"ऋग्वेदः सूक्तं १.५८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १६८:
उरुष्य । अग्ने । अंहसः । गृणन्तम् । प्रातः । मक्षु । धियाऽवसुः । जगम्यात् ॥
 
हे "विभावः विशिष्टप्रकाशाग्ने "गृणते त्वां स्तुवते यजमानाय । वरूथम् इति गृहनाम । "वरूथम् अनिष्टनिवारकं गृहं भव । हे "मघवन् धनवन्नग्ने मघवद्भ्यः हविर्लक्षणधनयुक्तेभ्यो यजमानेभ्यः “शर्म सुखं यथा भवति तथा “भव । हे "अग्ने "गृणन्तं स्तुवन्तम् "अंहसः पापकारिणः शत्रोः “उरुष्य रक्ष । "धियावसुः कर्मणा बुद्ध्या वा प्राप्तधनोऽग्निः "प्रातः इदानीमिव परेद्युरपि "मक्षु शीघ्रं “जगम्यात् आगच्छतु ॥ वरूथम् । ‘वृञ् वरणे'। जॄवृञ्भ्यामूथन् ' ( उ, सू. २. १६३ ) इति “ऊथन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । गृणते। ‘शतुरनुमः' इति विभक्तेरुदात्तत्वम् । विभावः। विशिष्टा भा विभाः । ‘ अतो मनिन्' इति विच् । ‘ तदस्यास्ति' इति मतुप् । ‘ मादुपधायाः०' इति मतुपो वत्वम् । ‘ मतुवसो रुः० ' इति नकारस्य रुत्वम् । मघवद्भ्यः । ‘ मघवा बहुलम् । ( पा. सू. ६. ४. १२८ ) इति मघवञ्शब्दस्य तृआदेशः । स च ‘ नानुबन्धकृतमनेकाल्त्वम् ' (परिभा. ६) इति वचनात् ' अलोऽन्त्यस्य' (पा. सू. १. १. ५२) इति अन्त्यस्य भवति । मक्षु । ‘ऋचि तुनुघमक्षु' ' इति दीर्घः । धियावसुः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । पूर्वपदस्य ‘सावेकाचः' इति विभक्तिरुदत्ता । लुगभावभ्छान्दसः । जगम्यात् । “गम्लृ सृप्लृ गतौ । लिङि • बहुलं छन्दसि ' इति शपः श्लुः ॥ ॥ २४ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.५८" इत्यस्माद् प्रतिप्राप्तम्