"ऋग्वेदः सूक्तं ७.९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
}}
 
<poem><span style="font-size: 14pt; line-height:200%">
<div class="verse">
<pre>
अबोधि जार उषसामुपस्थाद्धोता मन्द्रः कवितमः पावकः ।
दधाति केतुमुभयस्य जन्तोर्हव्या देवेषु द्रविणं सुकृत्सु ॥१॥
Line २४ ⟶ २३:
पुरुणीथा जातवेदो जरस्व यूयं पात स्वस्तिभिः सदा नः ॥६॥
 
</prespan></poem>
 
</div>
 
{{सायणभाष्यम्|
‘अबोधि जारः' इति षड़ृचं नवमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमाग्नेयम् । “अबोधि षट् ' इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोर्दशसूक्तमध्ये उक्तो विनियोगः ॥
 
 
अबो॑धि जा॒र उ॒षसा॑मु॒पस्था॒द्धोता॑ मं॒द्रः क॒वित॑मः पाव॒कः ।
 
दधा॑ति के॒तुमु॒भय॑स्य जं॒तोर्ह॒व्या दे॒वेषु॒ द्रवि॑णं सु॒कृत्सु॑ ॥१
 
अबो॑धि । जा॒रः । उ॒षसा॑म् । उ॒पऽस्था॑त् । होता॑ । म॒न्द्रः । क॒विऽत॑मः । पा॒व॒कः ।
 
दधा॑ति । के॒तुम् । उ॒भय॑स्य । ज॒न्तोः । ह॒व्या । दे॒वेषु॑ । द्रवि॑णम् । सु॒कृत्ऽसु॑ ॥
 
अबोधि । जारः । उषसाम् । उपऽस्थात् । होता । मन्द्रः । कविऽतमः । पावकः ।
 
दधाति । केतुम् । उभयस्य । जन्तोः । हव्या । देवेषु । द्रविणम् । सुकृत्ऽसु ॥
 
“जारः सर्वेषां प्राणिनां जरयिता “होता देवानामाह्वाता “मन्द्रः मदयिता स्तुत्यो वा “कवितमः प्राज्ञतमः “पावकः शोधकोऽग्निः “उषसाम् “उपस्थात् मध्ये “अबोधि अबुध्यत । किंच “उभयस्य द्विपदश्च चतुष्पदश्च दैव्यस्य मानुषस्य वा “जन्तोः प्राणिनः “केतुं प्रज्ञानं “दधाति विदधाति । "देवेषु च “हव्या हव्यानि दधाति । “सुकृत्सु यजमानेषु च “द्रविणं धनं दधाति ।
 
 
स सु॒क्रतु॒र्यो वि दुरः॑ पणी॒नां पु॑ना॒नो अ॒र्कं पु॑रु॒भोज॑सं नः ।
 
होता॑ मं॒द्रो वि॒शां दमू॑नास्ति॒रस्तमो॑ ददृशे रा॒म्याणां॑ ॥२
 
सः । सु॒ऽक्रतुः॑ । यः । वि । दुरः॑ । प॒णी॒नाम् । पु॒ना॒नः । अ॒र्कम् । पु॒रु॒ऽभोज॑सम् । नः॒ ।
 
होता॑ । म॒न्द्रः । वि॒शाम् । दमू॑नाः । ति॒रः । तमः॑ । द॒दृ॒शे॒ । रा॒म्याणा॑म् ॥
 
सः । सुऽक्रतुः । यः । वि । दुरः । पणीनाम् । पुनानः । अर्कम् । पुरुऽभोजसम् । नः ।
 
होता । मन्द्रः । विशाम् । दमूनाः । तिरः । तमः । ददृशे । राम्याणाम् ॥
 
“सः अग्निः “सुक्रतुः सुकर्मा सुप्रज्ञो वा भवति । "यः अग्निः “पणीनाम् असुराणां “दुरः द्वाराणि गवां पिधानानि विवृतवान् । “पुरुभोजसं बहुक्षीरम् “अर्कम् अर्चनीयं गवां संघं “नः स्मदर्थं “पुनानः शोधयन् । हरन्नित्यर्थः । “होता देवानामाह्वाता “मन्द्रः मदयिता स्तुत्यो वा “दमूनाः दान्तमना दममना दानमना वा “राम्याणां रात्रीणां रमयित्रीणां वा “विशां जनानां यजमानानां वा “तमः अन्धकारं तिरस्कुर्वन् “ददृशे दृश्यते च । यद्वा । तमस्तिरो ददृशे नाशयतीत्यर्थः ।।
 
 
अमू॑रः क॒विरदि॑तिर्वि॒वस्वा॑न्त्सुसं॒सन्मि॒त्रो अति॑थिः शि॒वो नः॑ ।
 
चि॒त्रभा॑नुरु॒षसां॑ भा॒त्यग्रे॒ऽपां गर्भः॑ प्र॒स्व१॒॑ आ वि॑वेश ॥३
 
अमू॑रः । क॒विः । अदि॑तिः । वि॒वस्वा॑न् । सु॒ऽसं॒सत् । मि॒त्रः । अति॑थिः । शि॒वः । नः॒ ।
 
चि॒त्रऽभा॑नुः । उ॒षसा॑म् । भा॒ति॒ । अग्रे॑ । अ॒पाम् । गर्भः॑ । प्र॒ऽस्वः॑ । आ । वि॒वे॒श॒ ॥
 
अमूरः । कविः । अदितिः । विवस्वान् । सुऽसंसत् । मित्रः । अतिथिः । शिवः । नः ।
 
चित्रऽभानुः । उषसाम् । भाति । अग्रे । अपाम् । गर्भः । प्रऽस्वः । आ । विवेश ॥
 
योऽग्निः “अमूरः अमूढः “कविः प्राज्ञः “अदितिः अदीनः “विवस्वान् दीप्तिमान् “सुसंसत् शोभनसदनः शोभनसंवेदनो वा “मित्रः प्रमीतेस्त्राता सर्वेषाम् “अतिथिः अतिथिवत् पूज्यः “शिवः शिवकरो जगतः “चित्रभानुः चित्रदीप्तिः “उषसाम् “अग्रे मुखे “भाति सोऽयम् “अपां “गर्भः सन् “प्रस्वः जायमाना ओषधीः "आ “विवेश । ।
 
 
ई॒ळेन्यो॑ वो॒ मनु॑षो यु॒गेषु॑ समन॒गा अ॑शुचज्जा॒तवे॑दाः ।
 
सु॒सं॒दृशा॑ भा॒नुना॒ यो वि॒भाति॒ प्रति॒ गावः॑ समिधा॒नं बु॑धंत ॥४
 
ई॒ळेन्यः॑ । वः॒ । मनु॑षः । यु॒गेषु॑ । स॒म॒न॒ऽगाः । अ॒शु॒च॒त् । जा॒तऽवे॑दाः ।
 
सु॒ऽस॒न्दृशा॑ । भा॒नुना॑ । यः । वि॒ऽभाति॑ । प्रति॑ । गावः॑ । स॒म्ऽइ॒धा॒नम् । बु॒ध॒न्त॒ ॥
 
ईळेन्यः । वः । मनुषः । युगेषु । समनऽगाः । अशुचत् । जातऽवेदाः ।
 
सुऽसन्दृशा । भानुना । यः । विऽभाति । प्रति । गावः । सम्ऽइधानम् । बुधन्त ॥
 
हे अग्ने “वः त्वम् । अत्र विभक्तिवचनव्यत्ययः। “मनुषः मनुष्यस्य “युगेषु यागकालेषु सर्वेष्वपि दिवसेषु वा “ईळेन्यः स्तुत्यः । अतः परं परोक्षस्तुतिः । “यः अग्निः “जातवेदाः जातधनः “समनगाः युद्धेषु संगन्ता सन् "अशुचत् दीप्यते । सुसंदृशा सुसंदर्शनेन “भानुना तेजसा “विभाति च। तमग्निं “समिधानं समिध्यमानं “गावः स्तुतयः “प्रति “बुधन्त प्रतिबोधयन्ति ।।
 
 
वैश्वदेवे पशौ ‘अग्ने याहि' इति हविषो याज्या । सूत्रितं च--- अग्ने याहि दूत्यं मा रिषण्य इन्द्रं नरो नेमधिता हवन्त इति तिस्रः' (आश्व. श्रौ. ३ . ७) इति ॥
 
अग्ने॑ या॒हि दू॒त्यं१॒॑ मा रि॑षण्यो दे॒वाँ अच्छा॑ ब्रह्म॒कृता॑ ग॒णेन॑ ।
 
सर॑स्वतीं म॒रुतो॑ अ॒श्विना॒पो यक्षि॑ दे॒वान्र॑त्न॒धेया॑य॒ विश्वा॑न् ॥५
 
अग्ने॑ । या॒हि । दू॒त्य॑म् । मा । रि॒ष॒ण्यः॒ । दे॒वान् । अच्छ॑ । ब्र॒ह्म॒ऽकृता॑ । ग॒णेन॑ ।
 
सर॑स्वतीम् । म॒रुतः॑ । अ॒श्विना॑ । अ॒पः । यक्षि॑ । दे॒वान् । र॒त्न॒ऽधेया॑य । विश्वा॑न् ॥
 
अग्ने । याहि । दूत्यम् । मा । रिषण्यः । देवान् । अच्छ । ब्रह्मऽकृता । गणेन ।
 
सरस्वतीम् । मरुतः । अश्विना । अपः । यक्षि । देवान् । रत्नऽधेयाय । विश्वान् ॥
 
हे “अग्ने “दूत्यं दूतस्य कर्म हविर्वहनादि “याहि "देवान् “अच्छ अभिगच्छ। “गणेन संघेन सह “ब्रह्मकृता ब्रह्मकृतोऽस्मानस्मदीयांश्च तव स्तोतॄन् मा “रिषण्यः मा हिंसीः । “सरस्वतीं “मरुतः “अश्विना अश्विनौ “अपः चैतान् “देवान “रत्नधेयाय अस्मभ्यं रत्नदानाय “यक्षि च ॥
 
 
त्वाम॑ग्ने समिधा॒नो वसि॑ष्ठो॒ जरू॑थं ह॒न्यक्षि॑ रा॒ये पुरं॑धिं ।
 
पु॒रु॒णी॒था जा॑तवेदो जरस्व यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥६
 
त्वाम् । अ॒ग्ने॒ । स॒म्ऽइ॒धा॒नः । वसि॑ष्ठः । जरू॑थम् । ह॒न् । यक्षि॑ । रा॒ये । पुर॑म्ऽधिम् ।
 
पु॒रु॒ऽनी॒था । जा॒त॒ऽवे॒दः॒ । ज॒र॒स्व॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥
 
त्वाम् । अग्ने । सम्ऽइधानः । वसिष्ठः । जरूथम् । हन् । यक्षि । राये । पुरम्ऽधिम् ।
 
पुरुऽनीथा । जातऽवेदः । जरस्व । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥
 
हे “अग्ने “त्वां “वसिष्ठः ऋषिः “समिधानः भवति । त्वं च "जरूथं परुषभाषिणं जरणीयं वा रक्षोगणं “हन् जहि । “राये धनवते यजमानाय “पुरंधिं बहुधियं देवगणम् । तथा च यास्कः-- ‘पुरंधिर्बहुधीः' इति । 'यक्षि यज । किंच हे “जातवेदः अग्ने “पुरुणीथा पुरुनीथेन बहुना स्तोत्रेण “जरस्व देवान् स्तुहि। यद्वा । पुरुणीथानेकमार्गाणि रक्षांसि जरयेत्यर्थः ॥ ॥ १२ ॥
 
}}
{{ऋग्वेदः मण्डल ७}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.९" इत्यस्माद् प्रतिप्राप्तम्