"ऋग्वेदः सूक्तं ३.१३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०:
}}
 
<poem><span style="font-size: 14pt; line-height:200%">
<poem>{|
|
प्र वो देवायाग्नये बर्हिष्ठमर्चास्मै ।
गमद्देवेभिरा स नो यजिष्ठो बर्हिरा सदत् ॥१॥
Line २६ ⟶ २५:
नू नो रास्व सहस्रवत्तोकवत्पुष्टिमद्वसु ।
द्युमदग्ने सुवीर्यं वर्षिष्ठमनुपक्षितम् ॥७॥
</span></poem>
|
 
 
{{सायणभाष्यम्|
द्वितीयेऽनुवाके सप्तदश सूक्तानि । तत्र ' प्र वो देवाय ' इति सप्तर्चं प्रथमं सूक्तं वैश्वामित्र-ऋषभस्यार्षमग्निदेवताकमानुष्टुभम् । तथा चानुक्रातं - प्र वः सप्त ऋषभस्त्वानुष्टुभम् ' इति । विश्वामित्रपुत्र ऋषभ ऋषिः । मण्डलादिपरिभाषयाग्निर्देवता । अग्निष्टोमे इदं सूक्तमाज्यशस्त्रम् । ' पराङध्वर्यावावृत्ते ' इति खण्डे सूत्रितम्-' प्र वो देवायेत्याज्यमुपसंतनुयात् ' (आश्व. श्रौ. ५.९) इति । इदमेव सूक्तं प्रातरनुवाक आश्विनशस्त्रे च विनियुक्तम् । सूत्रं च-' प्र वो देवायाग्ने कदा त इति पञ्च ' ( आश्व. श्रौ. ४. १३) इति । अभ्युदयेष्टौ ' स यन्ता ' इत्यग्नेः प्रदातुः याज्या । सूत्रितं च-'स यन्ता विप्र एषां दीर्घस्ते अस्त्वंकुशः ' ( आश्व. श्रौ. ३.१३) इति । ।
 
 
प्र वो॑ दे॒वाया॒ग्नये॒ बर्हि॑ष्ठमर्चास्मै ।
 
गम॑द्दे॒वेभि॒रा स नो॒ यजि॑ष्ठो ब॒र्हिरा स॑दत् ॥
गम॑द्दे॒वेभि॒रा स नो॒ यजि॑ष्ठो ब॒र्हिरा स॑दत् ॥१
 
प्र । वः॒ । दे॒वाय॑ । अ॒ग्नये॑ । बर्हि॑ष्ठम् । अ॒र्च॒ । अ॒स्मै॒ ।
 
गम॑त् । दे॒वेभिः॑ । आ । सः । नः॒ । यजि॑ष्ठः । ब॒र्हिः । आ । स॒द॒त् ॥
 
प्र । वः । देवाय । अग्नये । बर्हिष्ठम् । अर्च । अस्मै ।
 
गमत् । देवेभिः । आ । सः । नः । यजिष्ठः । बर्हिः । आ । सदत् ॥
 
यजमानो होत्रादीन्प्रति ब्रूते । हे होत्रादयः वः युष्मत्संबन्धिने देवाय द्योतमानाय अस्मै अस्मिन्कर्मणि स्तुत्याय अग्नये बर्हिष्ठं वृद्धतमं प्रभूतमिदं स्तुतिरूपं स्तोत्रशस्त्रादि वोक्थ्यजातं प्र अर्च उच्चारयत । एवं स्तुतः सः अग्निः देवेभिः यष्टव्यदेवैः सहितः सन् नः अस्मान्प्रति आ गमत् आगच्छतु । आगत्य च यजिष्ठः यष्टृतमः सोऽग्निः बर्हिः अस्माभिर्वेद्यां स्तीर्णे बर्हिषि आ सदत् आसीदतु उपविशतु ।। बर्हिष्ठम् । बर्हितृशब्दात् ' तुश्छन्दसि ' इत्यतिशायने इष्ठन् । अर्च । ' अर्च पूजायाम् ' । भौवादिकः । बहुवचनस्यैकवचनम् । निघातः । गमत् । ' गम्ल गतौ ' । अस्य छन्दसि लुङ्लङ्लिटः ' इति लोडर्थे लुङ् । लृदित्वात् च्लेरङ् । ' नित्यं ङितः ' इतीकारलोपः । पादादित्वान्न निघातः । यजिष्ठः । बहुशब्दात् ' तुश्छन्दसि ' इतीष्ठन् । ' तुरिष्ठेमेयःसु ' इति तृचो लोपः । नित्स्वरः । सदत् । पूर्ववल्लोडर्थे लुङ् । ' षद्लृ विशरणगत्यवसादनेषु ' इत्यस्य लृदित्वादङ् । निघातः ।।
 
 
ऋ॒तावा॒ यस्य॒ रोद॑सी॒ दक्षं॒ सच॑न्त ऊ॒तयः॑ ।
 
ह॒विष्म॑न्त॒स्तमी॑ळते॒ तं स॑नि॒ष्यन्तोऽव॑से ॥
ह॒विष्म॑न्त॒स्तमी॑ळते॒ तं स॑नि॒ष्यन्तोऽव॑से ॥२
 
ऋ॒तऽवा॑ । यस्य॑ । रोद॑सी॒ इति॑ । दक्ष॑म् । सच॑न्ते । ऊ॒तयः॑ ।
 
ह॒विष्म॑न्तः । तम् । ई॒ळ॒ते॒ । तम् । स॒नि॒ष्यन्तः॑ । अव॑से ॥
 
ऋतऽवा । यस्य । रोदसी इति । दक्षम् । सचन्ते । ऊतयः ।
 
हविष्मन्तः । तम् । ईळते । तम् । सनिष्यन्तः । अवसे ॥
 
 
स य॒न्ता विप्र॑ एषां॒ स य॒ज्ञाना॒मथा॒ हि षः ।
 
अ॒ग्निं तं वो॑ दुवस्यत॒ दाता॒ यो वनि॑ता म॒घम् ॥
अ॒ग्निं तं वो॑ दुवस्यत॒ दाता॒ यो वनि॑ता म॒घम् ॥३
 
सः । य॒न्ता । विप्रः॑ । ए॒षा॒म् । सः । य॒ज्ञाना॑म् । अथ॑ । हि । सः ।
 
अ॒ग्निम् । तम् । वः॒ । दु॒व॒स्य॒त॒ । दाता॑ । यः । वनि॑ता । म॒घम् ॥
 
सः । यन्ता । विप्रः । एषाम् । सः । यज्ञानाम् । अथ । हि । सः ।
 
अग्निम् । तम् । वः । दुवस्यत । दाता । यः । वनिता । मघम् ॥
 
 
स न॒ः शर्मा॑णि वी॒तये॒ऽग्निर्य॑च्छतु॒ शंत॑मा ।
 
यतो॑ नः प्रु॒ष्णव॒द्वसु॑ दि॒वि क्षि॒तिभ्यो॑ अ॒प्स्वा ॥
यतो॑ नः प्रु॒ष्णव॒द्वसु॑ दि॒वि क्षि॒तिभ्यो॑ अ॒प्स्वा ॥४
 
सः । नः॒ । शर्मा॑णि । वी॒तये॑ । अ॒ग्निः । य॒च्छ॒तु॒ । शम्ऽत॑मा ।
 
यतः॑ । नः॒ । प्रु॒ष्णव॑त् । वसु॑ । दि॒वि । क्षि॒तिऽभ्यः॑ । अ॒प्ऽसु । आ ॥
 
सः । नः । शर्माणि । वीतये । अग्निः । यच्छतु । शम्ऽतमा ।
 
यतः । नः । प्रुष्णवत् । वसु । दिवि । क्षितिऽभ्यः । अप्ऽसु । आ ॥
 
 
दी॒दि॒वांस॒मपू॑र्व्यं॒ वस्वी॑भिरस्य धी॒तिभिः॑ ।
 
ऋक्वा॑णो अ॒ग्निमि॑न्धते॒ होता॑रं वि॒श्पतिं॑ वि॒शाम् ॥
ऋक्वा॑णो अ॒ग्निमि॑न्धते॒ होता॑रं वि॒श्पतिं॑ वि॒शाम् ॥५
 
दी॒दि॒ऽवांस॑म् । अपू॑र्व्यम् । वस्वी॑भिः । अ॒स्य॒ । धी॒तिऽभिः॑ ।
 
ऋक्वा॑णः । अ॒ग्निम् । इ॒न्ध॒ते॒ । होता॑रम् । वि॒श्पति॑म् । वि॒शाम् ॥
 
दीदिऽवांसम् । अपूर्व्यम् । वस्वीभिः । अस्य । धीतिऽभिः ।
 
ऋक्वाणः । अग्निम् । इन्धते । होतारम् । विश्पतिम् । विशाम् ॥
 
 
उ॒त नो॒ ब्रह्म॑न्नविष उ॒क्थेषु॑ देव॒हूत॑मः ।
 
शं नः॑ शोचा म॒रुद्वृ॒धोऽग्ने॑ सहस्र॒सात॑मः ॥
शं नः॑ शोचा म॒रुद्वृ॒धोऽग्ने॑ सहस्र॒सात॑मः ॥६
 
उ॒त । नः॒ । ब्रह्म॑न् । अ॒वि॒षः॒ । उ॒क्थेषु॑ । दे॒व॒ऽहूत॑मः ।
 
शम् । नः॒ । शो॒च॒ । म॒रुत्ऽवृ॑धः । अग्ने॑ । स॒ह॒स्र॒ऽसात॑मः ॥
 
उत । नः । ब्रह्मन् । अविषः । उक्थेषु । देवऽहूतमः ।
 
शम् । नः । शोच । मरुत्ऽवृधः । अग्ने । सहस्रऽसातमः ॥
 
 
नू नो॑ रास्व स॒हस्र॑वत्तो॒कव॑त्पुष्टि॒मद्वसु॑ ।
 
द्यु॒मद॑ग्ने सु॒वीर्यं॒ वर्षि॑ष्ठ॒मनु॑पक्षितम् ॥
द्यु॒मद॑ग्ने सु॒वीर्यं॒ वर्षि॑ष्ठ॒मनु॑पक्षितम् ॥७
|}
 
नु । नः॒ । रा॒स्व॒ । स॒हस्र॑ऽवत् । तो॒कऽव॑त् । पु॒ष्टि॒ऽमत् । वसु॑ ।
 
द्यु॒ऽमत् । अ॒ग्ने॒ । सु॒ऽवीर्य॑म् । वर्षि॑ष्ठम् । अनु॑पऽक्षितम् ॥
 
नु । नः । रास्व । सहस्रऽवत् । तोकऽवत् । पुष्टिऽमत् । वसु ।
 
द्युऽमत् । अग्ने । सुऽवीर्यम् । वर्षिष्ठम् । अनुपऽक्षितम् ॥
 
 
}}
</poem>
{{ऋग्वेदः मण्डल ३}}
==सायणभाष्यम् ==
द्वितीयेऽनुवाके सप्तदश सूक्तानि । तत्र ' प्र वो देवाय ' इति सप्तर्चं प्रथमं सूक्तं वैश्वामित्र-ऋषभस्यार्षमग्निदेवताकमानुष्टुभम् । तथा चानुक्रातं - प्र वः सप्त ऋषभस्त्वानुष्टुभम् ' इति । विश्वामित्रपुत्र ऋषभ ऋषिः । मण्डलादिपरिभाषयाग्निर्देवता । अग्निष्टोमे इदं सूक्तमाज्यशस्त्रम् । ' पराङध्वर्यावावृत्ते ' इति खण्डे सूत्रितम्-' प्र वो देवायेत्याज्यमुपसंतनुयात् ' (आश्व. श्रौ. ५.९) इति । इदमेव सूक्तं प्रातरनुवाक आश्विनशस्त्रे च विनियुक्तम् । सूत्रं च-' प्र वो देवायाग्ने कदा त इति पञ्च ' ( आश्व. श्रौ. ४. १३) इति । अभ्युदयेष्टौ ' स यन्ता ' इत्यग्नेः प्रदातुः याज्या । सूत्रितं च-'स यन्ता विप्र एषां दीर्घस्ते अस्त्वंकुशः ' ( आश्व. श्रौ. ३.१३) इति । ।
 
१. यजमानो होत्रादीन्प्रति ब्रूते । हे होत्रादयः वः युष्मत्संबन्धिने देवाय द्योतमानाय अस्मै अस्मिन्कर्मणि स्तुत्याय अग्नये बर्हिष्ठं वृद्धतमं प्रभूतमिदं स्तुतिरूपं स्तोत्रशस्त्रादि वोक्थ्यजातं प्र अर्च उच्चारयत । एवं स्तुतः सः अग्निः देवेभिः यष्टव्यदेवैः सहितः सन् नः अस्मान्प्रति आ गमत् आगच्छतु । आगत्य च यजिष्ठः यष्टृतमः सोऽग्निः बर्हिः अस्माभिर्वेद्यां स्तीर्णे बर्हिषि आ सदत् आसीदतु उपविशतु ।। बर्हिष्ठम् । बर्हितृशब्दात् ' तुश्छन्दसि ' इत्यतिशायने इष्ठन् । अर्च । ' अर्च पूजायाम् ' । भौवादिकः । बहुवचनस्यैकवचनम् । निघातः । गमत् । ' गम्ल गतौ ' । अस्य छन्दसि लुङ्लङ्लिटः ' इति लोडर्थे लुङ् । लृदित्वात् च्लेरङ् । ' नित्यं ङितः ' इतीकारलोपः । पादादित्वान्न निघातः । यजिष्ठः । बहुशब्दात् ' तुश्छन्दसि ' इतीष्ठन् । ' तुरिष्ठेमेयःसु ' इति तृचो लोपः । नित्स्वरः । सदत् । पूर्ववल्लोडर्थे लुङ् । ' षद्लृ विशरणगत्यवसादनेषु ' इत्यस्य लृदित्वादङ् । निघातः ।।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.१३" इत्यस्माद् प्रतिप्राप्तम्