"ऋग्वेदः सूक्तं ३.१३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४४:
गमत् । देवेभिः । आ । सः । नः । यजिष्ठः । बर्हिः । आ । सदत् ॥
 
यजमानो होत्रादीन्प्रति ब्रूतेबूते । हे होत्रादयः वः“वः युष्मत्संबन्धिने देवाय द्योतमानाय अस्मै“अस्मै अस्मिन्कर्मणि स्तुत्याय अग्नये“अग्नये बर्हिष्ठं“बर्हिष्ठं वृद्धतमं प्रभूतमिदं स्तुतिरूपं स्तोत्रशस्त्रादि वोक्थ्यजातं प्र”प्र "अर्च उच्चारयत । एवं स्तुतः सः“सः अग्निः देवेभिः“देवेभिः यष्टव्यदेवैः सहितः सन् नः“नः अस्मान्प्रति “आ गमत्“गमत् आगच्छतु । आगत्य च यजिष्ठः“यजिष्ठः यष्टृतमः सोऽग्निः बर्हिः“बर्हिः अस्माभिर्वेद्यां स्तीर्णे बर्हिषि “आ सदत्“सदत् आसीदतु उपविशतु ।। बर्हिष्ठम् । बर्हितृशब्दात् ' तुश्छन्दसि ‘तुश्छन्दसि' इत्यतिशायने इष्ठन् । अर्चअर्च। । ' अर्च‘अर्च पूजायाम् ' । भौवादिकः । बहुवचनस्यैकवचनम् । निघातः । गमत् । ' गम्लगम्लृ गतौ ' । अस्य छन्दसि लुङ्लङ्लिटः ' इति लोडर्थे लुङ्लुङ । लृदित्वात् च्लेरङ्च्लेरङ्। । ' नित्यं ङितः ' इतीकारलोपः ।इतीकारलोपः। पादादित्वान्न निघातः । यजिष्ठः । बहुशब्दात् ' तुश्छन्दसियष्टृशब्दात् ‘तुश्छन्दसि' इतीष्ठन् । ' तुरिष्ठेमेयःसु ' इति तृचो लोपः । नित्स्वरः । सदत् । पूर्ववल्लोडर्थे लुङ् । ' षद्लृ विशरणगत्यवसादनेषु ' इत्यस्य लृदित्वादङ् ।लृदित्वादङ्। निघातः ।।
 
 
पङ्क्तिः ५८:
 
हविष्मन्तः । तम् । ईळते । तम् । सनिष्यन्तः । अवसे ॥
 
“यस्य पूर्वमन्त्रे प्रतिपादितस्याग्नेः “रोदसी इमे द्यावापृथिव्यौ वशे भवतः । अग्नेः प्रकाशकत्वेन तदधीनप्रकाशके भवत इत्यर्थः । किंच “ऊतयः यजमानस्य फलप्रदानेन रक्षितारो देवाः “दक्षं यस्याग्नेर्बलं "सचन्ते सेवन्ते । ‘ सचन्ते सेवन्ते ' ( निरु. ७. २३) इति यास्कः । अग्नेर्यजमानदत्तहविष्प्रदत्वेन तदधीना इत्यर्थः । एवंभूतः सोऽग्निः “ऋतावा सत्यकर्मा । सत्यसंकल्प इत्यर्थः । किंच “हविष्मन्तः संभृतहविष्का यजमाना हविर्वहनार्थं “तम् एवाग्निम् “ईळते स्तुतिरूपाभिर्वाग्भिः पूजयन्ति । किंच “सनिष्यन्तः धनादिलाभमिच्छन्तः “तम् अवसे रक्षणाय तमेवाग्निमाश्रयन्ते ॥ ऋतावा । ऋतशब्दात् “ तदस्यास्ति' इति छन्दसीवनिपौ वक्तव्यौ' इति वनिप् । अन्येषामपि दृश्यते' इति दीर्घः । वनिपः पित्त्वादनुदात्तत्वे प्रातिपदिकस्वरः। सचन्ते। ‘षच समवाये । व्यत्ययेन आत्मनेपदम् । यद्वृत्तयोगादनिघातः। सनिष्यन्तः । सनिर्लाभः । तमिच्छन्तः । ‘ सुप आत्मनः क्यच् । ‘ सर्वप्रातिपदिकेभ्यो लालसायां सुग्वक्तव्यः' इति क्यचि परतः सुगागमः । क्यचः स्वरः ॥
 
 
Line ७१ ⟶ ७३:
 
अग्निम् । तम् । वः । दुवस्यत । दाता । यः । वनिता । मघम् ॥
 
“विप्रः मेधावी कर्माभिज्ञः “सः अग्निः “एषां कालापराधेन हविर्निर्वापं कृतवतां यजमानानां यथोक्तकर्मप्रदर्शनेन तत्र प्रवर्तकः । “अथ किंच "यज्ञानां ज्योतिष्टोमादीनां “सः अग्निः नियन्ता फलप्रदानेन नियामकः । “हि प्रसिद्धौ । अत एव सर्वस्य नियन्ता खलु । किंच “सः अग्निः “दाता ज्योतिष्टोमादिकर्मफलदाता “मघं मंहनीयं धनम् । ‘ मघं रेक्णः ' (नि. २. १०. १ ) इति तन्नामसु पाठात् । तद्धनं “वनिता प्रयच्छंश्च भवति । "वः युष्मत्संबन्धिनं तं तादृशम् “अग्निं हे ऋत्विजः यूयं "दुवस्यत आहुतिप्रदानेन परिचरत । दुवस्यतिः परिचरणकर्मा ‘नमस्यति दुवस्यति' (नि. ३. ५. ५) इति तन्नामसु पाठात् ॥ यन्ता । ‘यम उपरमे ' इत्यस्य तृचि रूपम् । ‘ ऋदुशनस्' इत्यादिना अनङादेशः । चित्स्वरः । अथा हि। • निपातस्य ' इति दीर्घः । दुवस्यत । दुवः परिचरणम् । तदिच्छन्तः । सुपः क्यच् । तदन्तस्य धातोर्लोटि रूपम् । दाता । ' डुदाञ् दाने' । ताच्छीलिकस्तृन् । नित्त्वादाद्युदात्तः ॥
 
 
Line ८४ ⟶ ८८:
 
यतः । नः । प्रुष्णवत् । वसु । दिवि । क्षितिऽभ्यः । अप्ऽसु । आ ॥
 
“सः “अग्निः हविष्प्रदातृभ्यः “नः अस्मभ्यं “शंतमा पशुपुत्रादिसमृद्धया अतिशयेन सुखकराणि । शर्मशब्दो गृहवाची ‘ छाया शर्म वर्म' (नि. ३.४.२१) इति तन्नामसु पाठात् । तथाविधानि गृहाणि “वीतये संभजनाय अग्निहोत्रादिकर्मप्राप्त्यर्थं “यच्छतु ददातु । “यतः यस्मादग्नेः सकाशात् “प्रुष्णवत् समृद्धिमत् दानभोगादिना व्यये सत्यपि अतिशयेन वर्धमानं “दिवि द्युलोके “क्षितिभ्यः भूलोकात् "अप्सु अन्तरिक्षे च समुत्पन्नं “वसु तत्तल्लोके असाधारण्येन वर्तमानं धनम् “आ समन्तात् उपनमति । यतोऽग्नेः प्रसादात् त्रिषु लोकेषु विद्यमानं धनमस्मानागच्छति सोऽग्निरिति पूर्वेणान्वयः॥ वीतये । वी गतिकान्त्यादिषु ।' मन्त्रे वृषेषपच° ' इत्यादिना क्तिन् । उदात्तत्वेन निपातनादुदात्तः । यच्छतु । ‘यम उपरमे'। इषुगमियमां छः' इति मकारस्य छः । प्रुष्णवत् । 'पुष स्नेहनसेचनपूरणेषु ' । अस्मादौणादिको नक्प्रत्ययः । तदस्यास्ति' इति मतुप् । तस्योदात्तताभावश्छान्दसः ॥
 
 
Line ९७ ⟶ १०३:
 
ऋक्वाणः । अग्निम् । इन्धते । होतारम् । विश्पतिम् । विशाम् ॥
 
“ऋक्वाणः स्तुतिं कुर्वाणाः शस्त्रिणो होत्रादयः “दीदिवांसं दीप्यमानम् “अपूर्व्यं तेजस्वितया प्रतिक्षणमभिनवं “होतारं देवानामाह्वातारं “विशां “विश्पतिं प्रजानामतिशयेन पालयितारं तम् “अग्नि “वस्वीभिः प्रशस्ताभिः “अस्य “धीतिभिः अग्निविषयस्तुतिलक्षणाभिर्वाग्भिः । यद्वा वस्वीभिर्वसुमद्भिरस्य धीतिभिरेतदुद्देशेन क्रियमाणैः कर्मभिः । “इन्धते दीपयन्ति । स्तोत्रकरणहविष्प्रदानादिव्यापारेण समृद्धिं कुर्वन्ति ॥ दीदिवांसम् । दिवु क्रीडादावित्यस्य क्वसौ रूपम् । “तुजादीनाम्' इत्यभ्यासस्य दीर्घः । लोपो व्योर्वलि ' इति वलोपः। वस्वीभिः । वसुशब्दात् व्यत्ययेन ङीन् । नित्स्वरः। धीतिभिः । ‘ धेट् पाने'। ‘क्तिच्क्तौ च संज्ञायाम् ' इति क्तिच् । कित्त्वात् ' घुमास्था° ' इतीत्वम् । चित्स्वरः । ऋक्वाणः । ऋच्शब्दान्मतुबर्थे वनिप् । अयस्मयादित्वाद्भसंज्ञात्वात् कुत्वम् । पदसंज्ञाभावाज्जश्त्वाभावः । इन्धते । ‘ ञिइन्धी दीप्तौ । विश्पतिम् ।‘परादिश्छन्दसि बहुलम् ' इत्युत्तरपदाद्युदात्तत्वम्। विशाम् । ‘सावेकाचः०' इति विभक्तेरुदात्तत्वम् ॥
 
 
Line ११० ⟶ ११८:
 
शम् । नः । शोच । मरुत्ऽवृधः । अग्ने । सहस्रऽसातमः ॥
 
“उत अपि च हे “अग्ने “नः यज्ञकारिणोऽस्मान् “ब्रह्मन् ब्रह्मणि अस्माभिः क्रियमाणे स्तोत्रे “अविषः स्तोत्रविषयन्यूनातिरेकदोषो यथा न भवति तथा पालय । किंच “देवहूतमः देवानामाह्वातृतमस्त्वम् “उक्थेषु अस्माभिः क्रियमाणेष्वाज्यप्रउगादिशस्त्रेषु अविषः गोपाय । किंच “मरुद्वृधः मरुद्भिर्वर्धमानः “सहस्रसातमः सहस्रसंख्याकस्य धनस्यातिशयेन दाता त्वं “नः अस्माकं “शम् ऐहिकमामुष्मिकं च सुखं “शोच दीपय । वर्धयेत्यर्थः ॥ अविषः । अव रक्षणादिषु इत्यस्माल्लेटि ‘सिब्बहुलम्° ' इति सिप् । अस्य आर्धधातुकत्वादिट्। ‘ इतश्च लोपः' इति सिप इकारलोपः । ‘ लेटोऽडाटौ' इत्यडागमः । निघातः । उक्थेषु । ‘वच परिभाषणे ' । अस्मात् कर्मणि ‘पातॄतुदिवचिरिचि°' इत्यादिना थक् । कित्त्वात्संप्रसारणम् । प्रत्ययस्वरः । देवहूतमः । ह्वयतेः क्विप् । ‘बहुलं छन्दसि ' इति संप्रसारणपररूपत्वे । ‘ हलः' इति दीर्घः । कृदुत्तरपदप्रकृतिस्वरत्वम् । शोच । शुच दीप्तौ । अयमन्तर्भावितण्यर्थः । निघातः । मरुद्वृधः । ‘ वृधु वर्धने ' । इगुपधलक्षणः कः । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् । सहस्रसातमः । ‘ षणु दाने ' । अस्य ‘ जनसनखनक्रमगमो विट्' इति विट् ।' विङ्वनोरनुनासिकस्य ' इत्याकारः । कृदुत्तरपदप्रकृतिस्वरः ॥
 
 
Line १२४ ⟶ १३४:
द्युऽमत् । अग्ने । सुऽवीर्यम् । वर्षिष्ठम् । अनुपऽक्षितम् ॥
 
अस्मिन् सूक्ते स्तूयमान हे “अग्ने सहस्रवत् सहस्रसंख्योपेतं “तोकवत् पुत्रपौत्रादिसहितं “पुष्टिमत् पोषकृत् । अनेन शरीरस्य क्षीरादिद्वारा बलारोग्यप्रदं गवादिकम् उपलक्ष्यते । “द्युमत् दीप्तिमत् । अनेन रत्नकनकादिकं परिगृह्यते । “सुवीर्यं शोभनसामर्थ्योपेतं तत्तत्कार्येषु व्यवहारयोग्यं वर्षिष्ठम् अतिशयेन वृद्धं प्रभूतमत एव “अनुपक्षितं व्यये क्रियमाणेऽप्यनुपक्षीणम् । एवंभूतं “वसु रत्नकनकपश्वादिलक्षणं धनं "नः अस्मभ्यं “नु क्षिप्रमविलम्बेन “रास्व दत्स्व ॥ नू नः । ‘ ऋचि तुनुघमक्षु' ' इति दीर्घः । रास्व ।' रा दाने ' अस्य लोटि रूपम् । व्यत्ययेनात्मनेपदम् । अदादित्वाच्छपो लुक् । निघातः । सहस्रवत् । “ मादुपधायाः° ' इति मतुपो वत्वङ् । कर्दमादित्वान्मध्योदात्तः सहस्रशब्दः । पुष्टिमत् । ‘ पुष पुष्टौ ' । अस्मात् क्तिच् । प्रत्ययस्वरेणान्तोदात्तः । ‘ ह्रस्वनुड्भ्याम् ' इति मतुप उदात्तत्वम् । वर्षिष्ठम् । ‘ प्रियस्थिर' इत्यादिना वृद्धस्य' वर्षि इत्यादेशः । नित्स्वरः । अनुपक्षितम् । ‘ क्षि क्षये ' इत्यस्य दीर्घाभावान्निष्ठानत्वं न भवति । तत्पुरुषवादव्ययपूर्वपदप्रकृतिस्वरः ॥ ॥ १३ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.१३" इत्यस्माद् प्रतिप्राप्तम्