"आश्वलायन श्रौतसूत्रम्/अध्यायः ३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">
पशौ १ इष्टिरुभयतोऽन्यतरतो वा २ आग्नेयी वा ३ आग्नावैष्णवी वा ४ उभे वा ५ अन्यतरा पुरस्तात् ६ उक्तमग्निप्रणयनं ७ पश्चात् पाशुबन्धिकाया वेदेरुपविश्य प्रेषितो यूपायाज्यमानायाञ्जन्ति त्वामध्वरे देवयन्त इत्युत्तमेन वचनेनार्द्धर्च आरमेत् ८ उच्छ्रयस्व वनस्पते समिद्धस्य श्रयमाणः पुरस्तादूर्ध्व ऊषुण ऊतय इति द्वे जातो जायते सुदिनत्वे अह्नामित्यर्द्धर्च आरमेत् । युवा सुवासाः परिवीत आगादिति परिदध्यात् ९ यत्रैकतन्त्रे बहवः सपशवोऽन्त्यं परिधाय संस्तुयादनभिहिङ्कृत्य यान्वो नरो देवयन्तो निमिम्युरिति षड्भिः १० पञ्चभिर्वा । अनभ्यासमेके ११ उक्तमग्निमन्थनं तथा धाय्ये कृताकृतावा-ज्यभागौ । आवाहने पशुदेवताभ्यो वनस्पतिमनन्तरं १२ सम्मार्गैः सम्मृज्य प्रवृताहुतीर्जुहुयात् १३ जुष्टो वाचे भूयासं जुष्टो वाचस्पतये देवि वाक् । यद्वाचो मधुमत्तमं तस्मिन्माधाः सरस्वत्यै वाचे स्वाहा । पनरादाय पञ्चविग्राहं स्वाहा वाचे स्वाहा वाचस्पतये स्वाहा सरस्वत्यै स्वाहा सरस्वते महोभ्यः संमहेभ्यः स्वाहेति १४ सोम एवैके १५ प्रशास्तारं तीर्थेन प्रपाद्य दण्डमस्मै प्रयच्छेद्दक्षिणोत्तराभ्यां पाणिभ्यां मित्रावरुणयोस्त्वा बाहुभ्यां प्रशास्त्रोः प्रशिषा प्रयच्छामीति १६ तथायुक्ताभ्यामेवेतरो मित्रावरुणयोस्त्वा बाहुभ्यां प्रशास्त्रोः प्रशिषा प्रतिगृह्णाम्यवक्रो विथुरो भूयासमिति १७ प्रतिगृह्योत्तरेण होतारमति-व्रजेद्दक्षिणेन दण्डं हरेन्न चानेन संस्पृशेदात्मानं वान्यं वा प्रैषवचनात् १८ अन्यान्यपि यज्ञाङ्गान्युपयुक्तानि न विहारेण व्यवेयात् १९ दक्षिणो होतृषदनात् प्रह्वोऽवस्थाय वेद्यां दण्डमवष्टभ्य ब्रूयात् प्रैषांश्चादेशं २० अनुवाक्याञ्च सप्रैषे । पूर्वां प्रैषात् २१ पर्यग्निस्तोकमनीतोन्नीयमानसूक्तानि च २२ सोम आ-सीनोऽन्यत् २३ १ 3.1
 
पङ्क्तिः ७४:
 
 
</span></poem>