"ऋग्वेदः सूक्तं १०.१८७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
}}
 
<poem><span style="font-size: 14pt; line-height: 200%">
 
 
<div class="verse">
<pre>
प्राग्नये वाचमीरय वृषभाय क्षितीनाम् ।
स नः पर्षदति द्विषः ॥१॥
Line २४ ⟶ २१:
स नः पर्षदति द्विषः ॥५॥
 
</prespan></poem>
 
</div>
 
{{सायणभाष्यम्|
'प्राग्नये' इति पञ्चर्चं षट्त्रिंशं सूक्तमग्नेः पुत्रस्य वत्सस्यार्षं गायत्रमाग्नेयम् । तथा चानुक्रान्तं ---' प्राग्नये पञ्चाग्नेयो वत्स आग्नेयं तु ' इति । प्रातरनुवाकाश्विनशस्त्रयोर्गायत्रे छन्दसीदमादिके द्वे सूक्ते। सूत्र्यते हि--' प्राग्नये वाचमिति सूक्त इमां मे अग्ने समिधम्' (आश्व. श्रौ. ४. १३) इति । दशरात्रस्य नवमेऽहन्याग्निमारुत इदं जातवेदसं निविद्धानम् । सूत्रितं च--- मरुतो यस्य हि प्राग्नये वाचमित्याग्निमारुतम् ' ( आश्व. श्रौ. ८, ११ ) इति ॥
 
 
प्राग्नये॒ वाच॑मीरय वृष॒भाय॑ क्षिती॒नां ।
 
स नः॑ पर्ष॒दति॒ द्विषः॑ ॥१
 
प्र । अ॒ग्नये॑ । वाच॑म् । ई॒र॒य॒ । वृ॒ष॒भाय॑ । क्षि॒ती॒नाम् ।
 
सः । नः॒ । प॒र्ष॒त् । अति॑ । द्विषः॑ ॥
 
प्र । अग्नये । वाचम् । ईरय । वृषभाय । क्षितीनाम् ।
 
सः । नः । पर्षत् । अति । द्विषः ॥
 
हे स्तोतः “अग्नये स्तुतिरूपां “वाचं “प्र “ईरय उच्चारय । कथंभूताय । “क्षितीनां मनुष्याणां यजमानानां “वृषभाय कामानां वर्षित्रे । किं प्रयोजनमिति चेत् । “सः अग्निः “नः अस्मान् “द्विषः द्वेष्टॄन् “अति "पर्षत् अतिपारयेत् ॥
 
 
यः पर॑स्याः परा॒वत॑स्ति॒रो धन्वा॑ति॒रोच॑ते ।
 
स नः॑ पर्ष॒दति॒ द्विषः॑ ॥२
 
यः । पर॑स्याः । प॒रा॒ऽवतः॑ । ति॒रः । धन्व॑ । अ॒ति॒ऽरोच॑ते ।
 
सः । नः॒ । प॒र्ष॒त् । अति॑ । द्विषः॑ ॥
 
यः । परस्याः । पराऽवतः । तिरः । धन्व । अतिऽरोचते ।
 
सः । नः । पर्षत् । अति । द्विषः ॥
 
“यः अग्निः “परस्याः “परावतः अतिशयिताद्दूरदेशात् “तिरः । प्राप्तनामैतत् । प्राप्तसंबन्धं “धन्व मरुभूमिं जलवर्जितं देशम् “अतिरोचते अतिक्रम्य प्रज्वलति । यद्वा । धन्व अन्तरिक्षम् । धन्वन्यन्तरिक्षे तिरस्तिर्यगतिरोचते भृशं प्रकाशते । गतमन्यत् ॥
 
 
यो रक्षां॑सि नि॒जूर्व॑ति॒ वृषा॑ शु॒क्रेण॑ शो॒चिषा॑ ।
 
स नः॑ पर्ष॒दति॒ द्विषः॑ ॥३
 
यः । रक्षां॑सि । नि॒ऽजूर्व॑ति । वृषा॑ । शु॒क्रेण॑ । शो॒चिषा॑ ।
 
सः । नः॒ । प॒र्ष॒त् । अति॑ । द्विषः॑ ॥
 
यः । रक्षांसि । निऽजूर्वति । वृषा । शुक्रेण । शोचिषा ।
 
सः । नः । पर्षत् । अति । द्विषः ॥
 
“वृषा वर्षिता "यः अग्निः “शुक्रेण निर्मलेन शुभ्रवर्णेन वा “शोचिषा तेजसा "रक्षांसि यज्ञस्य हन्तॄणि “निजूर्वति निहिनस्ति । जूर्वी हिंसार्थः । गतमन्यत् ॥
 
 
यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति ।
 
स नः॑ पर्ष॒दति॒ द्विषः॑ ॥४
 
यः । विश्वा॑ । अ॒भि । वि॒ऽपश्य॑ति । भुव॑ना । सम् । च॒ । पश्य॑ति ।
 
सः । नः॒ । प॒र्ष॒त् । अति॑ । द्विषः॑ ॥
 
यः । विश्वा । अभि । विऽपश्यति । भुवना । सम् । च । पश्यति ।
 
सः । नः । पर्षत् । अति । द्विषः ॥
 
"यः अग्निः सूर्यरूपेण “विश्वा विश्वानि सर्वाणि भूतजातानि “अभि अभिमुखं “विपश्यति विशेषेण तेजसा प्रेक्षते । प्रकाशयतीत्यर्थः । “भुवना भुवनानि भूतजातानि “सं “पश्यति “च सम्यग्जानाति च । अन्यत्सिद्धम् ॥
 
 
यो अ॒स्य पा॒रे रज॑सः शु॒क्रो अ॒ग्निरजा॑यत ।
 
स नः॑ पर्ष॒दति॒ द्विषः॑ ॥५
 
यः । अ॒स्य । पा॒रे । रज॑सः । शु॒क्रः । अ॒ग्निः । अजा॑यत ।
 
सः । नः॒ । प॒र्ष॒त् । अति॑ । द्विषः॑ ॥
 
यः । अस्य । पारे । रजसः । शुक्रः । अग्निः । अजायत ।
 
सः । नः । पर्षत् । अति । द्विषः ॥
 
“अस्य “रजसः लोकस्यान्तरिक्षस्य “पारे उपरिदेशे “शुक्रः शुभ्रवर्णः “यः “अग्निः विद्युदात्मना सूर्यात्मना वा “अजायत प्रादुर्भवति “सः “नः अस्मान् “द्विषः द्वेष्टॄन् “अति “पर्षत् अतिपारयतु ।। ॥ ४५ ॥
 
}}
{{ऋग्वेदः मण्डल १०}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१८७" इत्यस्माद् प्रतिप्राप्तम्