"ऋग्वेदः सूक्तं १.१३९" इत्यस्य संस्करणे भेदः

()
 
अध । प्र । सु । नः । उप । यन्तु । धीतयः । देवान् । अच्छ । न । धीतयः ॥
 
अहं “पुरः पुरत उत्तरवेद्याम् “अग्निम् आहवनीयाख्यं “धिया प्रणयनादिकर्मणा “दधे धारितवानस्मि । “तच्छर्धः तादृशं बलवन्तं वा अग्निं यद्वा तच्छर्धः तादृशं मरुतां स्वरूपं बलं “दिव्यं दिवि भवं “नु क्षिप्रम् “आ “वृणीमहे आभिमुख्येन संभजामहे । किंच “इन्द्रवायू “वृणीमहे । “यत् यस्मात् कारणात् “विवस्वति दीप्तिमति “नाभा नाभौ भूम्या नाभिस्थाने देवयजने वेदिरूपे । यद्वा । नाभौ सर्वफलस्य संबन्धके यज्ञे । ‘ यज्ञमाहुर्भुवनस्य नाभिम् ' (तै. सं. ७.४.१८. २) इति श्रुतेः । “क्राणा कुर्वाणा स्वार्थप्रकाशनं “नव्यसी नवतरा स्तुतिरूपा वाक् “संदायि संबध्यते ॥ छान्दसः कर्मणि लुङ् ॥ अस्माभिः प्रयुज्यते इत्यर्थः। यस्मात् स्तुतिः क्रियते तस्मात् “अस्तु "श्रौषट् अस्याः स्तुतेः श्रवणं भवतु । श्रोता भवतु वा मरुतां गणोऽग्निर्वा । इन्द्रवायुपक्षे प्रत्येकापेक्षा एकवचनम् । “अध अनन्तरं “नः “धीतयः अस्मदीयानि कमॉणि स्तुत्यादिरूपाणि “प्र “सु “उप “यन्तु प्रकर्षेण सुष्ठु युष्मानुपगच्छन्तु । किंच "देवाँ “अच्छा "न अग्न्यादिदेवान् आभिमुख्येन प्राप्तमिव “धीतयः अस्मदीयानि कर्माणि उप यन्तु ते समीपं प्राप्नुवन्तु ॥
 
 
धीभिः । चन । मनसा । स्वेभिः । अक्षऽभिः । सोमस्य । स्वेभिः । अक्षऽभिः ॥
 
हे "मित्रावरुणौ “ऋतात् आदित्यात् “त्यत् तदुदकं “यत् यस्मात् कारणात् “अधि अधिकम् । “आददाथे सर्वतो ददथः । कीदृशमुदकम् । “अनृतं नश्वरं शोषणस्वभावम् । केन साधनेन । “स्वेन “मन्युना स्वकीयेन तेजसा । अहोरात्राभिमानिदेवौ मित्रावरुणौ खलु वृष्टिं मोचयतः । ‘ अहोरात्रे वा' इत्यादिश्रुतिः पूर्वमेवोदाहृता । मन्युर्विशेष्यते । “दक्षस्य समर्थस्य “स्वेन “मन्युना आत्मभूतेन मननीयेन सामर्थ्येन। किंच हे मित्रावरुणौ “युवोः ॥ अन्त्यलोपश्छान्दसः ॥ युवयोः संबन्धि “हिरण्ययं हिरण्मयं रूपम् ।। ‘ ऋत्व्यवास्त्व्यवास्त्व° ' ( पा. सू. ६. ४. १७५ ) इत्यादौ मयटो मशब्दलोपो निपात्यते ।। “इत्था इत्थं वक्ष्यमाणप्रकारेण “सद्मसु यज्ञसदनेषु “अधि “अपश्याम पश्येम । केन साधनेनेति तदुच्यते । “धीभिः त्वदुद्देश्यैः कर्मभिर्यज्ञादिरूपैः “मनसा “चन त्वदासक्तेन चेतसा च “स्वेभिरक्षभिः आत्मीयैः अनन्यैश्चक्षुरादीन्द्रियैः। किंच “सोमस्य सोम “स्वेभिरक्षभिः अस्मदीयैरिन्द्रियैः ॥ नासाद्यपेक्षया बहुवचनम् ॥
 
 
पृष्ठ्यस्य षष्ठेऽहनि प्रउगशस्त्रे ‘युवां स्तोमेभिः' इत्याश्विनस्तृचः । ‘ षष्ठस्य ' इति खण्डे सूत्रितं--- युवां स्तोमेभिर्देवयन्तो अश्विनावर्मह इन्द्र ' ( आश्व. श्रौ. ८. १) इति ॥
 
यु॒वां स्तोमे॑भिर्देव॒यन्तो॑ अश्विनाश्रा॒वय॑न्त इव॒ श्लोक॑मा॒यवो॑ यु॒वां ह॒व्याभ्या॒३॒॑यव॑ः ।
 
प्रुषायन्ते । वाम् । पवयः । हिरण्यये । रथे । दस्रा । हिरण्यये ॥
 
हे “अश्विना अश्विनौ देवौ “युवां “स्तोमेभिः स्तोत्रैः “देवयन्तः युवाम् आत्मनः इच्छन्तः “आयवः । मनुष्यनामैतत् । यजमानाः “श्लोकं युष्मदीयस्तुतिरूपां वाचम् “आश्रावयन्तइव सर्वतः श्रवणविषयां कुर्वन्त इव स्तुवन्ति । श्लोक इति वाङ्नाम, ‘ श्लोकः धारा ' ( नि. १. ११. १ ) इति तन्नासूक्तत्वात् । कीदृशास्ते । “युवां “हव्या हविषा आज्यादिना “अभ्यायवः आभिमुख्येन गन्तारः । प्रीणयितुमिति शेषः । हवींषि आभिमुख्येन प्रापयन्तो वा । किंच हे विश्ववेदसा सर्वधनौ “युवोः युवयोः संबन्धिन्यः “विश्वाः “श्रियः सेवनीयाः सर्वा लक्ष्मीर्धनकनकादिरूपाः “अधि अधिकं भजन्ते इति शेषः । किंच “पृक्षश्च अन्नमपि युष्मत्प्रसादात् अधि अधिकं लभन्ते । किंच हे “दस्रा शत्रूणामुपक्षपयितारौ “वां “हिरण्यये “रथे हिरण्मये मधुपूर्णे रथे "पवयः तन्नेमयः “प्रुषायन्ते क्षरन्ति स्रवन्ति ॥ ‘ प्रुष प्लुष स्नेहनसेचनपूरणेषु ' । 'छन्दसि शायजपि' इत्यहावपि श्नः शायजादेशः ॥ मधुपूर्णपात्रोपेतत्वात् शीघ्रगमनेन चक्रेषु मधूनि स्रवन्तीति भावः । ‘ पवी रथनेमिर्भवति यद्विपुनाति भूमिम् ' ( निरु. ५. ५. ) इति निरुक्तम् । अश्विनोः रथस्य मधुपूर्णत्वं त्रयः पवयो मधुवाहने रथे (ऋ. सं. १, ३४. २) इत्यादिषु प्रसिद्धम् । किंच तादृशे “हिरण्यये हृदयरमणे रथे मधुरं हविर्वहतमिति शेषः ।।।
 
 
 
पथाऽइव । यन्तौ । अनुऽशासता । रजः । अञ्जसा । शासता । रजः ॥
 
हे “दस्रा दस्रावश्विनौ “अचेति वक्ष्यमाणं युष्मच्चेष्टितं ज्ञायते सर्वैः । किं तदिति तदुच्यते । “नाकं स्वर्गं “वि “ऋण्वथः विशेषेण गच्छथः ॥ ‘ ऋणु गतौ । तानादिकः । लेटि अडागमः । यज्ञसंपूर्त्यनन्तरमिति यावत् । उशब्दोऽवधारणे । यद्वा । नाकम् । अकं दुःखम् । तद्रहितं यज्ञमृण्वथः। विशेषेण गच्छथ एव । तदर्थं “वां “रथयुजः युष्मत्संबन्धिनो रथस्य योजयितारः सारथथः “दितिष्टिषु स्वर्गस्यैषणेषु द्योतनात्मकस्य यज्ञस्यैषणेषु गमनेषु वा निमित्तभूतेषु “युञ्जते अश्वान् योजयन्ति रथे । युक्ते रथे वा युष्मान् । ते एव विशेष्यन्ते । दिविष्टिषु दिवो गमनेषु निरालम्बाकाशगमनेषु “अध्वस्मानः रथस्य तदाश्रितस्य च ध्वंसमकुर्वाणाः । किंच हे “दस्रा अश्विनौ “वां युवयोः “बन्धुरे बन्धुरत्रययुक्ते। युगबन्धनाधारः काष्ठविशेषो बन्धुरम् । तादृशत्रययुक्तत्वं रथो यो वां त्रिवन्धुरः' (ऋ. सं. ८. २२. ५) इत्यादिषु प्रसिद्धम् । “हिरण्यये हिरण्मये “रथे “अधि तादृशस्य रथस्योपरि “स्थाम अस्थापयाम ।। छान्दसे लङि ‘ बहुलं छन्दसि ' इति अडभावः। आद्युदात्तश्छान्दसः ॥ कीदृशौ'। “पथेव सुपथेन मार्गेण निरालम्बे आकाशे’ “रजः रञ्जनात्मकं स्वर्गं प्रति “यन्तौ गच्छन्तौ । ‘लोका रजांस्युच्यन्ते । इत्युक्तत्वात् । “अनुशासता अननुकूलाञ्छत्रून् अनुशासतौ विधेयीकुर्वन्तौ ॥ शासेः शतरि • जक्षित्यादयः' इति अभ्यस्तत्वात् ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् ॥ किंच “अञ्जसा मुख्यत्वेन प्रकृष्टं “रजः उदकं वृष्टिलक्षणं “शासता शासतौ बलाद्विधेयीकुर्वन्तौ ।।
 
 
मा । वाम् । रातिः । उप । दसत् । कदा । चन । अस्मत् । रातिः । कदा । चन ॥
 
हे “शचीवसू । शचीति कर्मनाम । अस्मदनुष्ठितज्योतिष्टोमादिकर्मधनौ युवां “शचीभिः अस्मदीयैः कर्मभिर्यागादिभिर्निमित्तभूतैः “दिवा “नक्तं अहनि रात्रौ च “दशस्यतम् अभिमतं ददेथाम् ॥ ‘ दाशृ दाने' इत्यस्येदं छान्दसं रूपम् । यद्वा । दशस्यतिर्दानार्थः कण्ड्वादिषु द्रष्टव्यः ।। "वां युवयोः “रातिः दानं “कदा "चन सर्वदा यागकाले अयागकालेऽपि “मा “उप “दसत् मा उपक्षीणं भूत् ॥ ‘ दसु उपक्षये ' । लुङि ‘पुषादिद्युतात् ' इति च्लेः अङ्॥ न केवलं युष्मदीयम् अपि त्वस्माकमपि “रातिः दानं हविरादिप्रदानं सर्वविषयदानं वा अर्थिभ्यः “कदा “चन सर्वावस्थायामपि मा उप दसत् उपक्षीणं मा भूत् सर्वदा वर्तताम् । अहमपि सर्वदा युष्मानुद्दिश्य दद्यां युवामपि अभिमतं सर्वदा दत्तमित्यर्थः॥ ॥ ३ ॥
 
 
पृष्ठ्यस्य षष्ठेऽहनि प्रउगशस्त्रस्यैन्द्रे तृचे तृतीया • वृषन्निन्द्र' इत्येषा । वृषन्निन्द्र वृषपाणास इन्दवः सुषुमा यातमद्रिभिः ' ( आश्व. श्रौ. ८. १ ) इति ॥ तत्रैव सवने प्रस्थितयाज्यानां पुरस्तादन्या ऋचः प्रक्षिप्य उभयीभिर्यष्टव्यम् । तत्र होतुः प्रस्थितयाज्यायाः पुरस्तादेषा प्रक्षेपणीया । सूत्रितं च- षष्ठस्य प्रातःसवने प्रस्थितयाज्यानां पुरस्तादन्याः कृत्वोभाभ्यामनवानन्तो यजन्ति ( आश्व. श्रौ. ८, १ ) इति ।
 
वृष॑न्निन्द्र वृष॒पाणा॑स॒ इन्द॑व इ॒मे सु॒ता अद्रि॑षुतास उ॒द्भिद॒स्तुभ्यं॑ सु॒तास॑ उ॒द्भिद॑ः ।
गीःऽभिः । गिर्वाहः । स्तवमानः । आ । गहि । सुऽमृळीकः । नः । आ । गहि ॥
 
हे “इन्द्र “वृषन् वर्षितः कामानाम् “इमे पुरतो दृश्यमानाः “इन्दवः सोमाः “सुताः त्वदर्थमभिषुताः । कीदृशास्ते । “वृषपानासः अभिमतवर्षकेण त्वया पातव्याः “अद्रिसुतासः अद्रिभिर्दृढैः पाषाणैरभिषवसाधनैः सुताः “उद्भिदः उद्भेदका वर्षस्य' । त एव पुनर्विशेष्यन्ते । “उद्भिदः बलस्य उद्भेदका उद्भिन्ना वा पर्वतादौ तादृशाः सोमाः “तुभ्यं “सुतासः त्वदर्थमेवाभिषुताः। किंच “ते तादृशाः सोमाः “त्वा त्वां “मन्दन्तु तर्पयन्तु । कुत्रेति तदुच्यते । “दावने दानवति यागे। अभिमतदानाय वा । तथा “महे महते “चित्राय चायमानाय विचित्राय नानाविधाय वा "राधसे धनाय । किंच हे “गिर्वाहः गिरां स्तुतीनामस्मदीयानां वोढः ॥ ‘ वहिहाधाञ्भ्यः' इति असुन् ॥ “गीर्भिः अस्मत्स्तुतिभिः स्तवमानः सन् “आ “गहि आगच्छ । “नः अस्मान् “सुमृळीकः सुष्ठु मृडयिता सन् “आ “गहि आगच्छ ॥
 
 
दशरात्रस्य षष्ठेऽहनि प्रातःसवने नेष्टुः प्रस्थितयाज्यायाः पुरस्तात् ‘ ओ षू णो अग्ने' इत्येषा आवपनीयैकीकृत्योभाभ्यां यागः । ‘ षष्ठस्य ' इति खण्डे सूत्रितम्- ओ षु णो अग्ने शृणुहि त्वमीळितोऽग्निं होतारम् ' (आश्व. श्रौ. ८. १ ) इति । तस्मिन्नेव सवने प्रउगशस्त्रे द्वितीया । सूत्रितं च- अस्तु श्रौषळो षु णो अग्ने ' ( आश्व. श्रौ. ८. १) इति ।।
 
ओ षू णो॑ अग्ने शृणुहि॒ त्वमी॑ळि॒तो दे॒वेभ्यो॑ ब्रवसि य॒ज्ञिये॑भ्यो॒ राज॑भ्यो य॒ज्ञिये॑भ्यः ।
वि । ताम् । दुह्रे । अर्यमा । कर्तरि । सचा । एषः । ताम् । वेद । मे । सचा ॥
 
हे “अग्ने “त्वं “नः अस्मदीयमावाहनं स्तुतिं वा “ईळितः अस्माभिः स्तुतः सन् “ओ “षु “शृणुहि । ओ इति निपातद्वयसमुदायात्मकः एको निपातः । आभिमुख्येनैव सुष्ठु शृणु ॥ ‘ उतश्च प्रत्ययात्° ' इति ‘ छन्दसि वावचनम् ' इति हेर्लुगभावः ॥ श्रुत्वा च “देवेभ्यः देवनशीलेभ्यः “यज्ञियेभ्यः यज्ञार्हेभ्यो हविर्भाग्भ्यः स्तुतिभाग्भ्यश्चेत्यर्थः ॥ ‘ यज्ञर्त्विग्भ्याम् । इति घः ॥ तेभ्यः “यज्ञियेभ्यः यज्ञार्हेभ्यो यजमानेभ्यः संबन्धि कर्म “ब्रवसि ब्रूहि ॥ ब्रवीतेर्लेटि अडागमः ।। कीदृशेभ्यः । “राजभ्यः राजमानेभ्यः । इदानीं देवाः प्रत्यक्षेणोच्यन्ते । अत्रेतिहासमाहुः -– अङ्गिरसो नाम महर्षयः पूर्वं यज्ञार्थं देवान् स्तुत्या प्रीणयित्वा गा अयाचन्त । ते प्रीताः कामदुघां प्रादुः । लब्धां च तां धेनुं क्षीरं दोग्धुमशक्नुवाना अर्यमणं देवं प्रार्थयन् । स च प्रार्थितोऽग्निहोत्राद्यर्थं क्षीरं दुदोहेति । तदिदमत्रोच्यते । “यत् यां “त्या तां प्रसिद्धां “धेनुं क्षीरादिना प्रीणयित्रीं गां “ह “देवाः “अङ्गिरोभ्यः तदर्थम् “अदत्तन दत्तवन्तः ॥ ‘ तप्तनप्तनथनाश्च ' इति तनादेशः ॥ “तां धेनुम् “अर्यमा सर्वस्य नियमिता देवः “कर्तरि सर्वस्योत्पादके त्वय्यग्नौ “सचा इतरदेवेभ्यः साकं "वि “दुह्रे विविधं दुग्धवान् । दुहेर्लिटि ‘ बहुलं छन्दसि ' इति । छन्दसि वा ' इति वचनात् द्विर्वचनाभावः । लटि एव वा ' लोपस्त°' इति तलोपः ।। “एषः एष एव अर्यमा “तां धेनुं “मे “सचा मत्समवायेन “वेद जानाति अर्यमा अहमपि जानामीत्यर्थः । ईदृशी धेनुस्त्वदर्थमेव दुह्यते इत्यग्नेः स्तुतिः ॥
 
 
‘ मो षु वो अस्मत्' इति प्रस्थितयाज्या" । सूत्रितं च-’ मो षु वो अस्मदभि तानि पौंस्यौ षू णो अग्ने' (आश्व. श्रौ. ८. १ ) इति ॥
 
मो षु वो॑ अ॒स्मद॒भि तानि॒ पौंस्या॒ सना॑ भूवन्द्यु॒म्नानि॒ मोत जा॑रिषुर॒स्मत्पु॒रोत जा॑रिषुः ।
अस्मासु । तत् । मरुतः । यत् । च । दुस्तरम् । दिधृत । यत् । च । दुस्तरम् ॥
 
हे मरुतः “वः युष्मत्संबन्धीनि “तानि प्रसिद्धानि “पौंस्या पौंस्यानि बलानि “सना सदातनानि नित्यानि “द्युम्नानि प्रकाशयुक्तानि । यद्वा । सना संभजनीयानि द्युम्नानि धनवन्ति यशोवन्ति वा ॥ मत्वर्थीयो लुप्यते । मो इति निपातद्वयसमुदाये उशब्दोऽवधारणे ।। “अस्मत् अस्मान् “मो “षु “अभि "भूवन् सुष्ठु मैवाभिभवन् । यद्वा । अस्मत्तोऽपगतानि मा भूवन् । “उत अपि च । यद्वा । द्युम्नानीत्येतदुत्तरत्र संबध्यते । द्युम्नानि धनानि यशांसि वा अस्मदीयानि “मा “जारिषुः क्षीणानि मा भूवन् । “उत अपि च “अस्मत् “पुरा पुराणि लक्षणया तत्रस्थाः प्राणिनः मा “जारिषुः जीर्णा नष्टा मा भूवन् । किंच “वः युष्मत्संबन्धि “चित्रं चायनीयं नानाविधं “नव्यं नूतनं स्तोतव्यं वा “अमर्त्यम् अमरणधर्मकं मर्त्येषु दुर्लभं वा “यत् अस्ति “घोषात् घोषाः ॥ व्यत्ययेन पञ्चमी ।। शब्दोपेता गवादयो घोषोपलक्षिता ग्रामनगरादयो वा ये सन्ति “तत् सर्वं “युगेयुगे युगशब्दोपलक्षिते तत्तत्काले “अस्मासु अस्मास्वेव भवन्विति शेषः नान्यस्य । किंच हे “मरुतः “यच्च “दुस्तरं दुःखेन तरणीयं संपादनीयं धनं “दिधृत धारयत तदस्मासु । किंच “दुस्तरं शत्रुभिरहिंसितं तत्सर्वमपि विशेषेणास्मासु स्थापयत ।।
 
 
पृष्य्ास्य षष्ठेऽहनि अच्छावाकस्य प्रस्थितयाज्यायाः पुरस्तात् ' दध्यङ् ह मे' इत्येषा । सूत्रितं च -’ दध्यङ् ह मे जनुषं पूर्वो अङ्गिरा इत्येवमेव माध्यंदिने' ( आश्व. श्रौ. ८. १ ) इति ।।
 
द॒ध्यङ्ह॑ मे ज॒नुषं॒ पूर्वो॒ अङ्गि॑राः प्रि॒यमे॑ध॒ः कण्वो॒ अत्रि॒र्मनु॑र्विदु॒स्ते मे॒ पूर्वे॒ मनु॑र्विदुः ।
 
तेषाम् । पदेन । महि । आ । नमे । गिरा । इन्द्राग्नी इति । आ । नमे । गिरा ॥
 
“दध्यङ् अथर्वगोत्रोत्पन्नः एतन्नामको महर्षिः स च “पूर्वः पूरकः सर्वस्य पुरातनो वा “अङ्गिराः अङ्गारः तद्वत्तेजस्वीत्यर्थः । यद्वा । अङ्गारा एवाङ्गिरसोऽभवन् ‘ येऽङ्गारा आसंस्तेऽङ्गिरसोऽभवन्' ( ऐ. ब्रा. ३. ३४ ) इति श्रुतेः । ‘ अङ्गिरा अङ्गारा अङ्कना अञ्चनाः' ( निरु. ३. १७.) इति निरुक्तम् । एतन्नामा महर्षिश्च “प्रियमेधः मेधाप्रियः । ‘ प्रियमेधः प्रिया अस्य मेधाः' (निरु. ३.१७) इति यास्कः । स च “कण्वः मेधावी स च “अत्रिः दुःखत्रयरहितः । अत्रिर्न श्रयः ' (निरु.३.१७) इति निरुक्तम् । “मनुः मननवान् एतन्नामा महर्षिः। एते सर्वे महात्मानो महर्षयः “मे “जनुषं दिवोदासपुत्रस्य परुच्छेपस्य जन्म “विदुः जानन्ति ॥ वेत्तेः ‘ विदो लटो वा ' इति झेः उसादेशः ॥ किंच “ते पूर्वोक्ताः “पूर्वे पूर्वकालीनाः "मे अस्मत्पित्रादीन् जानन्त इत्यर्थः। “मनुः मनवो ज्ञानवन्तो यतस्ते पूर्वे मनवश्च अतो “विदुः इति भावः ॥ ‘ सुपां सुलुक्' इति जसो लुक् ॥ तेषां ज्ञाने उपपत्तिमाह। “तेषां दध्यङ्ङादीनां “देवेषु इतरेषु देवनशीलेषु महर्षिषु मध्ये "आयतिः दीर्घकालसंबन्धोऽस्ति । अतो विदुरित्यर्थः । ततश्च किमित्याह । “अस्माकं “नाभयः जीवेन सह बन्धवन्तः प्राणाः फलेन संबद्धा यागा वा “तेषु तेष्वेव वर्तन्ते । असौ विशिष्टजन्मा अतो यज्ञयोग्यः इति तैर्वक्तव्यत्वेन तदधीनत्वम् । “तेषां दध्यङ्ङादीनां “पदेन आस्पदेन महत्त्वेन निमित्तेन “गिरा स्तुतिरूपया वाचा “महि महदत्यधिकं “नमे नमति सर्वो जनः । किंच तेषामनुग्रहात् यज्ञयोग्यः सन् “इन्द्राग्नी “गिरा स्तुतिरूपया वाचा युक्तः सन् “आ “नमे आभिमुख्येन नमामि स्तौमि नमामि चेत्यर्थः ॥ नमेर्व्यत्ययेन आत्मनेपदम् ॥ यद्वा । कर्मकर्तरि ‘ न दुहस्नुनमाम्' इति यकः प्रतिषेधः । स्वयमेव नतोऽस्मि ।।
 
 
अधारयत् । अररिन्दानि । सुऽक्रतुः । पुरु । सद्मानि । सुऽक्रतुः ॥
 
अयं "होता दैव्योऽग्निर्मनुषो वा देवानामाह्वाता "यक्षत् याज्यां पठतु ॥ यजेर्लेटि अडागमः ।। ‘ सिब्बहुलम्' इति सिप् ।। “वनिनः वननवन्तः हविः कामयमाना वा देवाः “वार्यं वरणीयं सोमं “वन्त संभजन्ताम् ॥ वनतेश्छान्दसे लङि व्यत्ययेन आत्मनेपदम् । ‘ बहुलं छन्दसि ' इति शपो लुक् । छान्दसोऽन्त्यलोपः । तदर्थं "बृहस्पतिः बृहतो मन्त्रस्य हविषो वा पालकोऽध्वर्युर्दैव्यो बृहस्पतिर्वा स्वयमेव "यजति यागं करोति । कीदृशः सः । "वेनः कामयमानः । केन साधनेनेति तदुच्यते । “उक्षभिः सेचकैः सोमैः “पुरुवारेभिः बहुभिर्वरणीयैः तथा “उक्षभिः सेचनसमर्थैरुदकैः तन्निमित्तभूतैर्हूयमानैराहुतिभिरादित्यद्वारा वृष्ट्युत्पनैः। वयं यजमानाः "दूरआदिशं दूरदेश आदिक् आदेशो यस्य तादृशम् ।। ‘ हलदन्तात्सप्तम्या:०' (पा. सू. ६.३.९ ) इति अलुक् ॥ "अद्रेः । जातावेकवचनम् । अभिषवसाधनस्य ग्राव्णः "श्लोकं वाचं ध्वनिं जगृभ्म गृह्णीमः श्रोत्राभ्याम् । पूजार्थं बहुवचनम् । इदानीं परोक्षकृतः । "सुक्रतुः शोभनकर्मा अयं यजमानः "अध अथ यागसंपूर्त्यनन्तरम् "अररिन्दानि । उदकनामैतत् , ' अररिन्दानि ध्वस्मन्वत् ' (नि. १. १२. २६ ) इति तन्नामसु पाठात् । वृष्टिलक्षणान्युदकानि “त्मना आत्मना "अधारयत् धारयति ॥ ररिर्दाता । नास्त्यन्यो ररिरस्य पिपासोपशमनस्य तादृशं पिपासोपशमनं ददतीत्यररिन्दानि । यद्वा । अररिः इतश्चेतश्च गमनम् । औणादिकः अरिप्रत्यय:। ‘ आतोऽनुपसर्गे कः' । पृषोदरादित्वात् अभिमतस्वरूपस्वरसिद्धिः । तद्ददतीत्यररिन्दानि उदकानि । चेष्टाप्रदानीत्यर्थः । ‘ आपोमयः प्राणः' (छा. उ. ६. ५. ४) इति श्रुतेः। यद्वा । ररिर्दानम् । न विद्यते तादृशं दानमितरभूतेषु तत् अररि । तद्ददतीत्यररिन्दानि । अन्यैरदेयं लोकोपकारिभोगं ददतीत्यर्थः । तादृशान्युदकानि यागेनोत्पादितवानित्यर्थः । किंच "सुक्रतुः शोभनकर्मा अयं "पुरु पुरूणि बहूनि “सद्मानि सदनानि सुखनिवासयोग्यानि गृहाणि अधारयत् । यद्वा । बृहस्पतिः सुक्रतुश्च अयमध्वर्युः अररिन्दानि उक्तलक्षणानि अभिषवसाधनान्युदकानि अधारयत् । धारितवान् । तथा सुक्रतुः शोभनप्रज्ञः पुरु सद्मानि सदनानि हविरासादनस्थानान्यधारयत् ।।
 
 
दशरात्रे षष्ठेऽहनि प्रउगशस्त्रे वैश्वदेवतृचस्य द्वितीया • ये देवासः' इत्येषा । सूत्रितं च -- ये देवासो दिव्येकादश स्थेयमददाद्रभसम् ' ( आश्व. श्रौ. ४. १ ) इति ॥
 
ये दे॑वासो दि॒व्येका॑दश॒ स्थ पृ॑थि॒व्यामध्येका॑दश॒ स्थ ।
अप्सुऽक्षितः । महिना । एकादश । स्थ । ते । देवासः । यज्ञम् । इमम् । जुषध्वम् ॥
 
हे "देवासः देवा द्योतनशीलाः "ये यूयं "दिवि द्युलोके “एकादश “स्थ एकं च दश चेत्येतत्संख्याका भवथ तथा “पृथिव्यामधि उपरि “एकादश "स्थ एतत्संख्याका भवथ किंच “अप्सुक्षितः । तद्धेतुत्वात् ताच्छब्द्यम् । अप्सु अन्तरिक्षे क्षियन्ति निवसन्तीत्यप्सुक्षितः ॥ क्षियतेः क्विप् । तत्पुरुषे कृति° ' इति अलुक् ॥ अन्तरिक्षवासिनो देवाः “एकादश “स्थ तत्संख्याका भवथ । यद्वा । अन्तरिक्षस्येयं संज्ञा । ‘ आपः पृथिवी ' ( नि. १. ३. ८ ) इति अन्तरिक्षनामसु पाठात् । यद्यपि ‘ तिस्रः एव देवताः' (निरु. ७.५) इत्युक्तत्वात् क्षित्याद्यभिमानिन्यो देवतास्तिस्र एव तथापि "महिना महत्त्वेन स्वस्वविभूत्या त्रयस्त्रिंशत्संख्याका भवन्ति । तत्तत्स्थाना अन्यास्तद्विभूतयः इत्युक्तत्वात् । महिना देवासः इत्येते सर्वत्र संबध्येते । "ते यूयं हे "देवासः मिलित्वा उक्तसंख्याका देवाः “इमम् अस्मदीयं “यज्ञं “जुषध्वं संभजध्वम् । तत्संबन्धि हविर्वा सेवित्वा प्रीणयध्वम् ॥ एकं च दश चैकादश । ‘ प्रागेकादशभ्यः० ' ( पा. सू. ५, ३. ४९ ) इति निपातनात् दीर्घः । ‘ संख्या ' इति पूर्वपदप्रकृतिस्वरत्वम् ॥ ४ ॥ ॥ २० ॥
 
}}
 
३१,९७७

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/177333" इत्यस्माद् प्रतिप्राप्तम्