"यजुर्वेदभाष्यम् (दयानन्दसरस्वतीविरचितम्)/अध्यायः ३/मन्त्रः १५" इत्यस्य संस्करणे भेदः

{{header | title = यजुर्वेदभाष्यम् (दयानन्दसरस्वतीविर... नवीन पृष्ठं निर्मीत अस्ती

No edit summary

पङ्क्तिः १६:

अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठोऽअध्व॒रेष्वीड्यः॑।

यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भ्वं᳖ वि॒शेवि॑शे॥१५॥

पदपाठः—अ॒यम्। इ॒ह। प्र॒थ॒मः। धा॒यि॒। धा॒तृभि॒रिति॑ धा॒तृऽभिः॑। होता॑। यजि॑ष्ठः। अ॒ध्व॒रेषु॑। ईड्यः॑। यम्। अप्न॑वानः। भृग॑वः। वि॒रु॒रु॒चुरिति॑ विऽरुरु॒चुः। वने॑षु। चि॒त्रम्। विभ्व᳕मिति॑ वि॒ऽभ्व॒म्। वि॒शेवि॑श॒ इति॑ वि॒शेऽवि॑शे॥१५॥

पदार्थः—(अयम्) ईश्वरो भौतिको वा (इह) अस्यां सृष्टौ (प्रथमः) यज्ञक्रियायामुपास्य आदिमं साधनं वा (धायि) ध्रियते। अत्र वर्त्तमाने लुङ्। बहुलं छन्दस्यमाङ्योगेऽपि [अष्टा॰ ६.४.७५] इत्य[भावः। (धातृभिः) यज्ञक्रियाधारकैर्विद्वद्भिः (होता) ग्राहकः (यजिष्ठः) अतिशयेनानन्दशिल्पविद्ययोः सङ्गतिहेतुः (अध्वरेषु) उपासनाग्निहोत्राद्यश्वमेधान्तेषु शिल्पविद्यान्तर्गतेषु वा यज्ञेषु (ईड्यः) उपासितुमध्येषितुं वार्हः (यम्) उक्तार्थम् (अप्नवानः) येऽप्नान् विद्यासन्तानान् कुर्वन्ति ते, अप्न इत्यस्मात् तत्करोति तदाचष्टे [अष्टा॰ वा॰ ३.१.२६] अनेन करोत्यर्थे णिच्। ततोऽन्येभ्योऽपि दृश्यन्ते [अष्टा॰ ३.२.७५] इति वनिप्। अप्न इत्यपत्यनामसु पठितम्। (निघं॰ २.२) (भृगवः) यज्ञविद्यावेत्तारः। भृगव इति पदनामसु पठितम्। (निघं॰ ५.५) अनेन ज्ञानवत्त्वं गृह्यते (विरुरुचुः) विदीपयन्ति, अत्र लडर्थे लिट्। (वनेषु) संभजनीयेषु (चित्रम्) अद्भुतगुणम् (विभ्वम्) व्यापनशीलम्। अत्र वा छन्दसि [अष्टा॰ ६.१.१०६] इत्यनेन पूर्वरूपादेशो न। (विशेविशे) प्रतिप्रजाम्। अयं मन्त्रः (शत॰ २.३.४.१४) व्याख्यातः॥१५॥

अन्वयः—अप्नवानो भृगवो विद्वांस इह वनेष्वध्वरेषु विशे विशे विभ्वं चित्रं यमग्निं विरुरुचुर्विदीपयन्ति, सोऽयं धातृभिः प्रथम ईड्यो होता यजिष्ठोऽग्निरिह धायि ध्रियते॥१५॥

भावार्थः—अत्र श्लेषालङ्कारः। विद्वांसो यज्ञक्रियासिद्ध्यर्थमुपास्यसाधनत्वाभ्यामेतमग्निं स्तुत्वा गृहीत्वा वाऽस्यां सृष्टौ प्रजासुखानि निर्वर्तयेयुरिति॥१५॥

पदार्थः—(अप्नवानः) विद्या सन्तान अर्थात विद्या पढ़ाकर विद्वान् कर देने वाले (भृगवः) यज्ञविद्या के जानने वाले विद्वान् लोग (इह) इस संसार में (वनेषु) अच्छे प्रकार सेवन करने योग्य (अध्वरेषु) उपासना अग्निहोत्र से लेकर अश्वमेधपर्यन्त और शिल्पविद्यामय यज्ञों में (विशेविशे) प्रजा-प्रजा के प्रति (विभ्वम्) व्याप्त स्वभाव वा (चित्रम्) आश्चर्यगुणवाले (यम्) जिस ईश्वर और अग्नि को (विरुरुचुः) विशेष कर के प्रकाशित करते हैं (अयम्) वही (धातृभिः) यज्ञक्रिया के धारण करने वाले विद्वान् लोगों को (ईड्यः) खोज करने योग्य (प्रथमः) यज्ञक्रिया का आदि साधन (होता) यज्ञ का ग्रहण करने वाला (यजिष्ठः) उपासना और शिल्पविद्या का हेतु है, उसका (इह) इस संसार में (धायि) धारण करते हैं॥१५॥

भावार्थः—इस मन्त्र में श्लेषालङ्कार है। विद्वान् लोग यज्ञ की सिद्धि के लिये मुख्य करके उपास्यदेव और साधन भौतिक अग्नि को ग्रहण करके इस संसार में प्रजा के सुखों को नित्य सिद्ध करें॥१५॥