"ऋग्वेदः सूक्तं ८.७४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०:
 
 
<poem><span style="font-size: 14pt; line-height: 200%">
<div class="verse">
<pre>
विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियम् ।
अग्निं वो दुर्यं वच स्तुषे शूषस्य मन्मभिः ॥१॥
Line ४३ ⟶ ४२:
नेमापो अश्वदातरः शविष्ठादस्ति मर्त्यः ॥१५॥
 
</prespan></poem>
 
</div>
 
{{सायणभाष्यम्|
‘विशोविशो वः' इति पञ्चदशर्चं पञ्चमं सूक्तम् । अत्रेयमनुक्रमणिका -–• विशोविशो वः पञ्चोनाग्नेयं त्वनुष्टुम्मुखास्तृचाश्चत्वारोऽन्त्यास्तिस्रोऽनुष्टुभ आर्क्षस्य श्रुतर्वणो दानस्तुतिः' इति । अनुवृत्तेर्गोपवन ऋषिः । आदितस्त्रिषु तृचेषु सर्वाः प्रथमा अनुष्टुभो द्वितीयातृतीये प्राग्वत्सप्रपरिभाषया गायत्र्यौ त्रयोदश्याद्यास्तिस्रोऽनुष्टुभः । अस्योत्तरस्य चाग्निर्देवता । अन्त्यास्तिस्रः श्रुतर्वनाम्नो राज्ञो दानस्तुतिः । व्योमविश्वदेवस्तुत्पञ्चशारदीयेष्विदं सूक्तमाज्यशस्त्रम् । सूत्रितं च-’ विशोविशो वो अतिथिमित्याज्यम्' (आश्व. श्रौ. ९. ८) इति ॥
 
 
वि॒शोवि॑शो वो॒ अति॑थिं वाज॒यंतः॑ पुरुप्रि॒यं ।
 
अ॒ग्निं वो॒ दुर्यं॒ वचः॑ स्तु॒षे शू॒षस्य॒ मन्म॑भिः ॥१
 
वि॒शःऽवि॑शः । वः॒ । अति॑थिम् । वा॒ज॒ऽयन्तः॑ । पु॒रु॒ऽप्रि॒यम् ।
 
अ॒ग्निम् । वः॒ । दुर्य॑म् । वचः॑ । स्तु॒षे । शू॒षस्य॑ । मन्म॑ऽभिः ॥
 
विशःऽविशः । वः । अतिथिम् । वाजऽयन्तः । पुरुऽप्रियम् ।
 
अग्निम् । वः । दुर्यम् । वचः । स्तुषे । शूषस्य । मन्मऽभिः ॥
 
हे अन्य ऋत्विजो यजमानाश्च “वः यूयं “वाजयन्तः अन्नमिच्छन्तः “विशोविशः सर्वस्याः प्रजायाः “अतिथिं पूज्यं “पुरुप्रियं बहुप्रियम् “अग्निं स्तुत्या परिचरतेति शेषः । अहं च “वः युष्मदर्थं “दुर्यं गुहा हितं “वचः “स्तुषे “शूषस्य सुखस्य लाभाय । कैः साधनैः । “मन्मभिः मननीयैः स्तोत्रैः ।।
 
 
यं जना॑सो ह॒विष्मं॑तो मि॒त्रं न स॒र्पिरा॑सुतिं ।
 
प्र॒शंसं॑ति॒ प्रश॑स्तिभिः ॥२
 
यम् । जना॑सः । ह॒विष्म॑न्तः । मि॒त्रम् । न । स॒र्पिःऽआ॑सुतिम् ।
 
प्र॒ऽशंस॑न्ति । प्रश॑स्तिऽभिः ॥
 
यम् । जनासः । हविष्मन्तः । मित्रम् । न । सर्पिःऽआसुतिम् ।
 
प्रऽशंसन्ति । प्रशस्तिऽभिः ॥
 
“यम् अग्निं “जनासः जना यजमानाः “हविष्मन्तः सन्तः “मित्रं “न मित्रमिवादित्यमिव सखायमिव वा सर्पिरासुतिं सर्पिरासूयते हूयते यस्मिंस्तादृशं “प्रशंसन्ति स्तुवन्ति “प्रशस्तिभिः स्तुतिभिः स्तुव इति शेषः ॥
 
 
पन्यां॑सं जा॒तवे॑दसं॒ यो दे॒वता॒त्युद्य॑ता ।
 
ह॒व्यान्यैर॑यद्दि॒वि ॥३
 
पन्यां॑सम् । जा॒तऽवे॑दसम् । यः । दे॒वऽता॑ति । उत्ऽय॑ता ।
 
ह॒व्यानि॑ । ऐर॑यत् । दि॒वि ॥
 
पन्यांसम् । जातऽवेदसम् । यः । देवऽताति । उत्ऽयता ।
 
हव्यानि । ऐरयत् । दिवि ॥
 
“पन्यांसम् अतिशयेन स्तोतारं साधु कृतमिति यजमानं स्तुवन्तं “जातवेदसं जातधनं जातविद्यं वा स्तुव इति शेषः । “यः अग्निः “देवताति देवतातौ यज्ञे “उद्यता उद्यतानि “हव्यानि हवींषि “दिवि “ऐरयत् प्रेरयति दिवि देवेभ्यः ॥
 
 
आग॑न्म वृत्र॒हंत॑मं॒ ज्येष्ठ॑म॒ग्निमान॑वं ।
 
यस्य॑ श्रु॒तर्वा॑ बृ॒हन्ना॒र्क्षो अनी॑क॒ एध॑ते ॥४
 
आ । अ॒ग॒न्म॒ । वृ॒त्र॒हन्ऽत॑मम् । ज्येष्ठ॑म् । अ॒ग्निम् । आन॑वम् ।
 
यस्य॑ । श्रु॒तर्वा॑ । बृ॒हन् । आ॒र्क्षः । अनी॑के । एध॑ते ॥
 
आ । अगन्म । वृत्रहन्ऽतमम् । ज्येष्ठम् । अग्निम् । आनवम् ।
 
यस्य । श्रुतर्वा । बृहन् । आर्क्षः । अनीके । एधते ॥
 
“वृत्रहन्तमं पापानामतिशयेन हन्तारं “ज्येष्ठं प्रशस्यम् “आनवं मनुष्यसंबन्धिनं तेषां हितकारिणम् “अग्निम् “आगन्म आगता वयम् । पूजार्थं बहुवचनम् । “यस्य अग्नेः “अनीके ज्वालासंघे “बृहन् महान् “आर्क्षः ऋक्षपुत्रः “श्रुतर्वा नाम राजा “एधते वर्धते । कर्म करोतीत्यर्थः । तमग्निमागन्मेति समन्वयः । एवं श्रुतर्वाणं भिक्षयागतो गोपवनोऽग्निं स्तौति ॥
 
 
अ॒मृतं॑ जा॒तवे॑दसं ति॒रस्तमां॑सि दर्श॒तं ।
 
घृ॒ताह॑वन॒मीड्यं॑ ॥५
 
अ॒मृत॑म् । जा॒तऽवे॑दसम् । ति॒रः । तमां॑सि । द॒र्श॒तम् ।
 
घृ॒तऽआ॑हवनम् । ईड्य॑म् ॥
 
अमृतम् । जातऽवेदसम् । तिरः । तमांसि । दर्शतम् ।
 
घृतऽआहवनम् । ईड्यम् ॥
 
स एवागत्य स्तौति । “अमृतम् अमरणं “जातवेदसं जाततेजआद्युपलक्षणधनं “तमांसि “तिरः “दर्शतं नाशयन्तमित्यर्थः। “घृताहवनम् । घृतमाहूयते यत्र तम् । “ईड्यं स्तुत्यम्। ईदृशमागन्मेति संबन्धः ॥ ॥ २१ ॥
 
 
स॒बाधो॒ यं जना॑ इ॒मे॒३॒॑ऽग्निं ह॒व्येभि॒रीळ॑ते ।
 
जुह्वा॑नासो य॒तस्रु॑चः ॥६
 
स॒ऽबाधः॑ । यम् । जनाः॑ । इ॒मे । अ॒ग्निम् । ह॒व्येभिः॑ । ईळ॑ते ।
 
जुह्वा॑नासः । य॒तऽस्रु॑चः ॥
 
सऽबाधः । यम् । जनाः । इमे । अग्निम् । हव्येभिः । ईळते ।
 
जुह्वानासः । यतऽस्रुचः ॥
 
“इमे "सबाधः बाधसहिता अध्वर्य्वादयः “यम् “अग्निं “हव्येभिः हविर्भिः “ईळते स्तुवन्ति । कीदृशा जनाः। "जुह्वानासः यागं कुर्वाणाः "यतस्रुचः तदर्थं धृतस्रुग्दण्डाः । तमागन्मेति समन्वयः ॥
 
 
इ॒यं ते॒ नव्य॑सी म॒तिरग्ने॒ अधा॑य्य॒स्मदा ।
 
मंद्र॒ सुजा॑त॒ सुक्र॒तोऽमू॑र॒ दस्माति॑थे ॥७
 
इ॒यम् । ते॒ । नव्य॑सी । म॒तिः । अग्ने॑ । अधा॑यि । अ॒स्मत् । आ ।
 
मन्द्र॑ । सुऽजा॑त । सुक्र॑तो॒ इति॒ सुऽक्र॑तो । अमू॑र । दस्म॑ । अति॑थे ॥
 
इयम् । ते । नव्यसी । मतिः । अग्ने । अधायि । अस्मत् । आ ।
 
मन्द्र । सुऽजात । सुक्रतो इति सुऽक्रतो । अमूर । दस्म । अतिथे ॥
 
हे “अग्ने “इयम् इदानीं क्रियमाणा “नव्यसी नवतरा स्तुतिः “ते तव स्वभूता "अस्मत् अस्मासु “अधायि धृताभूत् । वयं तव स्तुतिं कुर्म इत्यर्थः । हे “मन्द्र मोदमान "सुजात शोभनजनन “सुक्रतो शोभनकर्मन् "अमूर अमूढ “दस्म दर्शनीय “अतिथे अतिथिवत् पूज्य इत्यग्नेर्विशेषणानि ॥
 
 
सा ते॑ अग्ने॒ शंत॑मा॒ चनि॑ष्ठा भवतु प्रि॒या ।
 
तया॑ वर्धस्व॒ सुष्टु॑तः ॥८
 
सा । ते॒ । अ॒ग्ने॒ । शम्ऽत॑मा । चनि॑ष्ठा । भ॒व॒तु॒ । प्रि॒या ।
 
तया॑ । व॒र्ध॒स्व॒ । सुऽस्तु॑तः ॥
 
सा । ते । अग्ने । शम्ऽतमा । चनिष्ठा । भवतु । प्रिया ।
 
तया । वर्धस्व । सुऽस्तुतः ॥
 
हे “अग्ने “सा अस्माभिः क्रियमाणा स्तुतिः “शंतमा अत्यन्तं सुखकरा “चनिष्ठा अतिशयेनान्नवती “ते तव “प्रिया “भवतु । “तया स्तुत्या “सुष्टुतः सुष्ठु स्तुतः सन् “वर्धस्व प्रवृद्धो भव ॥
 
 
सा द्यु॒म्नैर्द्यु॒म्निनी॑ बृ॒हदुपो॑प॒ श्रव॑सि॒ श्रवः॑ ।
 
दधी॑त वृत्र॒तूर्ये॑ ॥९
 
सा । द्यु॒म्नैः । द्यु॒म्निनी॑ । बृ॒हत् । उप॑ऽउप । श्रव॑सि । श्रवः॑ ।
 
दधी॑त । वृ॒त्र॒ऽतूर्ये॑ ॥
 
सा । द्युम्नैः । द्युम्निनी । बृहत् । उपऽउप । श्रवसि । श्रवः ।
 
दधीत । वृत्रऽतूर्ये ॥
 
“सा अस्माभिः क्रियमाणा स्तुतिः “द्युम्नैः द्योतमानैरन्नैः अस्मभ्यं प्रदेयैः “द्युम्निनी अन्नवती “श्रवसि पूर्वस्मिन् विद्यमानेऽन्ने पुनरपि "बृहत् महत् “श्रवः अन्नम् “उपोप “दधीत पुनरुपरि धारयतु । कुत्रेति उच्यते । “वृत्रतूर्ये संग्रामे । शत्रोः संबन्धीति यावत् ॥
 
 
अश्व॒मिद्गां र॑थ॒प्रां त्वे॒षमिंद्रं॒ न सत्प॑तिं ।
 
यस्य॒ श्रवां॑सि॒ तूर्व॑थ॒ पन्यं॑पन्यं च कृ॒ष्टयः॑ ॥१०
 
अश्व॑म् । इत् । गाम् । र॒थ॒ऽप्राम् । त्वे॒षम् । इन्द्र॑म् । न । सत्ऽप॑तिम् ।
 
यस्य॑ । श्रवां॑सि । तूर्व॑थ । पन्य॑म्ऽपन्यम् । च॒ । कृ॒ष्टयः॑ ॥
 
अश्वम् । इत् । गाम् । रथऽप्राम् । त्वेषम् । इन्द्रम् । न । सत्ऽपतिम् ।
 
यस्य । श्रवांसि । तूर्वथ । पन्यम्ऽपन्यम् । च । कृष्टयः ॥
 
“गां गन्तारम् “अश्वमित् । इच्छब्द इवार्थे। अश्वमिव । तं यथा स्तुवते तथेत्यर्थः। “रथप्रां रथानामस्मदीयानां पूरयितारं धनैः तथा “त्वेषं दीप्तमग्निं “सत्पतिं सतां पालकम् “इन्द्रं “न इन्द्रमिवेमं “कृष्टयः मनुष्याः परिचरतेति शेषः । “यस्य अग्नेर्बलेन “श्रवांसि अन्नानि शत्रुसंबन्धीनि "तूर्वथ तथा “पन्यंपन्यं “च यद्यत् स्तुत्यं धनमस्ति तदपि तूर्वथ हिंस्थ ।। ॥ २२ ॥
 
 
यं त्वा॑ गो॒पव॑नो गि॒रा चनि॑ष्ठदग्ने अंगिरः ।
 
स पा॑वक श्रुधी॒ हवं॑ ॥११
 
यम् । त्वा॒ । गो॒पव॑नः । गि॒रा । चनि॑ष्ठत् । अ॒ग्ने॒ । अ॒ङ्गि॒रः॒ ।
 
सः । पा॒व॒क॒ । श्रु॒धि॒ । हव॑म् ॥
 
यम् । त्वा । गोपवनः । गिरा । चनिष्ठत् । अग्ने । अङ्गिरः ।
 
सः । पावक । श्रुधि । हवम् ॥
 
हे “अग्ने “यं “त्वा त्वां “गोपवनः ऋषिः “गिरा स्तुत्या "चनिष्ठत् अतिशयेनान्नप्रदातारमकरोत् “सः तादृशाग्ने “अङ्गिरः सर्वत्र गन्तरङ्गिरसां मध्य एक वा "पावक शोधक “हवं गोपवनस्य “श्रुधि शृणु ॥
 
 
यं त्वा॒ जना॑स॒ ईळ॑ते स॒बाधो॒ वाज॑सातये ।
 
स बो॑धि वृत्र॒तूर्ये॑ ॥१२
 
यम् । त्वा॒ । जना॑सः । ईळ॑ते । स॒ऽबाधः॑ । वाज॑ऽसातये ।
 
सः । बो॒धि॒ । वृ॒त्र॒ऽतूर्ये॑ ॥
 
यम् । त्वा । जनासः । ईळते । सऽबाधः । वाजऽसातये ।
 
सः । बोधि । वृत्रऽतूर्ये ॥
 
हे अग्ने “यं “त्वा त्वां “जनासः जनाः स्तोतारो वा “वाजसातये अन्नस्य लाभाय “सबाधः निर्बन्धरूपबाधोपेताः सन्तः “ईळते स्तुवन्ति “सः त्वं “वृत्रतूर्ये वैरिनाशनाय पापक्षयाय वा “बोधि बुध्यस्व । अथवा वृत्रतूर्ये संग्रामे बोधि ।।
 
 
अ॒हं हु॑वा॒न आ॒र्क्षे श्रु॒तर्व॑णि मद॒च्युति॑ ।
 
शर्धां॑सीव स्तुका॒विनां॑ मृ॒क्षा शी॒र्षा च॑तु॒र्णां ॥१३
 
अ॒हम् । हु॒वा॒नः । आ॒र्क्षे । श्रु॒तर्व॑णि । म॒द॒ऽच्युति॑ ।
 
शर्धां॑सिऽइव । स्तु॒का॒ऽविना॑म् । मृ॒क्षा । शी॒र्षा । च॒तु॒र्णाम् ॥
 
अहम् । हुवानः । आर्क्षे । श्रुतर्वणि । मदऽच्युति ।
 
शर्धांसिऽइव । स्तुकाऽविनाम् । मृक्षा । शीर्षा । चतुर्णाम् ॥
 
“अहम् ऋषिः "हुवानः हूयमानो यज्ञदिदृक्षार्थं “श्रुतर्वणि एतन्नाम्नि राजनि “मदच्युति शत्रूणां मदस्य च्यावयितरि “स्तुकाविनाम् । स्तुकाविन ऊर्णायवः । स्तुकः केशसंघातः । तद्वतां “शर्धांसीव उच्छ्रितानि लोमानीव तानि यथा स्पृशन्ति तद्वत् "वृक्षा वृक्षाणि । वृश्च्यन्त इति वृक्षाः केशाः । तद्वन्ति वृक्षाणि "शीर्षा शीर्षाणि शिरांसि । केषाम् । "चतुर्णां श्रुतर्वणा प्रदत्तानामश्वानां शिरांस्युन्मृजामीति शेषः । अथवा वृक्षा वृक्षेण । व्रश्चनसाधनत्वाद्वृक्षो हस्तः । तेनोन्मृजामि ॥
 
 
मां च॒त्वार॑ आ॒शवः॒ शवि॑ष्ठस्य द्रवि॒त्नवः॑ ।
 
सु॒रथा॑सो अ॒भि प्रयो॒ वक्ष॒न्वयो॒ न तुग्र्यं॑ ॥१४
 
माम् । च॒त्वारः॑ । आ॒शवः॑ । शवि॑ष्ठस्य । द्र॒वि॒त्नवः॑ ।
 
सु॒ऽरथा॑सः । अ॒भि । प्रयः॑ । वक्ष॑न् । वयः॑ । न । तुग्र्य॑म् ॥
 
माम् । चत्वारः । आशवः । शविष्ठस्य । द्रवित्नवः ।
 
सुऽरथासः । अभि । प्रयः । वक्षन् । वयः । न । तुग्र्यम् ॥
 
"मां “शविष्ठस्य अतिशयेनान्नवतः श्रुतर्वणो राज्ञः संबन्धिनः “चत्वारः “आशवः अश्वाः “द्रवित्नवः गमनशीलाः “सुरथासः शोभनरथा अश्वाः “प्रयः अन्नं शत्रूणां प्रति “अभि “वक्षन् अभिवहन्ति । "वयो’ “न “तुग्र्यम्। भुज्युं यथाश्विभ्यां प्रेरिताश्चतस्रो नावः स्वगृहं प्रापयन् तद्वदिति ॥
 
 
स॒त्यमित्त्वा॑ महेनदि॒ परु॒ष्ण्यव॑ देदिशं ।
 
नेमा॑पो अश्व॒दात॑रः॒ शवि॑ष्ठादस्ति॒ मर्त्यः॑ ॥१५
 
स॒त्यम् । इत् । त्वा॒ । म॒हे॒ऽन॒दि॒ । परु॑ष्णि । अव॑ । दे॒दि॒श॒म् ।
 
न । ई॒म् । आ॒पः॒ । अ॒श्व॒ऽदात॑रः । शवि॑ष्ठात् । अ॒स्ति॒ । मर्त्यः॑ ॥
 
सत्यम् । इत् । त्वा । महेऽनदि । परुष्णि । अव । देदिशम् ।
 
न । ईम् । आपः । अश्वऽदातरः । शविष्ठात् । अस्ति । मर्त्यः ॥
 
हे “महेनदि “परुष्णि एतन्नामिके “त्वा त्वां “सत्यमित् सत्यमेव “अव “देदिशम् आदिशामि वदामि । नद्याकारेण संबोध्यापः संबोधयति । हे “आपः "ईम् अस्मात् "शविष्ठात् बलवत्तमाच्छ्रुतर्वणोऽधिकः कश्चित् “अश्वदातरः अश्वानां दातृतमः “मर्त्यः “न “अस्ति । परुष्ण्यास्तीरे राज्ञोऽश्वमेधप्रतिग्रहात्तां संबोध्य ब्रूते ॥ ॥ २३ ॥
}}
{{ऋग्वेदः मण्डल ८}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.७४" इत्यस्माद् प्रतिप्राप्तम्