"तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः ३/प्रपाठकः ०१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९२:
आपो वा अकामयन्त । समुद्रं काममभिजयेमेति । ता एतमद्भ्योऽषाढाभ्यश्चरुं निरवपन्न् । ततो वै ताः समुद्रं काममभ्यजयन् । समुद्रं ह वै काममभिजयति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अद्भ्यः स्वाहाऽषाढाभ्यः स्वाहा । समुद्राय स्वाहा कामाय स्वाहा । अभिजित्यै स्वाहेति ४५
 
विश्वे वै देवा अकामयन्त । अनपजय्यं जयेमेति । त एतं विश्वेभ्यो देवेभ्योऽषाढाभ्यश्चरुं निरवपन् । ततो वै तेऽनपजय्यमजयन्न् । अनपजय्यँ ह वै जयति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । विश्वेभ्यो देवेभ्यः स्वाहाषाढाभ्यःस्वाहाऽषाढाभ्यः स्वाहा । अनपजय्याय स्वाहा जित्यै स्वाहेति ४६
 
ब्रह्म वा अकामयत । ब्रह्मलोकमभिजयेयमिति । तदेतं ब्रह्मणेऽभिजिते चरुं निरवपत् । ततो वै तद्ब्रह्मलोकमभ्यजयत् । ब्रह्मलोकँ ह वा अभिजयति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । ब्रह्मणे स्वाहाभिजिते स्वाहा । ब्रह्मलोकाय स्वाहाभिजित्यै स्वाहेति ४७