"ऋग्वेदः सूक्तं १.६०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २२:
आशुं न वाजम्भरं मर्जयन्तः प्रातर्मक्षू धियावसुर्जगम्यात् ॥५॥
</span></poem>
 
== ==
{{सायणभाष्यम्|
‘वह्निम्' इति पञ्चर्चं तृतीयं सूक्तं नोधस आर्षं त्रैष्टुभमाग्नेयम् । अनुक्रान्तं च-’वह्निं पञ्च' इति । प्रातरनुवाकस्याग्नये क्रतौ त्रैष्टुभे छन्दसीदं सूक्तमाश्विने शस्त्रे च । तथा च सूत्रितं - वह्निं यशसमुप प्र जिन्वन्निति त्रीणि ' ( आश्व. श्रौ. ४. १३ ) इति ॥
पङ्क्तिः ४०:
 
“वह्निं हविषां वोढारं "यशसं यशस्विनं "विदथस्य "केतुं यज्ञस्य प्रकाशयितारं "सुप्राव्यं सुष्ठु प्रकर्षेण रक्षितारं "दूतं देवैर्हविर्वहनलक्षणे दूत्ये नियुक्तं "सद्योअर्थं यदा हवींषि जुह्वति सद्यस्तदानीमेव हविर्भिः सह देवान् गन्तारम् । यद्वा। सद्यः अर्थम् अरणं गमनं यस्य तम् । "द्विजन्मानं द्वयोर्द्यावापृथिव्योररण्योर्वा जायमानं "रयिमिव धनमिव "प्रशस्तं प्रख्यातम् एवंभूतमग्निं "मातरिश्वा वायुः “भृगवे एतत्संज्ञकाय महर्षये "रातिं "भरत् मित्रमहरत् । अकरोदित्यर्थः। ‘रातिना संभाष्य' ( आप. गृ. १२. १४ ) इत्यत्र रातिर्मित्रमिति कपर्दिनोक्तम् । रातिः पुत्र इत्येके । एतदर्थप्रतिपादकं मन्त्रान्तरं च भवति- रातिं भृगूणामुशिजं कविक्रतुम्' (ऋ. सं. ३. २. ४ ) इति । वह्निम् । वहिश्रियुश्रुग्लाहात्वरिभ्यो नित्' इति वहतेर्निप्रत्ययः । निद्वद्भावादाद्युदात्तत्वम् । यशसम् । यशस्शब्दात् उत्तरस्य विनो लुक् । व्यत्ययेनान्तोदात्तत्वम् । यद्वा । अर्शआदित्वात् अच् । स्वरः पूर्ववत् । सुप्राव्यम् । सुष्ठु प्रकर्षेणावति रक्षतीति सुप्रावीः । उपसर्गद्वयोपसृष्टात् अवतेः “ अवितॄस्तृतन्त्रिभ्य ईः' ( उ. सू. ३. ४३८ ) इति ईकारप्रत्ययः । ‘वा छन्दसि' इति अमि पूर्वः' इत्यस्य विकल्पे सति यणादेशः । उदात्तस्वरितयोर्यणः' इति स्वरितत्वम् । सद्योअर्थम् । “उषिकुषिगार्तिभ्यस्थन् ' इति
अर्तेः कर्तरि थन्प्रत्ययः । सद्य एवार्थों गन्ता सद्योअर्थः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । यदि तु ‘अव्यये नञ्कुनिपातानामिति वक्तव्यम् ' (पा. सू. ६. २. २. ३ ) इति अव्ययग्रहणेन त्रितयं गृह्येत तर्हि बहुव्रीहिस्वरो भविष्यति । मातरिश्वा । सर्वनिर्माणहेतुत्वात् माता अन्तरिक्षम् । श्वसितिरत्र गतिकर्मा। मातरि अन्तरिक्षे श्वसिति गच्छतीति मातरिश्वा । ‘ श्वन्नुक्षन्' इत्यादौ निपातनात् रूपसिद्धिः । यद्वा । मातरि अन्तरिक्षे शु आशु असति गच्छतीति मातरिश्वा । ‘ अस गतिदीप्त्यादानेषु ' इत्यस्मात् औणादिको ड्वन्प्रत्ययः । एतच्च यास्केनोक्तम् ( निरु. ७. २६ ) ॥
 
 
Line ५३ ⟶ ५४:
 
दिवः । चित् । पूर्वः । नि । असादि । होता । आऽपृच्छ्यः । विश्पतिः । विक्षु । वेधाः ॥
 
“शासुः शासितुः “अस्य अग्नेः “उभयासः उभयेऽपि देवा मनुष्याश्च । यद्वा । स्तुतिभिः स्तोतारो यज्ञैर्यजमानाश्च इममग्निं शासितारं “सचन्ते सेवन्ते। “उशिजः कामयमाना देवाः “हविष्मन्तः हविषा युक्ताः "ये “च “मर्ताः मरणधर्माणो यजमानाः । यद्वा । उशिजः इति मेधाविनाम । उशिजः मेधाविनः स्तोतारो हविष्मन्तः हविर्युक्ताः मर्ताः यजमानाः । किंच अयं “होता होमनिष्पादकोऽग्निः "दिवश्चित् आदित्यादपि “पूर्वः उषःसु वर्तमानो भूत्वा अग्निहोत्रहोमार्थं "विक्षु यजमानेषु “न्यसादि अध्वर्युणा अग्न्यायतने न्यधायि स्थाप्यते । कीदृशो होता । “आपृच्छ्यः आप्रष्टव्यः पूज्य इत्यर्थः। “विश्पतिः विशां प्रजानां पालयिता “वेधाः विधाताभिमतफलस्य कर्ता ॥ शासुः। शासु अनुशिष्टौ'। तृन्तृचौ शंसिशसिशासिक्षदादिभ्यः संज्ञायां चानिटौ ' (उ. सू. २. २५०) इति तृन् इडागमाभावश्च । षष्ठ्येकवचने तकारलोपश्छान्दसः । नित्त्वादाद्युदात्तत्वम्। उशिजः। “वशः कित्' ( उ. सू. २. २२९) इति वष्टेः इजिप्रत्ययः । ग्रहिज्यादिना संप्रसारणम् । मर्ताः । ‘ मृङ् प्राणत्यागे'।' असिहसिमृग्रिण्वामि। इत्यादिना तन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । अपृच्छ्यः । ‘प्रच्छ ज्ञीप्सायाम् । आङ्पूर्वात् अस्मात् ‘ छन्दसि निष्टर्क्य° ' ( पा. सू. ३. १. १२३ ) इत्यादौ क्यप्प्रत्ययो निपातितः । ग्रहिज्यादिना संप्रसारणम् । क्यपः पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । विश्पतिः । पत्यावैश्वर्ये' इति पूर्वपदप्रकृतिस्वरत्वे प्राप्ते • परादिश्छन्दसि बहुलम् ' इत्युत्तरपदाद्युदात्तत्वम् ॥
 
 
Line ६६ ⟶ ६९:
 
यम् । ऋत्विजः । वृजने । मानुषासः । प्रयस्वन्तः । आयवः । जीजनन्त ॥
 
"नव्यसी नवतरा "सुकीर्तिः सुष्ठु कीर्तयित्री "अस्मत् अस्माकं स्तुतिः "हृदः हृद्यवस्थितात प्राणात् “जायमानम् उत्पद्यमानम् । अग्निर्हि वायोरुत्पद्यते' वायुश्च प्राण एव ।' यः प्राणः स वायुः ' इत्याम्नानात्। “मधुजिह्वं मादयितृज्वालम् । एवंभूतं “तम् अग्निम् “आ "अश्याः आभिमुख्येन व्याप्नोतु । "वृजने संग्रामे प्राप्ते सति "आयवः मनुष्याः “यम् अग्निं "जीजनन्त यज्ञार्थमुदपादयन् । कीदृशा मनुष्याः । “ऋत्विजः ऋतौ काले यष्टारः "मानुषासः मनोः पुत्राः "प्रयस्वन्तः हविर्लक्षणान्नोपेताः ॥ नव्यसी । नवीयसीत्यत्र ईकारलोपभ्छन्दसः । हृदः । अत्र हृदयशब्देन तत्स्थः प्राणो लक्ष्यते । ‘ पद्दन् ' इत्यादिना हृदयशब्दस्य हृदादेशः । जायमानम् । ‘जनी प्रादुर्भावे' । श्यनि ‘ज्ञाजनोर्जा' इति जादेशः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे श्यनो नित्त्वादाद्युदात्तत्वम् । अस्मत् । ‘सुपां सुलुक्' इति विभक्तेर्लुक् । अश्याः । ‘अशू व्याप्तौ । लिङि ‘बहुलं छन्दसि' इति विकरणस्य लुक् । व्यत्ययेन परस्मैपदमध्यमौ । जीजनन्त । ‘जनी प्रादुर्भावे'। ण्यन्तात् लुङि च्लेः चङादेशः ।। द्विर्भावहलादिशेषसन्वद्भावेत्वदीर्घाः । अदुपदेशात् लसार्वधातुकानुदात्तवे चङ एव स्वरे प्राप्त व्यत्ययेन अभ्यस्ताद्युदात्तत्वम् ॥
 
 
Line ७९ ⟶ ८४:
 
दमूनाः । गृहऽपतिः । दमे । आ । अग्निः । भुवत् । रयिऽपतिः । रयीणाम् ॥
 
“उशिक् कामयमानः “पावकः शोधकः "वसुः निवासयिता “वरेण्यः वरणशीलः एवंभूतः "होता अग्निः “विश्रु यज्ञगृहं प्रविष्टेषु “मानुषेषु यजमानेषु “अधायि स्थाप्यते । स च “अग्निः “दमूनाः रक्षसां दमनकरेण मनसा युक्तः “गृहपतिः गृहाणां पालयिता च सन् 'दमे यज्ञगृहे "रयिपतिः धनाधिपतिः "आ "भुवत् आ समन्ताद्भवति । न केवलमेकस्य रयेरपि तु सर्वेषामित्याह “रयीणाम् इति । यद्वा । रयीणां मध्ये उत्कृष्टं यद्धनं तस्य पतिरित्यर्थः ॥ अधायि । ‘छन्दसि लुङ्लङ्लिटः ' इति वर्तमाने कर्मणि लुङि च्लेः चिणादेशे ‘आतो युक् चिण्कृतोः' इति युगागमः । दमयति राक्षसादिकमिति दमूनाः ।‘दम उपशमे '। दमेरूनसिः ( उ. सू. ४. ६७४ ) इति औणादिक ऊनसिप्रत्ययः । यास्कस्त्वाह-’ दमूना दममना वा दानमना वा दान्तमना वापि वा दम इति गृहनाम तन्मनाः स्यात् ' ( निरु. ४. ४ ) इति । दम आँ अग्निः । ‘ आङोऽनुनासिकश्छन्दसि' इति आकारस्य सानुनासिकत्वं प्रकृतिभावश्च । भुवत् । लेटि अडागमः । ‘ इतश्च लोपः' इति इकारलोपः । रयिपतिः । परादिश्छन्दसि बहुलम् ' इत्युत्तरपदाद्युदात्तत्वम् । रयीणाम् । 'नामन्यतरस्याम् ' इति नाम उदात्तत्वम् ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.६०" इत्यस्माद् प्रतिप्राप्तम्