"ऋग्वेदः सूक्तं ८.१०३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
}}
 
<poem><span style="font-size: 14pt; line-height: 200%">
 
<div class="verse">
<pre>
अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः ।
उपो षु जातमार्यस्य वर्धनमग्निं नक्षन्त नो गिरः ॥१॥
Line ४१ ⟶ ३९:
सोभर्या उप सुष्टुतिं मादयस्व स्वर्णरे ॥१४॥
 
</prespan></poem>
 
</div>
 
{{सायणभाष्यम्|
‘ अदर्शि' इति चतुर्दशर्च दशमं सूक्तं काण्वस्य सोभरेरार्षम् । अत्रानुक्रम्यते--’ अदर्शि षळूना सोभरिर्बार्हतं पञ्चम्याद्ययुजः सतोबृहत्योऽष्टम्यादियुजः ककुब्गायत्री ककुबनुष्टुबन्त्याग्निमारुती इति । पञ्चमीसप्तमीनवम्येकादशीत्रयोदश्यः पञ्च सतोबृहत्यः । अष्टमीद्वादश्यौ ककुभौ दशमी गायत्री चतुर्दश्यनुष्टुप् । शिष्टा बृहत्यः । ‘आग्नेयं तु ' इत्युक्तत्वादग्निर्देवता । अन्त्यायास्त्वग्निर्मरुतश्च । प्रातरनुवाकस्याग्नेये क्रतौ बार्हते छन्दस्यादितः सप्तर्चः । सूत्रितं च -- अदर्शि गातुवित्तम इति सप्तेति बार्हतम्' (आश्व. श्रौ. ४. १३)। आभिप्लविकेषूक्थ्येषु मैत्रावरुणस्य ‘प्र मंहिष्ठाय' इति वैकल्पिकः स्तोत्रियस्तृचः । सूत्रितं च--- प्र मंहिष्ठाय गायत प्र सो अग्ने तवोतिभिः ' ( आश्व. श्रौ. ७. ८) इति । अध्यायोपाकरणोत्सर्जनयोर्मण्डलान्त्यहोमे ‘ आग्ने याहि' इत्येषा । सूत्रितं च---' मा चिदाग्ने याहि मरुत्सखा यत्ते राजन्नग्ने' ( आश्व. गृ. ३. ५, ७) इति ॥
 
 
अद॑र्शि गातु॒वित्त॑मो॒ यस्मि॑न्व्र॒तान्या॑द॒धुः ।
 
उपो॒ षु जा॒तमार्य॑स्य॒ वर्ध॑नम॒ग्निं न॑क्षंत नो॒ गिरः॑ ॥१
 
अद॑र्शि । गा॒तु॒वित्ऽत॑मः । यस्मि॑न् । व्र॒तानि॑ । आ॒ऽद॒धुः ।
 
उपो॒ इति॑ । सु । जा॒तम् । आर्य॑स्य । वर्ध॑नम् । अ॒ग्निम् । न॒क्ष॒न्त॒ । नः॒ । गिरः॑ ॥
 
अदर्शि । गातुवित्ऽतमः । यस्मिन् । व्रतानि । आऽदधुः ।
 
उपो इति । सु । जातम् । आर्यस्य । वर्धनम् । अग्निम् । नक्षन्त । नः । गिरः ॥
 
"यस्मिन् अग्नौ "व्रतानि कर्माणि “आदधुः यजमाना आदधन् "गातुवित्तमः अतिशयेन मार्गाणां ज्ञाता सोऽग्निः "अदर्शि प्रादुरभूत् । किंच "सु "जातं सम्यक् प्रादुर्भूतम् अस्य “आर्यस्य उत्तमवर्णस्य “वर्धनं वर्धयितारम् "अग्निं "नः अस्माकं "गिरः स्तुतिरूपा वाचः "उपो “नक्षन्त उपगच्छन्त्येव ।। " नक्ष गतौ ' इति धातुः ॥
 
 
प्र दैवो॑दासो अ॒ग्निर्दे॒वाँ अच्छा॒ न म॒ज्मना॑ ।
 
अनु॑ मा॒तरं॑ पृथि॒वीं वि वा॑वृते त॒स्थौ नाक॑स्य॒ सान॑वि ॥२
 
प्र । दैवः॑ऽदासः । अ॒ग्निः । दे॒वान् । अच्छ॑ । न । म॒ज्मना॑ ।
 
अनु॑ । मा॒तर॑म् । पृ॒थि॒वीम् । वि । व॒वृ॒ते॒ । त॒स्थौ । नाक॑स्य । सान॑वि ॥
 
प्र । दैवःऽदासः । अग्निः । देवान् । अच्छ । न । मज्मना ।
 
अनु । मातरम् । पृथिवीम् । वि । ववृते । तस्थौ । नाकस्य । सानवि ॥
 
“दैवोदासः दिवोदासेनाहूयमानः "अग्निः "मातरम् । सर्वस्य लोकस्य धारणवत्त्वात् पृथिवी माता । तां "पृथिवीम् “अच्छ प्रति “देवान् तस्य दिवोदासस्य यज्ञे देवान् “अनु प्रति हविर्वोढुं "न “प्र “वि “वावृते । यस्मादेनमग्निं दिवोदासः “मज्मना बलेन आजुहाव तस्मादयमग्निः “नाकस्य स्वर्गस्य "सानवि समुच्छ्रिते देशे स्वायतन एव "तस्थौ अतिष्ठत् ॥
 
 
यस्मा॒द्रेजं॑त कृ॒ष्टय॑श्च॒र्कृत्या॑नि कृण्व॒तः ।
 
स॒ह॒स्र॒सां मे॒धसा॑ताविव॒ त्मना॒ग्निं धी॒भिः स॑पर्यत ॥३
 
यस्मा॑त् । रेज॑न्त । कृ॒ष्टयः॑ । च॒र्कृत्या॑नि । कृ॒ण्व॒तः ।
 
स॒ह॒स्र॒ऽसाम् । मे॒धसा॑तौऽइव । त्मना॑ । अ॒ग्निम् । धी॒भिः । स॒प॒र्य॒त॒ ॥
 
यस्मात् । रेजन्त । कृष्टयः । चर्कृत्यानि । कृण्वतः ।
 
सहस्रऽसाम् । मेधसातौऽइव । त्मना । अग्निम् । धीभिः । सपर्यत ॥
 
"यस्मात् कारणात् "चर्कृत्यानि कर्तव्यानि कर्माणि "कृण्वतः कुर्वाणात् मनुष्यात् "कृष्टयः इतरे मनुष्याः “रेजन्ते कम्पन्ते तस्मादिदानीं हे जनाः यूयं "सहस्रसां गवां धनानां च सहस्रस्य दातारम् "अग्निं "मेधसातौ यज्ञे “धीभिः कर्तव्यैः कर्मभिः “त्मना आत्मनैव "सपर्यत परिचरत ॥
 
 
प्र यं रा॒ये निनी॑षसि॒ मर्तो॒ यस्ते॑ वसो॒ दाश॑त् ।
 
स वी॒रं ध॑त्ते अग्न उक्थशं॒सिनं॒ त्मना॑ सहस्रपो॒षिणं॑ ॥४
 
प्र । यम् । रा॒ये । निनी॑षसि । मर्तः॑ । यः । ते॒ । व॒सो॒ इति॑ । दाश॑त् ।
 
सः । वी॒रम् । ध॒त्ते॒ । अ॒ग्ने॒ । उ॒क्थ॒ऽशं॒सिन॑म् । त्मना॑ । स॒ह॒स्र॒ऽपो॒षिण॑म् ॥
 
प्र । यम् । राये । निनीषसि । मर्तः । यः । ते । वसो इति । दाशत् ।
 
सः । वीरम् । धत्ते । अग्ने । उक्थऽशंसिनम् । त्मना । सहस्रऽपोषिणम् ॥
 
हे "वसो वासक "अग्ने त्वं “यं तव स्तोतारं "राये धनार्थं “प्र “निनीषसि प्रणेतुमिच्छसि “यः च “मर्तः मनुष्यः “ते तुभ्यं "दाशत् हवींषि प्रयच्छति "सः मनुष्यः "उक्थशंसिनम् उक्थानां शंसितारं "त्मना आत्मनैव सहस्रपोषिर्ण बहुधनं "वीरं पुत्रं “धत्ते धारयति ॥
 
 
स दृ॒ळ्हे चि॑द॒भि तृ॑णत्ति॒ वाज॒मर्व॑ता॒ स ध॑त्ते॒ अक्षि॑ति॒ श्रवः॑ ।
 
त्वे दे॑व॒त्रा सदा॑ पुरूवसो॒ विश्वा॑ वा॒मानि॑ धीमहि ॥५
 
सः । दृ॒ळ्हे । चि॒त् । अ॒भि । तृ॒ण॒त्ति॒ । वाज॑म् । अर्व॑ता । सः । ध॒त्ते॒ । अक्षि॑ति । श्रवः॑ ।
 
त्वे इति॑ । दे॒व॒ऽत्रा । सदा॑ । पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो । विश्वा॑ । वा॒मानि॑ । धी॒म॒हि॒ ॥
 
सः । दृळ्हे । चित् । अभि । तृणत्ति । वाजम् । अर्वता । सः । धत्ते । अक्षिति । श्रवः ।
 
त्वे इति । देवऽत्रा । सदा । पुरुवसो इति पुरुऽवसो । विश्वा । वामानि । धीमहि ॥
 
हे “पुरूवसो बहुधनाग्ने यस्तुभ्यं हवींषि प्रयच्छति "सः यजमानः “दृळ्हे "चित् दृढेऽपि शत्रुपुरे स्थितं “वाजम् अन्नम् "अर्वता अश्वेन "अभि "तृणत्ति हिनस्ति । तथा "सः यजमानः "अक्षिति अक्षीणं “श्रवः अन्नं “धत्ते धारयति । तथा च सति तुभ्यं हविषां प्रदातारो वयमपि "देवत्रा देवे “त्वे त्वयि स्थिताः "विश्वा सर्वाणि "वामानि वननीयानि धनानि "सदा सर्वदा “धीमहि धारयाम ॥ ॥ १३ ॥
 
 
यो विश्वा॒ दय॑ते॒ वसु॒ होता॑ मं॒द्रो जना॑नां ।
 
मधो॒र्न पात्रा॑ प्रथ॒मान्य॑स्मै॒ प्र स्तोमा॑ यंत्य॒ग्नये॑ ॥६
 
यः । विश्वा॑ । दय॑ते । वसु॑ । होता॑ । म॒न्द्रः । जना॑नाम् ।
 
मधोः॑ । न । पात्रा॑ । प्र॒थ॒मानि॑ । अ॒स्मै॒ । प्र । स्तोमाः॑ । य॒न्ति॒ । अ॒ग्नये॑ ॥
 
यः । विश्वा । दयते । वसु । होता । मन्द्रः । जनानाम् ।
 
मधोः । न । पात्रा । प्रथमानि । अस्मै । प्र । स्तोमाः । यन्ति । अग्नये ॥
 
“होता देवानामाह्वाता "मन्द्रः मोदमानः "यः अग्निः "विश्वा सर्वाणि "वसु वसूनि धनानि “जनानां जनेभ्यः "दयते प्रयच्छति तस्मै “अस्मै “अग्नये "मधोर्न मदकरस्य सोमस्येव "प्रथमानि मुख्यानि पात्राणि “स्तोमाः “प्र “यन्ति प्रगच्छन्ति ।।
 
 
अश्वं॒ न गी॒र्भी र॒थ्यं॑ सु॒दान॑वो मर्मृ॒ज्यंते॑ देव॒यवः॑ ।
 
उ॒भे तो॒के तन॑ये दस्म विश्पते॒ पर्षि॒ राधो॑ म॒घोनां॑ ॥७
 
अश्व॑म् । न । गीः॒ऽभिः । र॒थ्य॑म् । सु॒ऽदान॑वः । म॒र्मृ॒ज्यन्ते॑ । दे॒व॒ऽयवः॑ ।
 
उ॒भे इति॑ । तो॒के इति॑ । तन॑ये । द॒स्म॒ । वि॒श्प॒ते॒ । पर्षि॑ । राधः॑ । म॒घोना॑म् ॥
 
अश्वम् । न । गीःऽभिः । रथ्यम् । सुऽदानवः । मर्मृज्यन्ते । देवऽयवः ।
 
उभे इति । तोके इति । तनये । दस्म । विश्पते । पर्षि । राधः । मघोनाम् ॥
 
हे "दस्म दर्शनीय विश्पते विशां पतेऽग्ने यं त्वां "सुदानवः शोभनदानाः "देवयवः देवानात्मन इच्छन्तो यजमानाः “रथ्यं रथस्य वोढारम् "अश्वं “न अश्वमिव “गीर्भिः स्तुतिभिः “मर्मृज्यन्ते परिचरन्ति स त्वमस्माकं यजमानानां “तोके पुत्रे "तनये पौत्रे च "उभे उभयस्मिन् "मघोनां धनवतां “रायः धनं "पर्षि प्रयच्छ ।
 
 
प्र मंहि॑ष्ठाय गायत ऋ॒ताव्ने॑ बृह॒ते शु॒क्रशो॑चिषे ।
 
उप॑स्तुतासो अ॒ग्नये॑ ॥८
 
प्र । मंहि॑ष्ठाय । गा॒य॒त॒ । ऋ॒तऽव्ने॑ । बृ॒ह॒ते । शु॒क्रऽशो॑चिषे ।
 
उप॑ऽस्तुतासः । अ॒ग्नये॑ ॥
 
प्र । मंहिष्ठाय । गायत । ऋतऽव्ने । बृहते । शुक्रऽशोचिषे ।
 
उपऽस्तुतासः । अग्नये ॥
 
हे यूयम् "उपस्तुतासः उपस्तोतारः "मंहिष्ठाय दातृतमाय “ऋताव्ने यज्ञवते सत्यवते वा “बृहते महते “शुक्रशोचिषे दीप्ततेजसे “अग्नये “प्र “गायत स्तोत्रं पठत ॥
 
 
आ वं॑सते म॒घवा॑ वी॒रव॒द्यशः॒ समि॑द्धो द्यु॒म्न्याहु॑तः ।
 
कु॒विन्नो॑ अस्य सुम॒तिर्नवी॑य॒स्यच्छा॒ वाजे॑भिरा॒गम॑त् ॥९
 
आ । वं॒स॒ते॒ । म॒घऽवा॑ । वी॒रऽव॑त् । यशः॑ । सम्ऽइ॑द्धः । द्यु॒म्नी । आऽहु॑तः ।
 
कु॒वित् । नः॒ । अ॒स्य॒ । सु॒ऽम॒तिः । नवी॑यसी । अच्छ॑ । वाजे॑भिः । आ॒ऽगम॑त् ॥
 
आ । वंसते । मघऽवा । वीरऽवत् । यशः । सम्ऽइद्धः । द्युम्नी । आऽहुतः ।
 
कुवित् । नः । अस्य । सुऽमतिः । नवीयसी । अच्छ । वाजेभिः । आऽगमत् ॥
 
मघवा धनवान् “द्युम्नी अन्नवान् यशस्वी वा । तथा च यास्कः---‘द्युम्नं द्योततेर्यशो वान्नं वा' (निरु. ५. ५) इति । “यशः यशस्करमन्नम् “आ “वंसते यजमानेभ्य आ प्रयच्छति। "अस्य अग्नेः "नवीयसी नवतरा "सुमतिः अनुग्रहबुद्धिः "नः अस्मान् “अच्छ' प्रति “वाजेभिः अन्नैः सह “कुवित् बहुवारम्'। 'सलिलं कुवित्' इति बहुनामसु पाठात् । "आगमत् आगच्छतु॥
 
 
प्रेष्ठ॑मु प्रि॒याणां॑ स्तु॒ह्या॑सा॒वाति॑थिं ।
 
अ॒ग्निं रथा॑नां॒ यमं॑ ॥१०
 
प्रेष्ठ॑म् । ऊं॒ इति॑ । प्रि॒याणा॑म् । स्तु॒हि । आ॒सा॒व॒ । अति॑थिम् ।
 
अ॒ग्निम् । रथा॑नाम् । यम॑म् ॥
 
प्रेष्ठम् । ऊं इति । प्रियाणाम् । स्तुहि । आसाव । अतिथिम् ।
 
अग्निम् । रथानाम् । यमम् ॥
 
हे "आसाव स्तोतः "प्रियाणां "प्रेष्ठं प्रियतमम् "अतिथिम् अभ्यागतं “रथानां “यमं यन्तारम् “अग्निम् एव "स्तुहि ॥ ॥ १४ ॥
 
 
उदि॑ता॒ यो निदि॑ता॒ वेदि॑ता॒ वस्वा य॒ज्ञियो॑ व॒वर्त॑ति ।
 
दु॒ष्टरा॒ यस्य॑ प्रव॒णे नोर्मयो॑ धि॒या वाजं॒ सिषा॑सतः ॥११
 
उत्ऽइ॑ता । यः । निऽदि॑ता । वेदि॑ता । वसु॑ । आ । य॒ज्ञियः॑ । व॒वर्त॑ति ।
 
दु॒स्तराः॑ । यस्य॑ । प्र॒व॒णे । न । ऊ॒र्मयः॑ । धि॒या । वाज॑म् । सिसा॑सतः ॥
 
उत्ऽइता । यः । निऽदिता । वेदिता । वसु । आ । यज्ञियः । ववर्तति ।
 
दुस्तराः । यस्य । प्रवणे । न । ऊर्मयः । धिया । वाजम् । सिसासतः ॥
 
“वेदिता वेत्ता "यज्ञियः यज्ञार्हः “यः अग्निः "उदिता उदितान्युद्गतानि “निदिता निदितानि श्रुतानि च “वसु वसूनि धनानि “आ “ववर्तति आवर्तयति। “धिया कर्मणा “वाजं संग्राम "सिषासतः संभक्तुमिच्छतः "यस्य चाग्नेर्ज्वालाः “प्रवणे "नोर्मयः प्रवणाभिमुखाः समुद्रस्य तरङ्गा इव “दुष्टराः तर्तुमशक्याः । तमग्निं हे स्तोतः स्तुहीत्यर्थः ॥
 
 
मा नो॑ हृणीता॒मति॑थि॒र्वसु॑र॒ग्निः पु॑रुप्रश॒स्त ए॒षः ।
 
यः सु॒होता॑ स्वध्व॒रः ॥१२
 
मा । नः॒ । हृ॒णी॒ता॒म् । अति॑थिः । वसुः॑ । अ॒ग्निः । पु॒रु॒ऽप्र॒श॒स्तः । ए॒षः ।
 
यः । सु॒ऽहोता॑ । सु॒ऽअ॒ध्व॒रः ॥
 
मा । नः । हृणीताम् । अतिथिः । वसुः । अग्निः । पुरुऽप्रशस्तः । एषः ।
 
यः । सुऽहोता । सुऽअध्वरः ॥
 
“वसुः वासकः “अतिथिः अतिथिवत् प्रियः “पुरुप्रशस्तः बहुभिः स्तुतः "सुहोता सुष्ठु देवानामाह्वाता "स्वध्वरः सुयज्ञश्च "यः “अग्निः सः "एषः अग्निः "नः अस्मभ्यं "मा “हृणीतां केनापि न रुध्यताम् । केनाप्यनवरुद्धः सन् अग्निः अस्मभ्यमभीष्टं प्रयच्छत्वित्यर्थः ॥
 
 
मो ते रि॑ष॒न्ये अच्छो॑क्तिभिर्व॒सोऽग्ने॒ केभि॑श्चि॒देवैः॑ ।
 
की॒रिश्चि॒द्धि त्वामीट्टे॑ दू॒त्या॑य रा॒तह॑व्यः स्वध्व॒रः ॥१३
 
मो इति॑ । ते । रि॒ष॒न् । ये । अच्छो॑क्तिऽभिः । व॒सो॒ इति॑ । अग्ने॑ । केभिः॑ । चि॒त् । एवैः॑ ।
 
की॒रिः । चि॒त् । हि । त्वाम् । ईट्टे॑ । दू॒त्या॑य । रा॒तऽह॑व्यः । सु॒ऽअ॒ध्व॒रः ॥
 
मो इति । ते । रिषन् । ये । अच्छोक्तिऽभिः । वसो इति । अग्ने । केभिः । चित् । एवैः ।
 
कीरिः । चित् । हि । त्वाम् । ईट्टे । दूत्याय । रातऽहव्यः । सुऽअध्वरः ॥
 
हे वसो वासक “अग्ने त्वां ये मनुष्याः”अच्छोक्तिभिः अभिष्टुतिभिः "केभिः कैः सुखकरैः “एवैः "चित् अभिगमनैरपि ते स्तोतारः "मो “रिषन् मैव हिंसन्ताम् । रातहव्यः दत्तहविष्कः “कीरिश्चित् स्तोतापि “दूत्याय हविर्वहनादिलक्षणीय दूतकर्मणे “त्वामी “हि स्तौति खलु ॥
 
 
आग्ने॑ याहि म॒रुत्स॑खा रु॒द्रेभिः॒ सोम॑पीतये ।
 
सोभ॑र्या॒ उप॑ सुष्टु॒तिं मा॒दय॑स्व॒ स्व॑र्णरे ॥१४
 
आ । अ॒ग्ने॒ । या॒हि॒ । म॒रुत्ऽस॑खा । रु॒द्रेभिः॑ । सोम॑ऽपीतये ।
 
सोभ॑र्याः । उप॑ । सु॒ऽस्तु॒तिम् । मा॒दय॑स्व । स्वः॑ऽनरे ॥
 
आ । अग्ने । याहि । मरुत्ऽसखा । रुद्रेभिः । सोमऽपीतये ।
 
सोभर्याः । उप । सुऽस्तुतिम् । मादयस्व । स्वःऽनरे ॥
 
हे "अग्ने “मरुत्सखा मरुतां प्रियस्त्वं "स्वर्णरे अस्माकं यजनलक्षणे कर्मणि "सोमपीतये सोमपानाय "रुद्रेभिः रुदैर्मरुद्भिः सह “आ "याहि आगच्छ । "सोभर्याः सोभरेर्मम "सुष्टुतिं शोभनां स्तुतिं चोपागच्छ । "मादयस्व । स्तुतिं श्रुत्वा सोमं पीत्वात्मानं मादय च ॥ ॥ १५ ॥
}}
 
 
{{ऋग्वेदः मण्डल ८}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.१०३" इत्यस्माद् प्रतिप्राप्तम्