"ऋग्वेदः सूक्तं १.१४१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३९:
 
{{सायणभाष्यम्|
‘बळित्था' इति त्रयोदशर्चं द्वितीयं सूक्तं दैर्घतमसं जागतम् । अन्त्ये त्रिष्टुभौ । अग्निर्देवता । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ।।
 
 
बळि॒त्था तद्वपु॑षे धायि दर्श॒तं दे॒वस्य॒ भर्गः॒ सह॑सो॒ यतो॒ जनि॑ ।
Line ५२ ⟶ ५४:
यत् । ईम् । उप । ह्वरते । साधते । मतिः । ऋतस्य । धेनाः । अनयन्त । सऽस्रुतः ॥
 
“देवस्य द्योतनशीलस्यादित्यस्य “दर्शत सर्वदर्शनीयं “तत् प्रसिद्धं “भर्गः तेजः “इत्था इत्थं सर्वैर्दृश्यमानप्रकारेण "वपुषे शरीरव्यवहाराय दार्ढ्याय “धायि धार्यते सर्वैः । बट् इत्था इत्युभे अपि सत्यनामनी, ' बट् श्रत् सत्रा इत्था ' (नि. ३. १०. १. ५) इति तन्नामसु पाठात् । जाठराग्निना भुक्तानां जरणेन शरीरधारणं प्रसिद्धम् । तत्रोपपत्तिमाह । “यतः “सहसः "जनि । यतः कारणात् मथनकाले बलेनोत्पन्नः अतो बलाय धार्यते इत्यर्थः। “यदीं यदेतत् प्रसिद्धं लोकोपकारि अग्नेस्तेजः "मतिः मदीया बुद्धिः “उप “ह्वरते उपगच्छति उपगम्य वर्तते वा । ह्वृ कौटिल्ये'। “साधते च तेनैव तेजसा साधयति स्वाभीष्टम् । किंच “ऋतस्य यज्ञसाधकस्याग्नेस्तेजसा “धेनाः सर्वप्राणिनां वाचः “सस्रुतः समानं गच्छन्त्यः सहैव प्रवर्तमानाः ।। स्रवतेः कर्तरि क्विप् ॥ “अनयन्त नयन्ति निर्वहन्ति जगद्व्यवहारम् ॥ व्यत्ययेनात्मनेपदम् । यद्वा । ऋतस्य धेना यज्ञस्य संबन्धिन्यो मन्त्ररूपा वाचः सस्रुतो होत्रादिमुखेन सहैव प्रवर्तमाना अनयन्त नयन्ति । अग्नेः स्तोत्रं निर्वहन्ति । अग्नेस्तेजसा वा यज्ञं निर्वहन्ति । ‘ तेजोमयी वाक् ' (छा, उ. ६. ५. ४ ) इति श्रुतेः । अतः कारणात् मतिरुपह्वरते इत्यर्थः । धेनेति वाङ्नाम, धेना ग्नाः ' ( नि. १. ११. ३९ ) इति तन्नामसु पाठात् ।।।
 
 
Line ६६ ⟶ ६९:
तृतीयम् । अस्य । वृषभस्य । दोहसे । दशऽप्रमतिम् । जनयन्त । योषणः ॥
 
अयमग्निः “पृक्षः अन्नसाधकः पाकादिना “वपुः वपुष्मान् शरीराभिवृद्धिहेतुः “पितुमान् हविर्लक्षणान्नयुक्तः “नित्यः शाश्वतः। ईदृशः सन् प्रथमं पृथिवीस्थानः सन् “आ “शये आशेते । दाहपाकादि लौकिकं कर्म यज्ञादि वैदिकं कर्म च निर्वर्तयन् ध्रुवो भूमौ वर्तते इत्यर्थः । तथा “सप्तशिवासु “मातृषु सप्तलोकशिवकरीषु मातृस्थानीयासु हितकरीषु वृष्टिषु “द्वितीयम् “आ शेते । मध्यमस्थानो विद्युद्रूपो वा वर्तते । “अस्य “वृषभस्य वर्षितुरस्यैव वैद्युताग्नेः सहायत्वेन संबन्धिने “दोहसे दोग्ध्रे आदित्यस्थोदकस्य वर्षयित्रे आदित्यरश्मये । दुहेः कर्तरि असुप्रत्ययः । तत्प्रवृत्तये “तृतीयम् आशेते । द्युस्थानो वर्तते । यद्वा । अस्य वृषभस्य वर्षितुः प्रसिद्धस्यादित्यस्य संबन्धिने दोग्ध्रे रश्मये तत्प्रवृत्त्यर्थम् । आदित्यरश्मयो घर्मकाले भूमिस्थमुदकमाकृष्य सूर्यं प्रापय्य तत्र चिरकालं धृत्वा पुनरन्तरिक्षं प्राप्य मेघेषु स्थित्वा वर्षकाले प्रवर्षन्तीति प्रसिद्धम् । अतो रश्मेर्दोग्धृत्वम् । ईदृशं त्रिस्थानमग्निं महाभागं “योषणः मिश्रणशीलाः सर्वा दिशः “जनयन्त उत्पादयन्ति । सर्वासु दिक्षु प्रसृत इत्यर्थः । कीदृशं तम् । “दशप्रमतिम् । दशसु दिक्षु प्रकृष्टमननवन्तं पूज्यत्वाय । यद्वा । मथनकाले दशभिरङ्गुलीभिरुत्पन्नं लोकत्रये दशदिक्षु च व्याप्तमित्यर्थः ॥
 
 
Line ८० ⟶ ८४:
यत् । ईम् । अनु । प्रऽदिवः । मध्वः । आऽधवे । गुहा । सन्तम् । मातरिश्वा । मथायति ॥
 
“ईम् एनमग्निं “यत् यस्मात् कारणात् “महिषस्य । महन्नामैतत्, ‘महिषः अभ्वः ऋभुक्षा: ( नि. ३. ३. ८) इति तन्नामसु पाठात् । महतो यज्ञस्य “बुध्नात् मूलात् आधानादारभ्य “वर्पसः । रूपनामैतत् । रूपस्य उपक्रमोपसंहारात्मकस्य सिद्धये “ईशानासः स्वकीयव्यापारसमर्थाः “सूरयः मेधाविन ऋत्विजः “शवसा बलेन मन्त्रादिरूपेण शारीरेण वा “निः “क्रन्त निष्कुर्वन्ति साधयन्ति उत्पादयन्ति काष्ठात् । यद्वा । एनमग्निं बुध्नात् आदितो मथनादारभ्य महिषस्य वर्पसो महतो रूपस्य आहुतिस्वीकारसमर्थस्य सिद्धये निष्कुर्वन्ति ॥ करोतेश्छान्दसे लुङि : मन्त्रे घस० ) इति च्लेर्लुक् । व्यत्ययेन अन्तादेशः ॥ किंच “यदीम् एनमेवाग्निं “प्रदिवः पुराणात् । अनादिकालमारभ्य न केवलमिदानीमेवेत्यर्थः । पूर्ववत् इदानीं “मध्वः मधुनो मधुसदृशस्य “आधवे आधवने प्रक्षेपे निमित्ते सति “गुहा “सन्तं गुहायां वेद्यां काष्ठेषु निगूढं सन्तं "मातरिश्वा अन्तरिक्षे चेष्टमानो वायुः अनुक्रमेण “मथायति चालयति । उद्बोधयतीत्यर्थः । यद्वा । मातरि फलस्य मातरि यागे श्वसिति चेष्टते इति मातरिश्वा यजमानो गुहा सन्तम् अरण्योर्निगूढं सन्तं प्रादुर्भावाय अनुक्रमेण मथायति मथ्नाति उत्पादयतीत्यर्थः । यस्मादेवंरूपस्तस्मात् स्तोतव्य इत्यर्थः ।।
 
 
Line ९४ ⟶ ९९:
उभा । यत् । अस्य । जनुषम् । यत् । इन्वतः । आत् । इत् । यविष्ठः । अभवत् । घृणा । शुचिः ॥
 
“यत् यस्मात् “पितुः अन्नस्य पशुलक्षणस्य ॥ षष्ठीस्थाने प्रथमा ।। तस्य “परमात् परमत्वाद्धेतोः । उत्कृष्टत्वायेत्यर्थः। तदर्थं “प्र “परि “नीयते प्रकर्षेण परितो नीयते पर्यग्निक्रियते इत्यर्थः । यद्वा । पितुरुत्पादकात् परमात् उत्कृष्टात् गार्हपत्यलक्षणस्याग्नेः सकाशात् आहवनीयं प्रति प्र परि नीयते प्रकर्षेण नीयते । परि अनर्थकः । किंच “पृक्षुधः पशुपुरोडाशादिषु दाहमध्ये धीयमानाः । यद्वा ॥ मशब्दस्य संप्रसारणम् । क्षुध बुभुक्षायाम्' । क्विप् ॥ प्रक्षोध्याः प्रकर्षेण बुभुक्षिता भोक्तुमिष्यमाणाः । “वीरुधो “दंसु दन्तेषु मध्ये "आ “रोहति आरोहन्ति प्रविशन्तीत्यर्थः । “यत् यस्मात् “उभा उभौ अध्वर्युयजमानौ उभे अरणी वा “अस्य अग्नेः “जनुषं जन्म उत्पत्तिम् “इन्वतः व्याप्नुतः स्वीकुरुत इत्यर्थः ॥ ‘ इवि व्याप्तौ ' । इदित्त्वात् नुम् ॥ “आदित् अत एव कारणात् “शुचिः शुद्धोऽयमग्निः “घृणा यजमानेष्वनुग्रहेण । यद्वा । घृणा घृणो दीप्तिमान् ।। मत्वर्थों लुप्यते ।। दीप्त्या वा “यविष्ठः युवतमः “अभवत् संपन्नः । स्वीकारसमर्थोऽभवदित्यर्थः ।।
 
 
Line १०८ ⟶ ११४:
अनु । यत् । पूर्वा । अरुहत् । सनाऽजुवः । नि । नव्यसीषु । अवरासु । धावते ॥
 
अयमग्निः “आ “शुचिः दीप्तः सन् “आदित् पूर्वमन्त्रे यविष्ठोऽभवदित्युक्तत्वात् तदनन्तरमेव "मातॄः उत्पादयित्रीर्मातृस्थानीया दश दिशः “आ “अविशत् सर्वतः प्रविशति । पूर्वत्र ‘दशप्रमतिं जनयन्त योषणः' (ऋ. सं.१. १४१. २) इत्युक्तत्वात् दिशां मातृत्वम् । दिक्षु प्रकाशेन व्याप्त इत्यर्थः । मातरो विशेष्यन्ते। “यासु मातृषु “अहिंस्यमानः परैरपीड्यमानः “उर्विया उरु अतिप्रभूतं “वि “ववृधे विविधं प्रवृद्धोऽभवत् तास्वाविशत् । यथा लोके कश्चित्तेजस्वी जनन्याः स्तनपानपरिपीडादिभिः सम्यक् पोषितो लोके प्रकाश्य पुनरागत्य मातरमालिङ्गति तद्वदिति भावः । कस्मिन् काले इति तत्राह । “यत् यदा “सनाजुवः दीर्घकालवियोगिन्यः स्थापनकाल एव प्रक्षिप्ताः अत एव “पूर्वाः प्रथमभाविनीरोषधीरनुक्रमेण “अरुहत् आरोहति ।। रुहेश्छान्दसो लुङ् । ‘ कृमृदृरुहिभ्यश्छन्दसि ' इति च्लेः अङादेशः ।। उपरि प्रज्वलति । तथा “नव्यसीषु नवतरासु अत एव “अवरासु अत एव पूर्वापेक्षया निकृष्टासु पश्चाद्भाविनीष्वोषधीषु “नि “धावते नितरां नीचैर्वा गच्छति । अन्तःप्रविशतीत्यर्थः । यदा काष्ठानाम् अधस्तादुपरिष्टाच्च प्रविश्य ज्वलति तदा दिक्षु प्रकाशितोऽभवत्' इत्यर्थः ॥ ॥ ८ ॥
 
 
Line १२२ ⟶ १२९:
देवान् । यत् । क्रत्वा । मज्मना । पुरुऽस्तुतः । मर्तम् । शंसम् । विश्वधा । वेति । धायसे ॥
 
“होतारं होमनिष्पादकम् आह्वातारं वा देवानां ईदृशमग्निं “दिविष्टिषु दिवसैषणेषु निमित्तभूतेषु “वृणते संभजते । “आदित् अनन्तरमेव तथा “पप्रचानासः हविषा स्तुत्या च संपृचाना ऋत्विजो यजमानाः ॥ पृचेश्छान्दसस्य लिटः कानच् ॥ “ऋञ्जते प्रसाधयन्ति । किमिव। “भगमिव । तं यथा जनाः प्रसाधयन्ति तद्वत् । यद्वा । महान्तं राजानमिव सूर्यदीप्तिवत् पूज्यमित्यर्थः । ‘ ऋञ्जतिः प्रसाधनकर्मा' इति यास्कः । “यत् यस्मात् अयमग्निः “पुरुष्टुतः बहुभिर्बहुधा वा स्तूयमानः “क्रत्वा क्रतुना कर्मणा यागादिरूपेण “मज्मना शारीरेण बलेन च युक्तान् "देवान् व्यवहर्तॄनृत्विजो यज्ञभुजो देवान् वा क्रत्वा मज्मना च योजयितुं तथा “मर्तं यजमानं “शंसं स्तुतिं च स्तुत्यं वा तं “विश्वधा विश्वधनो यद्वा विश्वात्मकोऽयं “वेति पूर्वोक्तान् कामयते । किमर्थम् । “धायसे हविर्लक्षणान्नाय । तस्मात् होतारमग्निं वृणते ऋञ्जते च ।।
 
 
Line १३६ ⟶ १४४:
तस्य । पत्मन् । धक्षुषः । कृष्णऽजंहसः । शुचिऽजन्मनः । रजः । आ । विऽअध्वनः ॥
 
“यत् यदा अयमग्निः “वातचोदितः वायुना प्रेरितः ॥ तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम्॥ “यजतः सर्वैः यष्टव्यः यष्टुं योग्यः सन् “वि “अस्थात् वितिष्ठते सर्वतो व्याप्तो भवति । तत्र दृष्टान्तः । “अनाकृतः अनिवारितोऽप्रतिहतप्रसरः "वक्वा बहुवक्ता ॥ वचेः ‘अन्येभ्योऽपि दृश्यन्ते' इति वनिप् । दृशिग्रहणात् कुत्वम् ॥ "ह्वारो “न कुटिल इव विदूषणकादिरिव' । ह्वरतेर्ण्यन्तात् पचाद्यच् ॥ स यथा “जरणाः स्तुतीर्वितिष्ठते विविधं कुर्वन् वर्तते तद्वदयमप्यनाकृतः अप्रतिबद्धप्रसरो व्यवस्थितः । तदा “तस्य अग्नेः “पत्मन् पतने मार्गे यज्ञरूपे “रजः रञ्जनात्मको लोकः “आ अस्थात् आतिष्ठति सर्वतः आश्रयति अग्नौ बहुधा यजतीत्यर्थः । कीदृशस्य तस्य । “धक्षुषः दहतः ॥ दहेर्लिटः क्वसुः ।। "कृष्णजंहसः कृष्णमार्गस्य ॥ पुनःपुनर्गम्यते इति जंहा मार्गः । हन्तेर्यङ्लुगन्तात् कर्मणि असुन् । कुत्वाभावश्छान्दसः ॥ “शुचिजन्मनः मन्त्रसहितारण्योरुत्पन्नत्वात् “व्यध्वनः विविधज्वालस्य अनियतमार्गस्य ।
 
 
Line १५० ⟶ १५९:
आत् । अस्य । ते । कृष्णासः । धक्षि । सूरयः । शूरस्यऽइव । त्वेषथात् । ईषते । वयः ॥
 
अयमग्निः “शिक्वभिः रज्जुभिः “कृतः बद्धः “रथो “न रथ इव । स यथा स्वीयैश्चक्रादिभिः अङगैः “ईयते तद्वत् “यातः स्थापितः सन् “अरुषेभिः गमनशीलैः “अङ्गेभिः ज्वालादिरूपैः अवयवैः “द्याम् अन्तरिक्षम् आज्येन हृष्टः सन् “ईयते गच्छति ।। ‘ईङ् गतौ ।। “आत् प्रवृद्ध्यनन्तरम् “अस्य अग्नेः “ते “सूरयः सरणयो मार्गाः "कृष्णासः कृष्णवर्णा भवन्ति । यत एवं भवन्ति तदर्थं “दक्षि दहति काष्ठान् ।। पुरुषव्यत्ययः । छान्दसः शपो लुक् ।। किंच ज्वलितस्याग्नेः “त्वेषथात् दीप्तात् तेजसः सकाशात् “वयः गमनवन्तः पक्षिमृगादयः “ईषते गच्छन्ति ।। ईष गत्यादौ । ‘ बहुलं छन्दसि ' इति शपो लुक्॥ पलायन्ते । तत्र दृष्टान्तः । शूरस्य त्वेषथात् वय इव । कस्यचित् विक्रान्तस्य दीप्तात्तेजसः सकाशात् भीत्या पलायमाना इव । एवमन्तरिक्षं स्पृशन् सर्वतो दहतीति सर्वदा दावाग्निरूपेण स्तूयते ॥
 
 
Line १६४ ⟶ १७४:
यत् । सीम् । अनु । क्रतुना । विश्वऽथा । विऽभुः । अरान् । न । नेमिः । परिऽभूः । अजायथाः ॥
 
हे “अग्ने “त्वया खलु “वरुणः रात्र्यभिमानी देवः “धृतव्रतः स्वीकृतवर्षणादिकर्मा भवति । तथा “मित्रः अहरभिमानी देवः “शाशद्रे शातयति तमः ॥ शद्लृ शातने' । छान्दसो लिट् । बहुलं छन्दसि ' इति रुट् । तुजादित्वात् अभ्यासदीर्घः । तथा “अर्यमा उभयोर्मध्यवर्ती देवः “सुदानवः शोभनदानो भवति ।। व्यत्ययेन बहुवचनम् । यद्वा । एते वरुणादयः सुदानवः शोभनदानाः स्वस्वकार्यकर्तारस्त्वया हि शाशद्रे तीक्ष्णीक्रियन्ते । हिशब्दो मन्त्रान्तरप्रसिद्धिद्योतनार्थः । ‘ त्वमग्ने वरुणो जायसे (ऋ. सं. ५, ३. १ ) इति हि मन्त्रान्तरम् ॥ शदेः कर्मणि छान्दसो लिट् । ‘इरयो रे' इति रेभावः । ‘ हि च ' इति निघाताभावः । वरुणादीनामग्न्यायत्तत्वे उपपत्तिमाह । “यत् यस्मात् कारणात् हे अग्ने “सीं सर्वतः “क्रतुना कर्मणा “विश्वथा विश्व इव विश्वात्मक इव “विभुः मित्रार्यमात्मना सर्वव्यापी “परिभूः स्वतेजसा सर्वतः परिभाविता सन् अनुक्रमेण “अजायथाः जायसे प्रादुर्भवसि । तत्र दृष्टान्तः । “अरान् रथस्य शङ्कून् “नेमिः “न बाह्यवलय इव । स यथा व्याप्य तिष्ठति तद्वदयमग्निर्वरुणादीन् व्याप्य तिष्ठति ।।
 
 
Line १७८ ⟶ १८९:
त्वम् । त्वा । नु । नव्यम् । सहसः । युवन् । वयम् । भगम् । न । कारे । महिऽरत्न । धीमहि ॥
 
हे “अग्ने "यविष्ठ युवतम “त्वं “शशमानाय त्वां स्तुवते । शशमान: शंसमानः '( निरु, ६.८ ) इति यास्कः । “सुन्वते त्वदर्थमभिषवं कुर्वते यजमानाय तद्यागार्थं “रत्नं रमणीयं हविः “देवताति देवेषु तायमानं विस्तार्यमाणम् “इन्वसि व्याप्नोषि । अस्मत्प्रत्तं हविः देवान् प्रापयसीत्यर्थः । इन्वतिः व्याप्तिकर्मा, ‘इन्वति ननक्ष' (नि. २. १८. १ ) इति तन्नामसु पाठात् । हे “सहसो “युवन् । युवशब्देनोत्पत्तिर्लक्ष्यते । मथनकाले बलेनोत्पन्न बलस्य मिश्रयितर्वा। यद्वा । सहसस्पुत्र युवन् नित्यतरुण “महिरत्न अस्मत्प्रदेयमहद्रमणीयधन “नव्यं नवतरं स्तुत्यं वा “तं तादृशं हविर्भुजं “त्वा त्वां “वयं यजमानाः “कारे शब्दे स्तोत्रलक्षणे “नु क्षिप्रं “धीमहि स्थापयामः । हविष्प्रदानसमये क्षिप्रमेव स्तुम इत्यर्थः । तत्र दृष्टान्तः । “भगं “न आदित्यमिव । यद्वा । महान्तं राजानमिव । तं यथा स्तुवन्ति तद्वत् ।।
 
 
Line १९२ ⟶ २०४:
रश्मीन्ऽइव । यः । यमति । जन्मनी इति । उभे इति । देवानाम् । शंसम् । ऋते । आ । च । सुऽक्रतुः ॥
 
हे अग्ने त्वम् “अस्मे अस्मासु “स्वर्थं सुष्ठु अरणीयं “दमूनसं दमनीयम् उपार्ज्यम् ॥ दमेरूनसिः' (उ. सू. ४. २३५ ) इति ऊनसिप्रत्ययः ।। “रयिं “न “पपृचासि धनं यथा संपृणक्षि । तथा “भगं सर्वैर्भजनीयं “दक्षं “न उत्साहवन्तं प्रबुद्धं वा “धर्णसिं विद्यादिधारणकुशलं पुत्रं यथा पप्रचासि संपृणक्षि उभयमपि ददासीत्यर्थः । “पृची संपर्के'। लेटि आडागमः। ‘बहुलं छन्दसि ' इति विकरणस्य श्लुः ॥ इदानीं परोक्षेणाह । “यः अग्निः “रश्मीँरिव स्वकीयान् रश्मीन् यथा “यमति नियमयति विस्तारयति तद्वत् सः “उभे "जन्मनी जननाधारभूतौ उभौ लोकौ इहलोकपरलोकौ यमति नियच्छति । तथा “सुक्रतुः शोभनकर्मा अयम् “ऋते अस्मदीययज्ञे “देवानां देवसंबन्धिनं “शंसं स्तवं “च “आ यमति आयच्छति सर्वदा ददाति । यद्वा । पूर्वार्धे पपृचासीत्यपि परोक्षत्वाय प्रथमपुरुषतया योज्यम् ॥
 
 
Line २०६ ⟶ २१९:
सः । नः । नेषत् । नेषऽतमैः । अमूरः । अग्निः । वामम् । सुवितम् । वस्यः । अच्छ ॥
 
उतशब्दोऽप्यर्थः । स च संभावनायाम् । सोऽग्निः “नः अस्मदीयमाह्वानम् “उत “शृणवत् । अपि नाम शृणुयात् । यद्वा । नः अस्मान् श्रावयेत् देवेषु मध्ये प्रख्यापयेत् ॥ शृणोतेर्लेटि अडागमः॥ कीदृशोऽयम् । “सुद्योत्मा सुद्योतमानः ॥ ‘ द्युत दीप्तौ । अन्येभ्योऽपि दृश्यन्ते' इति मनिन् । “जीराश्वः शीघ्रगमनाश्वः “होता देवानामाह्वाता “मन्द्रः मदनशीलः “चन्द्ररथः सुवर्णमयरथोपेतः । किंच अयम् “अमूरः अमूढबलः “वस्यः वसनीयः “सः प्रसिद्धः “अग्निः “नेषतमैः अत्यर्थं नेतृभिः कर्मभिः स्तोत्रैर्वा “नः अस्मान् उत “नेषत् अपि नाम नयेत् । यज्ञस्य पारं प्रापयेत् ॥ नयतेलेंटि अडागमः । ‘ सिब्बहुलम् ' इति सिप्॥ किमर्थम् । “वामं वननीयं "सुवितं सुष्ठु प्राप्यं सर्वैः काङ्क्षणीयं स्वर्गम् “अच्छ आभिमुख्येन प्राप्तुं नेषत् ॥
 
 
Line २२० ⟶ २३४:
अमी इति । च । ये । मघऽवानः । वयम् । च । मिहम् । न । सूरः । अति । निः । ततन्युः ॥
 
अयम् “अग्निः “शिमीवद्भिः हविष्प्रदानादिकर्मवद्भिः “अर्कैः अर्चनसाधनैर्मन्त्रैः “अस्तावि स्तुतोऽस्माभिर्यजमानैः । शिमीति कर्मनाम, ‘ शिमी शक्तिः ' ( नि. २. १. २४ ) इति तन्नामसु पाठात् । कीदृशोऽयम् । “साम्राज्याय साम्राज्यस्येति कर्मणि षष्ठीस्थाने चतुर्थी । सम्यक् राजमानत्वं “प्रतरं प्रकृष्टतरमत्यर्थं “दधानः ।।' अमु च च्छन्दसि ' इति अमुप्रत्ययः ।। किंच इममग्निम् “अमी “च पुरोवर्तमाना ऋत्विजः पुत्रादयो वा "ये "वयं “च पूर्वं स्तोतृत्वेन प्रसिद्धा वयमपि “अति अत्यर्थं “निष्टतन्युः शब्दयन्तु ।। निष्पूर्वः स्तनतिः शब्दकर्मा ।। इतः परमपि अस्मत्पुत्रपौत्रादयो वयं च अग्निं स्तुम इत्यर्थः । तत्र दृष्टान्तः । “मिहं “न “सूरः । मिहं मेहनशीलं मेघं यथा सूरः सूर्यो वृष्ट्यर्थं शब्दयति तद्वत् ॥ लिङि छान्दसो विकरणस्य श्लुः । ‘ अभिनिसः स्तनः शब्दसंज्ञायाम् (पा. सू. ८. ३. ८६ ) इति षत्वम् ॥ ॥ ९ ॥
 
}}
{{ऋग्वेदः मण्डल १}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१४१" इत्यस्माद् प्रतिप्राप्तम्