"तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः ३/प्रपाठकः ०३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १२३:
अग्निमुखा ह्यृद्धिः । अग्निमुखामेवर्द्धिं यजमान ऋध्नोति । सकृदुपस्तीर्य द्विरादधत् । उपस्तीर्य द्विरभिघारयति । षट्संपद्यन्ते । षड्वा ऋतवः । ऋतूनेव प्रीणाति । वेदेन ब्रह्मणे ब्रह्मभागं परिहरति । प्राजापत्यो वै वेदः । प्राजापत्यो ब्रह्मा ५७
 
सविता यज्ञस्य प्रसृत्यैप्रसृूत्यै । अथ काममन्येन । ततो होत्रे । मध्यं वा एतद्यज्ञस्य । यद्धोता । मध्यत एव यज्ञं प्रीणाति । अथाध्वर्यवे । प्रतिष्ठा वा एषा यज्ञस्य । यदध्वर्युः । तस्माद्धविर्यज्ञस्यैतामेवावृतमनु ५८
 
अन्या दक्षिणा नीयन्ते । यज्ञस्य प्रतिष्ठित्यै । अग्निमग्नीत्सकृत्सकृत्संमृड्ढीत्याह । पराङिव ह्येतर्हि यज्ञः । इषिता दैव्या होतार इत्याह । इषितँ हि कर्म क्रियते । भद्र वाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहीत्याह । आशिषमेवैतामाशास्ते । स्वगा दैव्या होतृभ्य इत्याह । यज्ञमेव तत्स्वगा करोति । स्वस्तिर्मानुषेभ्य इत्याह । आशिषमेवैतामाशास्ते । शंयोर्ब्रूहीत्याह । शंयुमेव बार्हस्पत्यं भागधेयेन समर्धयति ५९