवः दीप्यमानोऽग्निः "स्वधावान् अस्मद्दत्तेन हविर्लक्षणेनान्नेन तद्वान् सन् “मर्त्याय मरणधर्माय “पाकाय परिपक्वप्रज्ञाय "मह्यं यजमानाय “इमाम् इदानीं दीयमानप्रकारां "रातिं धनं "ददौ दत्तवान् । स विशेष्यते । “गृत्सः मेधावी । मेधाविनामैतत् । "अमृतः अमरणस्वभावः "विचेताः विशिष्टप्रज्ञः "वैश्वानरः विश्वैर्नरैः अहवनीयादिरूपेण नीयमानः “नृतमः नेतृतमः फलादीनां "यह्वः महान् । महन्नामैतत् । “अग्निः अङ्गनादिगुणविशिष्टः। तादृशमग्निं स्तुतेति भावः ॥
 
 
Line ८४ ⟶ १००:
पदम् । न । गोः । अपऽगूळ्हम् । विविद्वान् । अग्निः । मह्यम् । प्र । इत् । ऊं इति । वोचत् । मनीषाम् ॥
 
“द्विबर्हाः द्वयोर्मध्यमोत्तमयोः स्थानयोः परिवृढः “तिग्मभृष्टिः तीक्ष्णतेजाः "सहस्ररेताः बहुविधहिरण्यरेतस्कः । रेतःशब्दः सारवाची । प्रभूतसारो वा । "वृषभः वर्षिता कामानां "तुविष्मान् बहुधन:। ईदृशोऽयम् "अग्निः अत्यन्तगोपितं “गोः "पदं "न नष्टाया गोः पदमिव "अपगूळ्हम् अत्यन्तरहस्यम् । मनीषाशब्दो ज्ञानवाची सन् अत्र ज्ञातव्ये वर्तते । "मनीषां ज्ञातव्यं "महि महत् पूज्यं "साम अस्मदभिमतं स्तोत्रं "विविद्वान् विशेषेण जानन "मह्यं "प्रेदु "वोचत् प्रैव ब्रवीतु ॥
 
 
Line ९८ ⟶ ११५:
प्र । ये । मिनन्ति । वरुणस्य । धाम । प्रिया । मित्रस्य । चेततः । ध्रुवाणि ॥
 
“यः "अग्निः "सुराधाः शोभनधनः सः “तिग्मजम्भः तीक्ष्णदंष्ट्रः सन् "तपिष्ठेन "शोचिषा अतिशयेन शत्रूणां तापकेन तेजसा “तान् वक्ष्यमाणान् द्वेष्टॄन् “प्र “बभसत प्रकर्षेण भर्त्सयतु । दहतु इत्यर्थः ॥ ‘भस भर्त्सनदीप्त्योः '। लेटि ‘ इतश्च लोपः' इतीकारलोपः। ‘लेटोऽडाटौ ' इत्यडागमः ॥ तानित्युक्तं कानित्याह। ये द्वेष्टारः “चेततः जानतः । एतदुभयविशेषणम् । “मित्रस्य “वरुणस्य च “प्रिया प्रियाणि “ध्रुवाणि स्थिराणि “धाम धामानि तेजःस्थानानि कर्माणि वा “प्र “मिनन्ति प्रकर्षेण हिंसन्ति ॥ ‘ मीञ् हिंसायाम्' । “ मीनातेर्निगमे ' इति ह्रस्वत्वम् । विकरणस्वरः ॥
 
 
Line ११२ ⟶ १३०:
पापासः । सन्तः । अनृताः । असत्याः । इदम् । पदम् । अजनत । गभीरम् ॥
 
"अभ्रातरः भ्रात्रादिबन्धुरहिताः "योषणः “न गतभर्तृका योषित इव ॥ ‘ वा षपूर्वस्य निगमे इति विकल्पनात् दीर्घाभावः ॥ ता यथा भर्तृगृहात् पितृगृहं प्रत्यायन्ति तद्वत् “व्यन्तः गच्छन्तः । यज्ञादीनपहाय अमागें वर्तमाना इत्यर्थः । तथा “पतिरिपो "न "जनयः पतिद्वेषिण्यः स्त्रिय इव “दुरेवाः दुष्टगतयो दुराचारा अत एव "पापासः पापाः "सन्तः "अनृताः मानससत्यरहिताः "असत्याः वाचिकसत्यरहिता मनसा वाचाग्निमभजमानाः “इदं पापिभिरनुभूयमानतया प्रसिद्धं "गभीरम् अगाधं "पदं नरकस्थानम् "अजनत अजनयन्त उत्पादयन्ति ॥ लङि जनेरन्तर्भावितण्यर्थात् व्यत्ययेनैकवचनम् ॥ ॥ १ ॥
 
 
Line १२६ ⟶ १४५:
बृहत् । दधाथ । धृषता । गभीरम् । यह्वम् । पृष्ठम् । प्रयसा । सप्तऽधातु ॥
 
हे "पावक शोधक “अग्ने "कियते अत्यल्पाय “गुरुं "भारं "न वोढुमशक्यं भारमिव । तं यथा धर्तुमसहमानः पातयति तद्वत् । त्वदीयं कर्म “अमिनते अहिंसतेऽत्यजते "मे मह्यम् "इदं दातव्यत्वेन प्रसिद्धं "बृहत् प्रभूतं "मन्म मननीयं धनं "दधाथ देहि । तदेव विशेष्यते । "धृषता शत्रूणां धर्षकेण “प्रयसा। अन्ननामैतत् । अन्नेन युक्तं "गभीरम् अन्यैरनवगाह्यं "यह्वं महत् "पृष्ठं स्प्रष्टुं योग्यं "सप्तधातु ग्राम्यारण्यभेदेन सप्तप्रकारम् । सप्त ग्राम्याः पशवः सप्तारण्याः ' (तै. सं. ७.२.२. १) इति श्रुतेः । ईदृग्धनं देहीत्यर्थः । गुरुं भारं न अन्यदीयं भारं यथान्यस्मै ददाति तद्वदस्माकं दातव्यं धनं देहीति वा योज्यम् ॥
 
 
Line १४० ⟶ १६०:
ससस्य । चर्मन् । अधि । चारु । पृश्नेः । अग्ने । रुपः । अरुपितम् । जबारु ॥
 
‘अग्निविद्युदादित्यास्त्रयोऽपि मतभेदेन वैश्वानरशब्दाभिधेयाः ' ( निरु. ७. २३ ) इति यास्केनोक्तत्वादत्र आदित्यात्मना वैश्वानरः स्तूयते । “तमित् तमेव वैश्वानरं द्युस्थानं "समानं सर्वेषामेकरूपं "समना सदृशी तद्योग्या "पुनती अस्मान् शोधयित्री “धीतिः मतिः अस्मदीया स्तुतिः “क्रत्वा तदुचितेन कर्मणा “न्वेव क्षिप्रमेव "अश्याः अभिप्राप्नुयात् । भजेदित्यर्थः ॥ अश्नोतेर्लिङि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । व्यत्ययेन परस्मैपदं मध्यमपुरुषत्वं च । पूर्वत्र तच्छब्दश्रुतेः यच्छब्दोऽध्याहार्यः ॥ यस्य द्युस्थानस्य वैश्वानरस्य "जबारु जवमानरोहि जरमाणरोहि वा “चारु दीप्तं मण्डलम् । ‘ जबारु जरमाणरोहीति वा जवमानरोहीति वा ' ( निरु. ६. १७ ) इति यास्कः । “अग्रे पुरस्तात् पूर्वस्यां दिशि "रुपः । आरोपयति स्वात्मनि सस्यादीनि इति रुबिति भूमिरुच्यते । तस्याः सकाशात् "ससस्य। लुप्तोपममेतत्। स्वपत इव निश्चलस्य "पृश्नेः। द्युनामैतत् । ‘स्वः पृश्निः' ( नि. १. ४. २ ) इति द्युलोकादित्ययोः साधारणनामसु पाठात् । ज्योतिरादिभिः स्पृश्यमानस्य द्युलोकस्य "अधि उपरि “चर्मन चर्मणे चरणाय ॥ चरेरौणादिको मनिन् । 'सुपां सुलुक्' इति चतुर्थ्या लुक् ॥ “आरुपितम् आरोपितं देवैः । तमश्या इति पूर्वत्रान्वयः ॥
 
 
Line १५४ ⟶ १७५:
यत् । उस्रियाणाम् । अप । वाःऽइव । व्रन् । पाति । प्रियम् । रुपः । अग्रम् । पदम् । वेरिति वेः ॥
 
“मे मदीयस्य "अस्य वक्ष्यमाणस्य “वचसः वाक्यस्य "किं "प्रवाच्यम् अस्ति । तथ्यमेवोच्यत इत्यर्थः । किं तद्वच इत्युच्यते । उस्रियाणाम् । गोनामैतत् । क्षीराद्युत्स्राविणीनां गवां संबन्धि "यत् क्षीरं "वारिव उदकमिव तद्यथा सेकेनाविष्कुर्वन्ति तथा “अप “व्रन् अपवृण्वन्ति दोग्धारः । “निणिक् । नितरां नेनेक्ति शोधयतीति निणिक् क्षीरमुच्यते । तादृक् क्षीरमनेन वैश्वानरेण "गुहा गुहायाम् “उप “हितम् उपनिहितं "वदन्ति वेत्तारः । किंचायं “वेः व्याप्तायाः "रुपः भूम्याः "प्रियं सर्वेषाम् आधारत्वेन प्रियभूतम् "अग्रं श्रेष्ठं "पदं स्थानं "पाति रक्षति ॥
 
 
Line १६८ ⟶ १९०:
ऋतस्य । पदे । अधि । दीद्यानम् । गुहा । रघुऽस्यत् । रघुऽयत् । विवेद ॥
 
“इदमु इदमेव “श्यत् प्रसिद्धं "महि महत् पूज्यं "महां महतां देवानाम् "अनीकं समूहरूपं सूर्यमण्डलं वैश्वानर एवेति शेषः । "पूर्व्यं पूर्वकालीनं पूरकं वा "यत् मण्डलम् "उस्रिया क्षीराद्युत्स्राविणी “गौः अग्निहोत्राद्यर्थं "सचत सेवते । “ऋतस्य उदकस्य "पदे स्थानेऽन्तरिक्षे “अधि अधिकम् । यद्वा अधीति सप्तम्यर्थानुवादः । “दीद्यानं द्योतमानं "गुहा गुहायां रघुष्यत् शीघ्रं स्यन्दमानं “रघुयत् शीघ्रं गच्छत् सूर्यमण्डलं "विवेद वैश्वानरमेवेति ज्ञातवानस्मि ॥
 
 
Line १८२ ⟶ २०५:
मातुः । पदे । परमे । अन्ति । सत् । गोः । वृष्णः । शोचिषः । प्रऽयतस्य । जिह्वा ॥
 
“अध अथ “द्युतानः दीप्यमानः "पित्रोः द्यावापृथिव्योः "सचा सह मध्ये व्याप्तः सन् “पृश्नेः गोः संबन्धि "चारु रमणीयं "गुह्यम् ऊधसि निगूढं पयः "आसा स्वकीयेनास्येन "अमनुत पानाय अबुध्यत । उक्तमेवार्थ विवृणोति । “मातुः क्षीरादिनिर्मात्र्याः "गोः "परमे "पदे उत्कृष्टे स्थाने ऊधोलक्षणे "अन्ति "सत् समीपे विद्यमानं क्षीरं "वृष्णः फलानां वर्षितुः “शोचिषः दीप्तस्य "प्रयतस्य आहवनीयादिरूपेण नियतस्य वैश्वानरस्य "जिह्वा पातुमिच्छतीति शेषः ॥ ॥ २ ॥
 
 
Line १९६ ⟶ २२०:
त्वम् । अस्य । क्षयसि । यत् । ह । विश्वम् । दिवि । यत् । ऊं इति । द्रविणम् । यत् । पृथिव्याम् ॥
 
अहं यजमानः "नमसा नमस्कारेण सह “पृच्छयमानः अन्यैरनुयुज्यमानः सन् “ऋतं "वोचे सत्यं ब्रवीमि । किं तदित्युच्यते । हे “जातवेदः जातानां वेदितर्जातप्रज्ञ वा अग्ने "तवाशसा त्वत्स्तुत्या साधनेन "यदीदं धनं लब्धमस्माभिः स्यात् "अस्य धनस्य “त्वं “क्षयसि त्वमेवेश्वरो भवसि । तस्य धनस्य यज्ञादिद्वारा अग्न्यर्थत्वादिति भावः । अत्यल्पमिदमुक्तम् । "यद्ध "विश्वं यत्खलु कृत्स्नं धनमस्ति तस्यापीशिषे। विश्वमिति सामान्येन यदुक्तं तदेव विशदयति । "दिवि द्युलोके "यदु "द्रविणं यदेव धनं "यत् च "पृथिव्यां धनं तस्य सर्वस्य त्वमीश्वरो भवसि । “यज्ञार्थं द्रव्यमुत्पन्नम्' इति स्मरणात् । अग्निव्यतिरेकेण यज्ञासंभवादिति भावः ॥
 
 
Line २१० ⟶ २३५:
गुहा । अध्वनः । परमम् । यत् । नः । अस्य । रेकु । पदम् । न । निदानाः । अगन्म ॥
 
पूर्वमन्त्रेण यस्य धनस्य अग्निस्वामित्वमुक्तम् "अस्य धनस्य “किं "द्रविणं किं साधनभूतं “नः अस्मभ्यं दातव्यं धनमस्ति । "कद्ध "रत्नं किं च रमणीयं हितकरं धनमस्ति । तद्धनं हे जातवेदः जातधनाग्ने "चिकित्वान् चेतनावानभिज्ञस्त्वं "नः अस्मभ्यं “वि “वोचः विब्रूहि । यद्वा । किं दातव्यं द्रविणमस्ति । अस्य द्रविणराशेः कद्ध रत्नमिति वा योज्यम् । "अस्य “अध्वनः धनप्राप्तिमार्गस्य "यत् "गुहा "गुहायां निहितं गूढं "परमम् उत्कृष्टं प्राप्तव्यमस्ति तदपि "नः अस्मभ्यं विवोचः । वयं "रेकु रिक्तं "पदं गन्तव्यं स्थानं गृहादिकं "निदानाः अन्यैर्निन्द्यमानाः॥ कर्मणि कर्तृप्रत्ययः॥ “न "अगन्म न प्राप्नुमः ॥ का मर्यादा वयुना कई वाममच्छा गमेम रघवो न वाजम् ।।
 
 
Line २२४ ⟶ २५०:
कदा । नः । देवीः । अमृतस्य । पत्नीः । सूरः । वर्णेन । ततनन् । उषसः ॥
 
“का "मर्यादा का प्रीत्यादिव्यवस्था का च "वयुना प्रज्ञानं पदार्थविषयं "कद्ध किं च "वामं वननीयं पदार्थजातम् । एतत्सर्वम् "अच्छ “गमेम अभिगच्छेम । तत्र दृष्टान्तः । "रघवो “न “वाजम् । शीघ्रगामिनोऽश्वादयः संग्राममिव । तद्वत्। "कदा कस्मिन् काले “नः अस्माकं व्यवहाराय "देवीः देव्यो द्योतमानाः "अमृतस्य अमरणधर्मस्यादित्यस्य “पत्नीः पत्न्यः पालयित्र्यः "सूरः प्रसवित्र्यः "उषासः उषसः “वर्णेन प्रकाशेन “ततनन् विस्तारयेयुः । एवं सूर्यसंबन्धिन उषसः स्तुत्या सर्वात्मनो वैश्वानरस्य स्तुतिरवगन्तव्या ॥ ततनन् । तनोतेर्लेटि ‘ बहुलं छन्दसि ' इति विकरणस्य श्लुः । द्विर्भावहलादिशेषौ ॥
 
 
Line २३८ ⟶ २६५:
अध । ते । अग्ने । किम् । इह । वदन्ति । अनायुधासः । असता । सचन्ताम् ॥
 
“अनिरेण । इरा अन्नं तद्रहितेन । "फल्ग्वेन तुच्छेन’ “प्रतीत्येन प्रतिगन्तव्येन । आरोह्येणेत्यर्थः। “कृधुना ह्रस्वेन । कृध्विति ह्रस्वनाम ‘ कृधुको वम्रकः ' (नि. २. २. ६ ) इति तन्नामसूक्तत्वात् । एवंविधेन “वचसा “अतृपासः अतृप्ता जनाः "अध अधुना “इह अस्मिन् लोके हे "अग्ने "ते त्वां “किं "वदन्ति । निर्हविष्केण वचसा न किंचिल्लभ्यत इत्यर्थः । किंतु "अनायुधासः । आयुधशब्दः साधनं लक्षयति । हविरादिसाधनरहितास्ते "असता दुःखेन "सचन्तां संगच्छन्ताम् ॥
 
 
Line २५२ ⟶ २८०:
रुशत् । वसानः । सुदृशीकऽरूपः । क्षितिः । न । राया । पुरुऽवारः । अद्यौत् ॥
 
“समिधानस्य समिध्यमानस्य ॥ कर्मणि कर्तृप्रत्ययः ॥ “वृष्णः वर्षितुः फलस्य "वसोः वासयितुः "अस्य अग्नेः "अनीकं तेजःसंघः “दमे यागगृहे "आ “रुरोच सर्वतो दीप्यते । किमर्थम् । “श्रिये श्रेयसे यजमानानाम् । सोऽग्निः “रुशत् । वर्णनामैतत् । दीप्तं तेजः “वसानः आच्छादयन् अत एव "सुदृशीकरूपः सुष्ठु दर्शनीयरूपः "पुरुवारः बहुभिः ऋत्विग्भिर्यजमानैः वरणीयः सन् "अद्यौत् द्योतते । किमिव । "राया अश्वादिधनेन “क्षितिर्न राजादिरिव । क्षितिरिति मनुष्यनाम ॥ ॥ ३ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.५" इत्यस्माद् प्रतिप्राप्तम्