"ऋग्वेदः सूक्तं १०.४६" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
}}
 
<poem><span style="font-size: 14pt; line-height:200%">
 
<div class="verse">
<pre>
प्र होता जातो महान्नभोविन्नृषद्वा सीददपामुपस्थे ।
दधिर्यो धायि स ते वयांसि यन्ता वसूनि विधते तनूपाः ॥१॥
स यामन्नग्ने स्तुवते वयो धाः प्र देवयन्यशसः सं हि पूर्वीः ॥१०॥
 
</prespan></poem>
 
</div>
 
{{सायणभाष्यम्|
॥ श्रीगणेशाय नमः ॥
 
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
 
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
 
सप्तमेऽष्टममध्यायं व्याख्यायाचार्यवंशजः ।।
 
अष्टमे सायणाचार्य आदिमं व्याकरोत्यथ ॥
 
‘ अच्छा म' इति चतुर्थेऽनुवाकेऽष्टादश सूक्तानि । तत्र ‘प्र होता' इति दशर्चं चतुर्थं सूक्तम् । ‘ प्र होता दश' इत्यनुक्रान्तम् । अनुवर्तनाद्भालन्दनस्य वत्सप्रेरार्षम् । अनादेशपरिभाषया त्रैष्टुभमाग्नेयम् । पूर्वसूक्तेन सहोक्तो विनियोगः ॥
 
 
प्र होता॑ जा॒तो म॒हान्न॑भो॒विन्नृ॒षद्वा॑ सीदद॒पामु॒पस्थे॑ ।
 
दधि॒र्यो धायि॒ स ते॒ वयां॑सि यं॒ता वसू॑नि विध॒ते त॑नू॒पाः ॥१
 
प्र । होता॑ । जा॒तः । म॒हान् । न॒भः॒ऽवित् । नृ॒ऽसद्वा॑ । सी॒द॒त् । अ॒पाम् । उ॒पऽस्थे॑ ।
 
दधिः॑ । यः । धायि॑ । सः । ते॒ । वयां॑सि । य॒न्ता । वसू॑नि । वि॒ध॒ते । त॒नू॒ऽपाः ॥
 
प्र । होता । जातः । महान् । नभःऽवित् । नृऽसद्वा । सीदत् । अपाम् । उपऽस्थे ।
 
दधिः । यः । धायि । सः । ते । वयांसि । यन्ता । वसूनि । विधते । तनूऽपाः ॥
 
यः “नृषद्वा अग्निः “अपाम् । अन्तरिक्षनामैतत् । अन्तरिक्षस्य “उपस्थे उत्सङ्गे वैद्युतरूपेण निषण्णोऽभूत् स इदानीं होता यजमानानां होमनिष्पादकः “जातः प्रादुर्भूतः “महान् गुणैः पूज्यः “नभोवित् अन्तरिक्षस्य वेत्ता । यतस्तत्रोत्पन्नः अतस्तस्य ज्ञाता । “नृषद्वा नृषु सीदन् । सदेः क्वनिप् कृत्स्वरः । “प्र “सीदत् वेद्यां प्रसीदति । अपामुपस्थे महिषा अगृभ्णत ' ( ऋ. सं. ६. ८. ४ ) इति हि निगमः । यद्वा । अपाम् । अपसामित्यर्थः । कर्मणामुपस्थ उपस्थाने समीपे वेद्यामुक्तलक्षणः सन् । अथवा । अपामुदकानामुपस्थे मध्ये योऽग्निर्हविर्वोढुमसहमानो निगूढः स देवैः पुनः प्रार्थितः उक्तविधः सन् वेद्यां प्रसीदति । “यः अग्निः “दधिः धाता यज्ञस्य धारकः सन् “धायि वेद्यां निहितोऽभूत् “सः अग्निः हे वत्सप्रे “विधते परिचरते “ते तुभ्यं “वयांसि अन्नानि “वसूनि धनानि च "यन्ता नियमिता भवतु । किंच “तनूपाः ते तन्वः पाता च भवत्विति शेषः ॥
 
 
इ॒मं वि॒धंतो॑ अ॒पां स॒धस्थे॑ प॒शुं न न॒ष्टं प॒दैरनु॑ ग्मन् ।
 
गुहा॒ चतं॑तमु॒शिजो॒ नमो॑भिरि॒च्छंतो॒ धीरा॒ भृग॑वोऽविंदन् ॥२
 
इ॒मम् । वि॒धन्तः॑ । अ॒पाम् । स॒धऽस्थे॑ । प॒शुम् । न । न॒ष्टम् । प॒दैः । अनु॑ । ग्म॒न् ।
 
गुहा॑ । चत॑न्तम् । उ॒शिजः॑ । नमः॑ऽभिः । इ॒च्छन्तः॑ । धीराः॑ । भृग॑वः । अ॒वि॒न्द॒न् ॥
 
इमम् । विधन्तः । अपाम् । सधऽस्थे । पशुम् । न । नष्टम् । पदैः । अनु । ग्मन् ।
 
गुहा । चतन्तम् । उशिजः । नमःऽभिः । इच्छन्तः । धीराः । भृगवः । अविन्दन् ॥
 
“इमम् अग्निम् “अपाम् उदकानां “सधस्थे सहस्थाने मध्ये निगूढं “विधन्तः परिचरन्त उपचारं वदन्तो वा ऋषयश्च “पदैः पलायनमार्गव्यञ्जकैः “नष्टं चोरादिभिरपहृतं “पशुम् इव “अनु “ग्मन् अनुजग्मुः । गमेर्लुङि ‘ मन्त्रे घस' इति च्लेर्लुक् । तेषु मध्ये "गुहा गुहायां “चतन्तम् । चततिर्गतिकर्मा । अप्सु विलीनमित्यर्थः । “उशिजः कामयमानाः “नमोभिः नमस्कारैः स्तोत्रैर्वा “इच्छन्तः आत्मन इच्छन्तः “धीराः धीमन्तः “भृगवः “अविन्दन् लब्धवन्तः । अग्नेर्हविर्वोढुमसहमानस्य पलाय्याप्सु प्रवेशो देवानामन्वेषणं च ‘अग्नेस्त्रयो ज्यायांसः ' (तै. सं. २. ६. ६ ) इत्यत्र स्पष्टमाम्नातम् । अन्वेषणं कुर्वतां मध्ये भृगूणामग्निलाभः ‘इमं विधन्तो अपां सधस्थे द्वितादधुर्भृगवः' ( ऋ. सं. २. ४. २ ) इत्यत्रोक्तम् ॥
 
 
इ॒मं त्रि॒तो भूर्य॑विंददि॒च्छन्वै॑भूव॒सो मू॒र्धन्यघ्न्या॑याः ।
 
स शेवृ॑धो जा॒त आ ह॒र्म्येषु॒ नाभि॒र्युवा॑ भवति रोच॒नस्य॑ ॥३
 
इ॒मम् । त्रि॒तः । भूरि॑ । अ॒वि॒न्द॒त् । इ॒च्छन् । वै॒भु॒ऽव॒सः । मू॒र्धनि॑ । अघ्न्या॑याः ।
 
सः । शेऽवृ॑धः । जा॒तः । आ । ह॒र्म्येषु॑ । नाभिः॑ । युवा॑ । भ॒व॒ति॒ । रो॒च॒नस्य॑ ॥
 
इमम् । त्रितः । भूरि । अविन्दत् । इच्छन् । वैभुऽवसः । मूर्धनि । अघ्न्यायाः ।
 
सः । शेऽवृधः । जातः । आ । हर्म्येषु । नाभिः । युवा । भवति । रोचनस्य ॥
 
“इमं “भूरि महान्तमग्निं “वैभूवसः विभूवसः पुत्रः “त्रितः ऋषिः “इच्छन् लब्धुमिच्छन् “अघ्न्यायाः । अघ्न्या भूमिः । तस्या भूम्याः “मूर्धनि । भूम्यामित्यर्थः। तत्र “अविन्दत् लब्धवान्। “सः अग्निः “शेवृधः सुखस्य वर्धयिता सन् “हर्म्येषु यजमानगृहेषु "आ सर्वतः “जातः प्रादुर्भूतः सन् “रोचनस्य रोचमानस्य स्वर्गाख्यस्य फलस्योक्तलक्षणस्य यज्ञस्य आदित्यस्य वा "नाभिः बन्धकः “भवति ॥
 
 
मं॒द्रं होता॑रमु॒शिजो॒ नमो॑भिः॒ प्रांचं॑ य॒ज्ञं ने॒तार॑मध्व॒राणां॑ ।
 
वि॒शाम॑कृण्वन्नर॒तिं पा॑व॒कं ह॑व्य॒वाहं॒ दध॑तो॒ मानु॑षेषु ॥४
 
म॒न्द्रम् । होता॑रम् । उ॒शिजः॑ । नमः॑ऽभिः । प्राञ्च॑म् । य॒ज्ञम् । ने॒तार॑म् । अ॒ध्व॒राणा॑म् ।
 
वि॒शाम् । अ॒कृ॒ण्व॒न् । अ॒र॒तिम् । पा॒व॒कम् । ह॒व्य॒ऽवाह॑म् । दध॑तः । मानु॑षेषु ॥
 
मन्द्रम् । होतारम् । उशिजः । नमःऽभिः । प्राञ्चम् । यज्ञम् । नेतारम् । अध्वराणाम् ।
 
विशाम् । अकृण्वन् । अरतिम् । पावकम् । हव्यऽवाहम् । दधतः । मानुषेषु ॥
 
“उशिजः कामयमाना ऋत्विजः “मन्द्रं मादनीयं “होतारं होमनिष्पादकं “प्राञ्चं गार्हपत्यादाहवनीयं प्रति प्रागञ्चन्तं “यज्ञं यजनीयम् “अध्वराणां यागानां “नेतारं प्रापयितारम् “अरतिं गन्तारं सर्वदा यागगृहे वर्तमानं “पावकं शोधकं “हव्यवाहं हविषो वोढारं “मानुषेषु मनुष्येषु मध्ये “दधतः दधाना ऋत्विजः “विशां यजमानानामर्थाय । यद्वा । विशां प्रजानामरतिमर्यम् । स्वामिनमित्यर्थः । “नमोभिः नमस्कारैः । स्तुतिभिरित्यर्थः । "अकृण्वन् अकुर्वन् । सुप्रीतं कृतवन्तः ॥
 
 
प्र भू॒र्जयं॑तं म॒हां वि॑पो॒धां मू॒रा अमू॑रं पु॒रां द॒र्माणं॑ ।
 
नयं॑तो॒ गर्भं॑ व॒नां धियं॑ धु॒र्हिरि॑श्मश्रुं॒ नार्वा॑णं॒ धन॑र्चं ॥५
 
प्र । भूः॒ । जय॑न्तम् । म॒हान् । वि॒पः॒ऽधाम् । मू॒राः । अमू॑रम् । पु॒राम् । द॒र्माण॑म् ।
 
नय॑न्तः । गर्भ॑म् । व॒नाम् । धिय॑म् । धुः॒ । हिरि॑ऽश्मश्रुम् । न । अर्वा॑णम् । धन॑ऽअर्चम् ॥
 
प्र । भूः । जयन्तम् । महान् । विपःऽधाम् । मूराः । अमूरम् । पुराम् । दर्माणम् ।
 
नयन्तः । गर्भम् । वनाम् । धियम् । धुः । हिरिऽश्मश्रुम् । न । अर्वाणम् । धनऽअर्चम् ॥
 
हे स्तोतः त्वं “जयन्तं जेतव्याञ्शत्रूञ्जयन्तं “महां महान्तं “विपोधां मेधाविनो धर्तारमग्निं “प्र “भूः प्रभव समर्थो भव । स्तोतुमिति शेषः । उद्गीथस्तु भूर्जयन्तमित्येकपदं मत्वा भूरादीँल्लोकाञ्जयन्तमिति व्याचकार । न केवलं त्वमेक एव अपि तु “मूराः मूढाः सर्वेऽपि पुरुषाः “अमूरम् अमूढं “पुरां “दर्माणं दारकम् । औणादिको मनिः । प्रत्ययस्वरः । “गर्भम् अरण्योर्गर्भभूतं “वनां वननीयम् ।' वा छन्दसि ' ( पा. सू. ६. १. १०६-१०७ ) इति वचनादमि पूर्वाभावः। “हिरिश्मश्रुं नार्वाणम् । नेत्युपमार्थीयः । श्मश्रुशब्दोऽत्र रोमसामान्यवचनः । हरितरोमोपेतमर्वाणमरणशीलमश्वमिव । उक्तलक्षणाश्ववद्धरितकेशस्थानीयज्वालोपेतं “धनर्चं प्रीणनस्तुतिम् । शकन्ध्वादित्वात् पररूपत्वम् । ईदृशमग्निं “नयन्तः हविर्भिः प्रापयन्तः “धियं कर्म स्तोत्रं वा “धुः प्रापयन्ति । ' गातिस्था' इति सिचो लुक् ॥ ॥ १ ॥
 
 
नि प॒स्त्या॑सु त्रि॒तः स्त॑भू॒यन्परि॑वीतो॒ योनौ॑ सीददं॒तः ।
 
अतः॑ सं॒गृभ्या॑ वि॒शां दमू॑ना॒ विध॑र्मणायं॒त्रैरी॑यते॒ नॄन् ॥६
 
नि । प॒स्त्या॑सु । त्रि॒तः । स्त॒भु॒ऽयन् । परि॑ऽवीतः । योनौ॑ । सी॒द॒त् । अ॒न्तरिति॑ ।
 
अतः॑ । स॒म्ऽगृभ्य॑ । वि॒शाम् । दमू॑नाः । विऽध॑र्मणा । अ॒य॒न्त्रैः । ई॒य॒ते॒ । नॄन् ॥
 
नि । पस्त्यासु । त्रितः । स्तभुऽयन् । परिऽवीतः । योनौ । सीदत् । अन्तरिति ।
 
अतः । सम्ऽगृभ्य । विशाम् । दमूनाः । विऽधर्मणा । अयन्त्रैः । ईयते । नॄन् ॥
 
“त्रितः त्रिषु स्थानेषु गार्हपत्यादिषु तायमानः “स्तभूयन् यजमानगृहान् स्तम्भयितुमिच्छन् । इच्छार्थे क्यचि तदन्ताच्छतरि रूपम् । “परिवीतः परितो ज्वालाभिर्व्याप्तः सन् "पस्त्यासु यागगृहेषु “योनौ “अन्तः स्वीये वेद्यात्मके स्थाने “नि “षीदत् निषीदति । “अतः अस्मात्स्थानात् “विशां प्रजानां संबन्धीनि हवींषि “संगृभ्य संगृह्य इन्द्रादीनुद्दिश्य प्रत्तानि चरुपुरोडाशादीनि स्वीकृत्य “दमूनाः देवेभ्यो दानमना यजमानाय वाभिमतप्रदानमनाः “विधर्मणा तासां विविधेन कर्मणा निमित्तेन दानमना देवेभ्यो दानपक्षे विविधगमनरूपेण कर्मणा “यन्त्रैः शत्रूणां नियमनैः सह “नॄन् देवान “ईयते गच्छति ॥
 
 
अ॒स्याजरा॑सो द॒माम॒रित्रा॑ अ॒र्चद्धू॑मासो अ॒ग्नयः॑ पाव॒काः ।
 
श्वि॒ती॒चयः॑ श्वा॒त्रासो॑ भुर॒ण्यवो॑ वन॒र्षदो॑ वा॒यवो॒ न सोमाः॑ ॥७
 
अ॒स्य । अ॒जरा॑सः । द॒माम् । अ॒रित्राः॑ । अ॒र्चत्ऽधू॑मासः । अ॒ग्नयः॑ । पा॒व॒काः ।
 
श्वि॒ती॒चयः॑ । श्वा॒त्रासः॑ । भु॒र॒ण्यवः॑ । व॒न॒ऽसदः॑ । वा॒यवः॑ । न । सोमाः॑ ॥
 
अस्य । अजरासः । दमाम् । अरित्राः । अर्चत्ऽधूमासः । अग्नयः । पावकाः ।
 
श्वितीचयः । श्वात्रासः । भुरण्यवः । वनऽसदः । वायवः । न । सोमाः ॥
 
अत्र बहुत्वेन स्तूयते । “अस्य यजमानस्य संबन्धिनः “अजरासः जरारहिताः “दमां दमनीयानां रक्षःप्रभृतीनाम् । दमेः क्विपि ‘सावेकाचः' इति विभक्तेरुदात्तत्वम् । तेषाम् “अरित्राः तारकाः “अर्चद्धूमासः अर्चन्तः अर्चनीया धूमा धूमोपलक्षिता ज्वाला वा येषां ते तथोक्ताः “पावकाः शोधकाः “श्वितीचयः श्वेतिमानमञ्चन्तः । श्वितिः श्वेतम् । औणादिक इः। “श्वात्रासः । क्षिप्रनामैतत् । क्षिप्रधर्मकाः “भुरण्यवः भरणशीलाः “वनर्षदः वनेषु सीदन्तः । संहितायां छान्दसं रुत्वम् । “वायवो “न “सोमाः गन्तारः सोमा इव । हविर्दातुर्यजमानस्य शीघ्रा भवन्तीति ।।
 
 
प्र जि॒ह्वया॑ भरते॒ वेपो॑ अ॒ग्निः प्र व॒युना॑नि॒ चेत॑सा पृथि॒व्याः ।
 
तमा॒यवः॑ शु॒चयं॑तं पाव॒कं मं॒द्रं होता॑रं दधिरे॒ यजि॑ष्ठं ॥८
 
प्र । जि॒ह्वया॑ । भ॒र॒ते॒ । वेपः॑ । अ॒ग्निः । प्र । व॒युना॑नि । चेत॑सा । पृ॒थि॒व्याः ।
 
तम् । आ॒यवः॑ । शु॒चय॑न्तम् । पा॒व॒कम् । म॒न्द्रम् । होता॑रम् । द॒धि॒रे॒ । यजि॑ष्ठम् ॥
 
प्र । जिह्वया । भरते । वेपः । अग्निः । प्र । वयुनानि । चेतसा । पृथिव्याः ।
 
तम् । आयवः । शुचयन्तम् । पावकम् । मन्द्रम् । होतारम् । दधिरे । यजिष्ठम् ॥
 
यः “अग्निः “जिह्वया ज्वालया “वेपः। कर्मनामैतत् । कर्मं “प्र “भरते तथा योऽग्निः “वयुनानि प्रज्ञानानि स्तोत्राणि “पृथिव्याः रक्षणाय “चेतसा अनुग्रहयुक्तेन मनसा “प्र भरते “तम् अग्निम् “आयवः गन्तारो मनुष्याः “शुचयन्तं दीप्यमानं “पावकं शोधकं मन्द्रं स्तुत्यं “होतारम् आह्वातारं होमनिष्पादकं वा “यजिष्ठम् अतिशयेन यष्टव्यं यष्टृतमं वा “दधिरे धारयन्ति ॥
 
 
द्यावा॒ यम॒ग्निं पृ॑थि॒वी जनि॑ष्टा॒माप॒स्त्वष्टा॒ भृग॑वो॒ यं सहो॑भिः ।
 
ई॒ळेन्यं॑ प्रथ॒मं मा॑त॒रिश्वा॑ दे॒वास्त॑तक्षु॒र्मन॑वे॒ यज॑त्रं ॥९
 
द्यावा॑ । यम् । अ॒ग्निम् । पृ॒थि॒वी इति॑ । जनि॑ष्टाम् । आपः॑ । त्वष्टा॑ । भृग॑वः । यम् । सहः॑ऽभिः ।
 
ई॒ळेन्य॑म् । प्र॒थ॒मम् । मा॒त॒रिश्वा॑ । दे॒वाः । त॒त॒क्षुः॒ । मन॑वे । यज॑त्रम् ॥
 
द्यावा । यम् । अग्निम् । पृथिवी इति । जनिष्टाम् । आपः । त्वष्टा । भृगवः । यम् । सहःऽभिः ।
 
ईळेन्यम् । प्रथमम् । मातरिश्वा । देवाः । ततक्षुः । मनवे । यजत्रम् ॥
 
"यमग्निं “द्यावापृथिवी द्यावापृथिव्यौ “जनिष्टाम् अजनिषाताम् । जनेर्लुङि व्यत्ययेन परस्मैपदम् । “आपः च “यम् उदपादयन् वैद्युतरूपेण “त्वष्टा च यमजनयत् “भृगवः च यं “सहोभिः बलैः स्तोत्रादिसाधनैर्लब्धवन्तः । ‘ भुगवोऽविन्दन्' (ऋ. सं. १०. ४६. २ ) इति ह्युक्तम्। किंच “ईळेन्यं स्तुत्यं यं “प्रथमं “मातरिश्वा वायुरुदपादयत् अन्ये "देवाः च “मनवे राज्ञे मनोरर्थाय “यजत्रं यष्टव्यं यमग्निं “ततक्षुः निष्पादितवन्तः ॥ ।
 
 
यं त्वा॑ दे॒वा द॑धि॒रे ह॑व्य॒वाहं॑ पुरु॒स्पृहो॒ मानु॑षासो॒ यज॑त्रं ।
 
स याम॑न्नग्ने स्तुव॒ते वयो॑ धाः॒ प्र दे॑व॒यन्य॒शसः॒ सं हि पू॒र्वीः ॥१०
 
यम् । त्वा॒ । दे॒वाः । द॒धि॒रे । ह॒व्य॒ऽवाह॑म् । पु॒रु॒ऽस्पृहः॑ । मानु॑षासः । यज॑त्रम् ।
 
सः । याम॑न् । अ॒ग्ने॒ । स्तु॒व॒ते । वयः॑ । धाः॒ । प्र । दे॒व॒ऽयन् । य॒शसः॑ । सम् । हि । पू॒र्वीः ॥
 
यम् । त्वा । देवाः । दधिरे । हव्यऽवाहम् । पुरुऽस्पृहः । मानुषासः । यजत्रम् ।
 
सः । यामन् । अग्ने । स्तुवते । वयः । धाः । प्र । देवऽयन् । यशसः । सम् । हि । पूर्वीः ॥
 
हे अग्ने “हव्यवाहं “यं “त्वा त्वां “देवा “दधिरे धारितवन्तः “मानुषासः मनुष्याश्च “पुरुस्पृहः बहुकामान् स्पृहयन्तः “यजत्रं यष्टव्यं “दधिरे धारितवन्तः हे “अग्ने “सः त्वं “यामन् यामनि यज्ञे “स्तुवते मह्यं “वयः अन्नं “धाः देहि । हे अग्ने त्वत्तः “देवयन् देवकामो यजमानः “पूर्वीः बह्वीः बहूनि “यशसः यशांसि । “सं “हि इत्युपसर्गश्रुतेर्योग्यक्रियाध्याहारः। संप्राप्नोति खलु ॥ ॥ २ ॥
}}
 
{{ऋग्वेदः मण्डल १०}}
२९,७२१

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/173690" इत्यस्माद् पुनः प्राप्तिः