"ऋग्वेदः सूक्तं १.७७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
}}
 
<poem><span style="font-size: 14pt; line-height:200%">
<poem>
{|
|
कथा दाशेमाग्नये कास्मै देवजुष्टोच्यते भामिने गीः ।
यो मर्त्येष्वमृत ऋतावा होता यजिष्ठ इत्कृणोति देवान् ॥१॥
Line २२ ⟶ २०:
एवाग्निर्गोतमेभिरृतावा विप्रेभिरस्तोष्ट जातवेदाः ।
स एषु द्युम्नं पीपयत्स वाजं स पुष्टिं याति जोषमा चिकित्वान् ॥५॥
</span></poem>
|
 
 
{{सायणभाष्यम्|
'कथा' इति पञ्चर्चं चतुर्थं सूक्तं त्रैष्टुभं गोतमस्यार्षमाग्नेयम् । अनुक्रान्तं च-’ कथा ' इति । प्रातरनुवाकाश्विनशस्त्रयोः पूर्वसूक्तेन सहोक्तः सूक्तविनियोगः ॥
 
 
क॒था दा॑शेमा॒ग्नये॒ कास्मै॑ दे॒वजु॑ष्टोच्यते भा॒मिने॒ गीः ।
 
यो मर्त्ये॑ष्व॒मृत॑ ऋ॒तावा॒ होता॒ यजि॑ष्ठ॒ इत्कृ॒णोति॑ दे॒वान् ॥१
 
क॒था । दा॒शे॒म॒ । अ॒ग्नये॑ । का । अ॒स्मै॒ । दे॒वऽजु॑ष्टा । उ॒च्य॒ते॒ । भा॒मिने॑ । गीः ।
 
यः । मर्त्ये॑षु । अ॒मृतः॑ । ऋ॒तऽवा॑ । होता॑ । यजि॑ष्ठः । इत् । कृ॒णोति॑ । दे॒वान् ॥
 
कथा । दाशेम । अग्नये । का । अस्मै । देवऽजुष्टा । उच्यते । भामिने । गीः ।
 
यः । मर्त्येषु । अमृतः । ऋतऽवा । होता । यजिष्ठः । इत् । कृणोति । देवान् ॥
 
“अस्मै “अग्नये "कथा "दाशेम कथं हवींषि ददाम । अग्नेरनुरूपं यज्ञं कर्तुमशक्ता वयमित्यर्थः । अथवा अस्मै “भामिने तेजस्विनेऽग्नये "देवजुष्टा सर्वैः देवैः सेवितव्या “गीः वाक् स्तुतिरपि “का कीदृशी “उच्यते । तादृशीं स्तुतिमपि कर्तुं न शक्ता इत्यर्थः । “अमृतः मरणरहितः “ऋतावा ऋतवान् सत्यवान् यज्ञवान् वा “होता देवानामाह्वाता होमनिष्पादको वा “यजिष्ठः अतिशयेन यष्टा एवंभूतः “यः अग्निः “मर्त्येषु मरणधर्मसु अस्मासु वर्तमानः सन् "देवान् “इत् “कृणोति हविर्भिर्युक्तान्करोत्येव । तादृशायाग्नये कथा दाशेमेति पूर्वेणान्वयः ॥ कथा । ' था हेतौ च च्छन्दसि ' इति थाप्रत्ययः ।। भामिने । 'भा दीप्तौ ।' अर्तिस्तुसु° ' इत्यादिना मन्प्रत्ययः । ततो मत्वर्थीय इनिः । ऋतावा ‘ छन्दसीवनिपौ' इति मत्वर्थीयो वनिप्। “अन्येषामपि दृश्यते' इति दीर्घत्वम् ।।
 
 
यो अ॑ध्व॒रेषु॒ शंत॑म ऋ॒तावा॒ होता॒ तमू॒ नमो॑भि॒रा कृ॑णुध्वम् ।
 
अ॒ग्निर्यद्वेर्मर्ता॑य दे॒वान्स चा॒ बोधा॑ति॒ मन॑सा यजाति ॥२
 
यः । अ॒ध्व॒रेषु॑ । शम्ऽत॑मः । ऋ॒तऽवा॑ । होता॑ । तम् । ऊं॒ इति॑ । नमः॑ऽभिः । आ । कृ॒णु॒ध्व॒म् ।
 
अ॒ग्निः । यत् । वेः । मर्ता॑य । दे॒वान् । सः । च॒ । बोधा॑ति । मन॑सा । य॒जा॒ति॒ ॥
 
यः । अध्वरेषु । शम्ऽतमः । ऋतऽवा । होता । तम् । ऊं इति । नमःऽभिः । आ । कृणुध्वम् ।
 
अग्निः । यत् । वेः । मर्ताय । देवान् । सः । च । बोधाति । मनसा । यजाति ॥
 
“यः अग्निः “अध्वरेषु यागेषु “शंतमः अतिशयेन सुखकारी "ऋतावा सत्यवान् यथार्थदर्शीत्यर्थः । "होता देवानामाह्वाता भवति । हे ऋत्विग्यजमाना यूयं “तमु तमेवाग्निं “नमोभिः स्तोत्रैः "आ “कृणुध्वम् अभिमुखीकुरुत । “यत् यदा अयम् “अग्निः “मर्ताय मनुष्याय यजमानार्थं "देवान् "वेः वेति गच्छति तदानीं “सः अग्निर्यष्टव्यान् सर्वान् देवान् “बोधाति “च जानाति च । ज्ञात्वा च "मनसा नमसा तान् "यजाति हविर्भिः पूजयति । अतस्तमेवाग्निम् आ कृणुध्वमिति योज्यम् ॥ वेः । वी गत्यादिषु । 'छन्दसि लुङ्लङ्लिटः' इति वर्तमाने लङ् । तिङा तिङो भवन्ति' इति प्रथमपुरुषैकवचनस्य मध्यमपुरुषैकवचनादेशः । बोधाति । ‘बुध अवगमने'। लेटि आडागमः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । ‘चवायोगे प्रथमा' इति निघातप्रतिषेधः । मनसा। मकारनकारयोः स्थानविपर्ययः ॥
 
 
स हि क्रतु॒ः स मर्य॒ः स सा॒धुर्मि॒त्रो न भू॒दद्भु॑तस्य र॒थीः ।
 
तं मेधे॑षु प्रथ॒मं दे॑व॒यन्ती॒र्विश॒ उप॑ ब्रुवते द॒स्ममारीः॑ ॥३
 
सः । हि । क्रतुः॑ । सः । मर्यः॑ । सः । सा॒धुः । मि॒त्रः । न । भू॒त् । अद्भु॑तस्य । र॒थीः ।
 
तम् । मेधे॑षु । प्र॒थ॒मम् । दे॒व॒ऽयन्तीः॑ । विशः॑ । उप॑ । ब्रु॒व॒ते॒ । द॒स्मम् । आरीः॑ ॥
 
सः । हि । क्रतुः । सः । मर्यः । सः । साधुः । मित्रः । न । भूत् । अद्भुतस्य । रथीः ।
 
तम् । मेधेषु । प्रथमम् । देवऽयन्तीः । विशः । उप । ब्रुवते । दस्मम् । आरीः ॥
 
“स “हि अग्निः “क्रतुः कर्मणां कर्ता । “सः एव “मर्यः मारयिता विश्वस्योपसंहर्ता “साधुः साधयितोत्पादयितापि “सः एव “अद्भुतस्य अभूतस्यालब्धस्य धनस्य “रथीः रंहयिता प्रापयिता “भूत् भवति । तत्र दृष्टान्तः । "मित्रो “न । यथा सखा धनानि प्रापयति तद्वत् । एवंभूतो योऽग्निः “तम् एव “मेधेषु यज्ञेषु “देवयन्तीः देवयन्त्यो देवानात्मन इच्छन्त्यः “विशः प्रजाः “प्रथमम् “उप “ब्रुवते । स्तुतिभिरुपेत्य प्रधानभूतः इति कथयन्ति। कीदृश्यो विशः। "दस्मं दर्शनीयं तमग्निम् “आरीः गच्छन्त्यः भजन्त्यः इत्यर्थः ॥ मर्यः । मृङ् प्राणत्यागे । अस्मात् अन्तर्भावितण्यर्थात् 'छन्दसि निष्टर्क्य° ' इत्यादौ निपातनात् यत् कृत्यल्युटो बहुलम्' इति बहुलवचनात् कर्तरि द्रष्टव्यः । ‘ यतोऽनावः' इत्याद्युदात्तत्वम् । देवयन्तीः ।' वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । आरीः । ‘ऋ गतौ'। ‘ जनिघसिभ्यामिण्' (उ. सू. ४. ५६९ ) इति बहुलग्रहणादस्मादपि इण्प्रत्ययः । ‘ कृदिकारादक्तिनः' इति ङीष् । ‘वा छन्दसि ' इति पूर्वसवर्णदीर्घत्वम् । व्यत्ययेनाद्युदात्तत्वम्॥
 
 
स नो॑ नृ॒णां नृत॑मो रि॒शादा॑ अ॒ग्निर्गिरोऽव॑सा वेतु धी॒तिम् ।
 
तना॑ च॒ ये म॒घवा॑न॒ः शवि॑ष्ठा॒ वाज॑प्रसूता इ॒षय॑न्त॒ मन्म॑ ॥४
 
सः । नः॒ । नृ॒णाम् । नृऽत॑मः । रि॒शादाः॑ । अ॒ग्निः । गिरः॑ । अव॑सा । वे॒तु॒ । धी॒तिम् ।
 
तना॑ । च॒ । ये । म॒घऽवा॑नः । शवि॑ष्ठाः । वाज॑ऽप्रसूताः । इ॒षय॑न्त । मन्म॑ ॥
 
सः । नः । नृणाम् । नृऽतमः । रिशादाः । अग्निः । गिरः । अवसा । वेतु । धीतिम् ।
 
तना । च । ये । मघऽवानः । शविष्ठाः । वाजऽप्रसूताः । इषयन्त । मन्म ॥
 
"नृणां यज्ञस्य नेतॄणां मध्ये “नृतमः अतिशयेन नेता “रिशादाः रिशानां शत्रूणामत्ता भक्षयिता। यद्वा । रिशतां हिँसतामसिता निरसिता । एवंविधः “सः “अग्निः “नः अस्माकं “गिरः स्तुतीः “अवसा हविर्लक्षणेनान्नेन युक्तां “धीतिं कर्म च "वेतु कामयताम् । अपि “च "ये यजमानाः “तना । धननामैतत् । विस्तृतेन धनेन “मघवानः धनवन्तः “शविष्ठाः अतिशयेन बलिनश्च सन्तः “वाजप्रसूताः प्रसूतं प्रेरितं वाजो हविर्लक्षणमन्नं यैस्तादृशा भूत्वा “मन्म अग्नेर्मननरूपं स्तोत्रम् “इषयन्त एषयन्ति ऋत्विग्भिः कारयितुमिच्छन्ति । तेषामपि स्तुतिमग्निः कामयतामिति भावः ॥ नृणाम् । ‘ नृ च ' इति उभयथाभावात् दीर्घाभावः । ' नामन्यतरस्याम्' इति नाम उदात्तत्वम् । तना। तनु विस्तारे'। पचाद्यच् । तृतीयैकवचनस्य ‘सुपां सुलुक्' इति आकारः । वृषादेराकृतिगणवादाद्युदात्तत्वम् । शविष्ठाः । शव इति बलनाम । अस्मायामेधा ' इति मत्वर्थीयो विनिः । ततः आतिशायनिकः। इष्ठन् । ‘विन्मतोर्लुक्' इति विनो लुक् । 'टेः' इति टिलोपः । इष्ठनो नित्त्वादाद्युदात्तत्वम् । इषयन्त । ‘ इषु इच्छायाम् । अस्मात् ण्यन्तात् छान्दसो लङ् । संज्ञापूर्वकस्य विधेरनित्यत्वात् णौ लघूपधगुणाभावः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे णिच एव स्वरः शिष्यते ॥
 
 
ए॒वाग्निर्गोत॑मेभिरृ॒तावा॒ विप्रे॑भिरस्तोष्ट जा॒तवे॑दाः ।
 
स ए॑षु द्यु॒म्नं पी॑पय॒त्स वाजं॒ स पु॒ष्टिं या॑ति॒ जोष॒मा चि॑कि॒त्वान् ॥५
|}
 
</poem>{{ऋग्वेदः मण्डल १}}
ए॒व । अ॒ग्निः । गोत॑मेभिः । ऋ॒तऽवा॑ । विप्रे॑भिः । अ॒स्तो॒ष्ट॒ । जा॒तऽवे॑दाः ।
 
सः । ए॒षु॒ । द्यु॒म्नम् । पी॒प॒य॒त् । सः । वाज॑म् । सः । पु॒ष्टिम् । या॒ति॒ । जोष॑म् । आ । चि॒कि॒त्वान् ॥
 
एव । अग्निः । गोतमेभिः । ऋतऽवा । विप्रेभिः । अस्तोष्ट । जातऽवेदाः ।
 
सः । एषु । द्युम्नम् । पीपयत् । सः । वाजम् । सः । पुष्टिम् । याति । जोषम् । आ । चिकित्वान् ॥
 
“ऋतावा ऋतवान् यज्ञवान् "जातवेदाः जातधनो जातप्रज्ञो वा अयम् “अग्निः “विप्रेभिः मेधाविभिः "गौतमेभिः गोतमैर्ऋषिभिरेवमुक्तेन प्रकारेण “अस्तोष्ट स्तुतोऽभूत् । स्तुतश्च “सः अग्निः “एषु गोतमेषु “द्युम्नं द्योतमानं सोमं “पीपयत् अपिबत्। यद्वा । तानृषीन् अपाययत्। तथा “सः अग्निः “वाजं हविर्लक्षणमन्नं पीपयदित्येव । एवं सोमलक्षणं चरुपुरोडाशादिलक्षणं हविश्च स्वीकृत्य “सः अग्निः “जोषम् अस्माभिः कृतं सेवनम् “आ “चिकित्वान् आ समन्तात् जानन् “पुष्टिं “याति पोषं प्राप्नोतु । यद्वा । अस्माकं धनानि पोषं प्रापयतु । गोतमेभिः।' ऋष्यन्धकवृष्णिकुरुभ्यश्च ' (पा. सू. ४. १. ११४ ) इति विहितस्य अणः ‘अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च' (पा. सू. २. ४. ६५) इति बहुषु लुक् । अस्तोष्ट । स्तोतेः कर्मणि लुङि चिणभावश्छान्दसः । पीपयत्। 'पा पाने' ण्यन्तात् लुङि च्लेश्चङादि । जोषम् । 'जुषी प्रीतिसेवनयोः '। भावे घञ् । ञित्वादाद्युदात्तत्वम् ॥ ॥ २५ ॥
|}}
</poem>{{ऋग्वेदः मण्डल १}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.७७" इत्यस्माद् प्रतिप्राप्तम्