"ऋग्वेदः सूक्तं १.१४२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. दे. आप्रीसूक्तं - १ इध्मः समिद्धोऽग्निर्वा, २ तनूनपात्, ३ नराशंसः, ४ इळः, ५ बर्हिः, ६ देवीर्द्वारः, ७ उषासानक्ता, ८ दैव्यौ होतारौ प्रचेतसौ, ९ तिस्रो देव्यः सरस्वतीळाभारत्यः, १० त्वष्टा, ११ वनस्पतिः, १२ स्वाहाकृतयः, १३ इन्द्रः । । अनुष्टुप् ।
}}
<poem><span style="font-size: 14pt; line-height:200%">
 
{{ऋग्वेदः मण्डल १}}
<div class="verse">
<pre>
समिद्धो अग्न आ वह देवाँ अद्य यतस्रुचे ।
तन्तुं तनुष्व पूर्व्यं सुतसोमाय दाशुषे ॥१॥
 
घृतवन्तमुप मासि मधुमन्तं तनूनपात् ।
यज्ञं विप्रस्य मावतः शशमानस्य दाशुषः ॥२॥
 
शुचिः पावको अद्भुतो मध्वा यज्ञं मिमिक्षति ।
नराशंसस्त्रिरा दिवो देवो देवेषु यज्ञियः ॥३॥
 
ईळितो अग्न आ वहेन्द्रं चित्रमिह प्रियम् ।
इयं हि त्वा मतिर्ममाच्छा सुजिह्व वच्यते ॥४॥
 
स्तृणानासो यतस्रुचो बर्हिर्यज्ञे स्वध्वरे ।
वृञ्जे देवव्यचस्तममिन्द्राय शर्म सप्रथः ॥५॥
 
वि श्रयन्तामृतावृधः प्रयै देवेभ्यो महीः ।
पावकासः पुरुस्पृहो द्वारो देवीरसश्चतः ॥६॥
 
आ भन्दमाने उपाके नक्तोषासा सुपेशसा ।
यह्वी ऋतस्य मातरा सीदतां बर्हिरा सुमत् ॥७॥
 
मन्द्रजिह्वा जुगुर्वणी होतारा दैव्या कवी ।
यज्ञं नो यक्षतामिमं सिध्रमद्य दिविस्पृशम् ॥८॥
 
शुचिर्देवेष्वर्पिता होत्रा मरुत्सु भारती ।
इळा सरस्वती मही बर्हिः सीदन्तु यज्ञियाः ॥९॥
 
तन्नस्तुरीपमद्भुतं पुरु वारं पुरु त्मना ।
त्वष्टा पोषाय वि ष्यतु राये नाभा नो अस्मयुः ॥१०॥
 
अवसृजन्नुप त्मना देवान्यक्षि वनस्पते ।
अग्निर्हव्या सुषूदति देवो देवेषु मेधिरः ॥११॥
 
पूषण्वते मरुत्वते विश्वदेवाय वायवे ।
स्वाहा गायत्रवेपसे हव्यमिन्द्राय कर्तन ॥१२॥
 
स्वाहाकृतान्या गह्युप हव्यानि वीतये ।
इन्द्रा गहि श्रुधी हवं त्वां हवन्ते अध्वरे ॥१३॥
 
</span></poem>
 
</pre>
</div>
 
{{सायणभाष्यम्|
समिद्धः ' इति त्रयोदशर्चं तृतीयं सूक्तमानुष्टुभम् । प्रथमायाः समिन्नामकोऽग्निर्देवता समिद्धोऽग्निः । द्वितीयादीनां तनूनपान्नराशंस इळो बर्हिर्देवीर्द्वार उषासानक्ता दैव्यौ होतारौ प्रचेतसौ तिस्रो देव्यः सरस्वतीळाभारत्यस्त्वष्टा वनस्पतिः स्वाहाकृतिरित्येताः क्रमेण देवताः । अन्त्याया इन्द्रः । तिस्रो देव्य इत्यस्य विवरणं सरस्वतीळाभारत्य इति । अत्रानुक्रमणिका - समिद्ध आप्रिय आनुष्टभमन्त्यैन्द्री' इति ।। अत्र इध्मतनूनपादादिभिर्यज्ञावयववाचिभिर्यज्ञ एवोच्यते । अतः स एव देवतेति कात्थक्यस्य मतम् । अग्निरेव समिदादिभिरुच्यते । अतः स एव देवतेति शाकपूणेर्मतम् । निरुक्ते किंदेवताः प्रयाजानुयाजा इति छन्दोदेवता इत्यादिपक्षान्तरं बहुधा प्रदर्श्य तदर्थे ब्राह्मणादि चोदाहृत्य इतरे पक्षी अर्थवादा आग्नेया एवेति सिद्धान्तितम् , ' अथ किंदेवताः प्रयाजानुयाजाः ' ( निरु. ८ . २१) इत्यादिना ॥ पशौ अङ्गिरोगोत्रोत्पन्नानाम् एतदाप्रीसूक्तम् । 'एकादश प्रयाजाः ' इति खण्डे सूत्रितं-’ समिद्धो अद्येति सर्वेषां यथऋषि बा' (आश्व. श्रौ. ३. २) इति । अत्र यथऋषिग्रहणात् ॥ अप्रीसूक्तानि त्रिविधानि । तत्र वासिष्ठात्रेयवाध्र्यश्वगार्त्समदानि चत्वारि नराशंसवन्ति । मैधातिथदैर्घतमसप्रैषिकाणि नराशंसतनूनपादुभयवन्ति । इतराणि तनूनपात्वन्तीति । तत्रैतत्सूक्तं दैर्घतमसत्वादुभयवत् ॥
 
 
समि॑द्धो अग्न॒ आ व॑ह दे॒वाँ अ॒द्य य॒तस्रु॑चे ।
 
तंतुं॑ तनुष्व पू॒र्व्यं सु॒तसो॑माय दा॒शुषे॑ ॥१
 
सम्ऽइ॑द्धः । अ॒ग्ने॒ । आ । व॒ह॒ । दे॒वान् । अ॒द्य । य॒तऽस्रु॑चे ।
 
तन्तु॑म् । त॒नु॒ष्व॒ । पू॒र्व्यम् । सु॒तऽसो॑माय । दा॒शुषे॑ ॥
 
सम्ऽइद्धः । अग्ने । आ । वह । देवान् । अद्य । यतऽस्रुचे ।
 
तन्तुम् । तनुष्व । पूर्व्यम् । सुतऽसोमाय । दाशुषे ॥
 
 
 
घृ॒तवं॑त॒मुप॑ मासि॒ मधु॑मंतं तनूनपात् ।
 
य॒ज्ञं विप्र॑स्य॒ माव॑तः शशमा॒नस्य॑ दा॒शुषः॑ ॥२
 
घृ॒तऽव॑न्तम् । उप॑ । मा॒सि॒ । मधु॑ऽमन्तम् । त॒नू॒ऽन॒पा॒त् ।
 
य॒ज्ञम् । विप्र॑स्य । माऽव॑तः । श॒श॒मा॒नस्य॑ । दा॒शुषः॑ ॥
 
घृतऽवन्तम् । उप । मासि । मधुऽमन्तम् । तनूऽनपात् ।
 
यज्ञम् । विप्रस्य । माऽवतः । शशमानस्य । दाशुषः ॥
 
 
 
शुचिः॑ पाव॒को अद्भु॑तो॒ मध्वा॑ य॒ज्ञं मि॑मिक्षति ।
 
नरा॒शंस॒स्त्रिरा दि॒वो दे॒वो दे॒वेषु॑ य॒ज्ञियः॑ ॥३
 
शुचिः॑ । पा॒व॒कः । अद्भु॑तः । मध्वा॑ । य॒ज्ञम् । मि॒मि॒क्ष॒ति॒ ।
 
नरा॒शंसः॑ । त्रिः । आ । दि॒वः । दे॒वः । दे॒वेषु॑ । य॒ज्ञियः॑ ॥
 
शुचिः । पावकः । अद्भुतः । मध्वा । यज्ञम् । मिमिक्षति ।
 
नराशंसः । त्रिः । आ । दिवः । देवः । देवेषु । यज्ञियः ॥
 
 
 
ई॒ळि॒तो अ॑ग्न॒ आ व॒हेंद्रं॑ चि॒त्रमि॒ह प्रि॒यं ।
 
इ॒यं हि त्वा॑ म॒तिर्ममाच्छा॑ सुजिह्व व॒च्यते॑ ॥४
 
ई॒ळि॒तः । अ॒ग्ने॒ । आ । व॒ह॒ । इन्द्र॑म् । चि॒त्रम् । इ॒ह । प्रि॒यम् ।
 
इ॒यम् । हि । त्वा॒ । म॒तिः । मम॑ । अच्छ॑ । सु॒ऽजि॒ह्व॒ । व॒च्यते॑ ॥
 
ईळितः । अग्ने । आ । वह । इन्द्रम् । चित्रम् । इह । प्रियम् ।
 
इयम् । हि । त्वा । मतिः । मम । अच्छ । सुऽजिह्व । वच्यते ॥
 
 
 
स्तृ॒णा॒नासो॑ य॒तस्रु॑चो ब॒र्हिर्य॒ज्ञे स्व॑ध्व॒रे ।
 
वृं॒जे दे॒वव्य॑चस्तम॒मिंद्रा॑य॒ शर्म॑ स॒प्रथः॑ ॥५
 
स्तृ॒णा॒नासः॑ । य॒तऽस्रु॑चः । ब॒र्हिः । य॒ज्ञे । सु॒ऽअ॒ध्व॒रे ।
 
वृ॒ञ्जे । दे॒वव्य॑चःऽतमम् । इन्द्रा॑य । शर्म॑ । स॒ऽप्रथः॑ ॥
 
स्तृणानासः । यतऽस्रुचः । बर्हिः । यज्ञे । सुऽअध्वरे ।
 
वृञ्जे । देवव्यचःऽतमम् । इन्द्राय । शर्म । सऽप्रथः ॥
 
 
 
वि श्र॑यंतामृता॒वृधः॑ प्र॒यै दे॒वेभ्यो॑ म॒हीः ।
 
पा॒व॒कासः॑ पुरु॒स्पृहो॒ द्वारो॑ दे॒वीर॑स॒श्चतः॑ ॥६
 
वि । श्र॒य॒न्ता॒म् । ऋ॒त॒ऽवृधः॑ । प्र॒ऽयै । दे॒वेभ्यः॑ । म॒हीः ।
 
पा॒व॒कासः॑ । पु॒रु॒ऽस्पृहः॑ । द्वारः॑ । दे॒वीः । अ॒स॒श्चतः॑ ॥
 
वि । श्रयन्ताम् । ऋतऽवृधः । प्रऽयै । देवेभ्यः । महीः ।
 
पावकासः । पुरुऽस्पृहः । द्वारः । देवीः । असश्चतः ॥
 
 
 
आ भंद॑माने॒ उपा॑के॒ नक्तो॒षासा॑ सु॒पेश॑सा ।
 
य॒ह्वी ऋ॒तस्य॑ मा॒तरा॒ सीद॑तां ब॒र्हिरा सु॒मत् ॥७
 
आ । भन्द॑माने॒ इति॑ । उपा॑के॒ इति॑ । नक्तो॒षसा॑ । सु॒ऽपेश॑सा ।
 
य॒ह्वी इति॑ । ऋ॒तस्य॑ । मा॒तरा॑ । सीद॑ताम् । ब॒र्हिः । आ । सु॒ऽमत् ॥
 
आ । भन्दमाने इति । उपाके इति । नक्तोषसा । सुऽपेशसा ।
 
यह्वी इति । ऋतस्य । मातरा । सीदताम् । बर्हिः । आ । सुऽमत् ॥
 
 
 
मं॒द्रजि॑ह्वा जुगु॒र्वणी॒ होता॑रा॒ दैव्या॑ क॒वी ।
 
य॒ज्ञं नो॑ यक्षतामि॒मं सि॒ध्रम॒द्य दि॑वि॒स्पृशं॑ ॥८
 
म॒न्द्रऽजि॑ह्वा । जु॒गु॒र्वणी॒ इति॑ । होता॑रा । दैव्या॑ । क॒वी इति॑ ।
 
य॒ज्ञम् । नः॒ । य॒क्ष॒ता॒म् । इ॒मम् । सि॒ध्रम् । अ॒द्य । दि॒वि॒ऽस्पृश॑म् ॥
 
मन्द्रऽजिह्वा । जुगुर्वणी इति । होतारा । दैव्या । कवी इति ।
 
यज्ञम् । नः । यक्षताम् । इमम् । सिध्रम् । अद्य । दिविऽस्पृशम् ॥
 
 
 
शुचि॑र्दे॒वेष्वर्पि॑ता॒ होत्रा॑ म॒रुत्सु॒ भार॑ती ।
 
इळा॒ सर॑स्वती म॒ही ब॒र्हिः सी॑दंतु य॒ज्ञियाः॑ ॥९
 
शुचिः॑ । दे॒वेषु॑ । अर्पि॑ता । होत्रा॑ । म॒रुत्ऽसु॑ । भार॑ती ।
 
इळा॑ । सर॑स्वती । म॒ही । ब॒र्हिः । सी॒द॒न्तु॒ । य॒ज्ञियाः॑ ॥
 
शुचिः । देवेषु । अर्पिता । होत्रा । मरुत्ऽसु । भारती ।
 
इळा । सरस्वती । मही । बर्हिः । सीदन्तु । यज्ञियाः ॥
 
 
 
तन्न॑स्तु॒रीप॒मद्भु॑तं पु॒रु वारं॑ पु॒रु त्मना॑ ।
 
त्वष्टा॒ पोषा॑य॒ वि ष्य॑तु रा॒ये नाभा॑ नो अस्म॒युः ॥१०
 
तत् । नः॒ । तु॒रीप॑म् । अद्भु॑तम् । पु॒रु । वा॒ । अर॑म् । त्मना॑ ।
 
त्वष्टा॑ । पोषा॑य । वि । स्य॒तु॒ । रा॒ये । नाभा॑ । नः॒ । अ॒स्म॒ऽयुः ॥
 
तत् । नः । तुरीपम् । अद्भुतम् । पुरु । वा । अरम् । त्मना ।
 
त्वष्टा । पोषाय । वि । स्यतु । राये । नाभा । नः । अस्मऽयुः ॥
 
 
 
अ॒व॒सृ॒जन्नुप॒ त्मना॑ दे॒वान्य॑क्षि वनस्पते ।
 
अ॒ग्निर्ह॒व्या सु॑षूदति दे॒वो दे॒वेषु॒ मेधि॑रः ॥११
 
अ॒व॒ऽसृ॒जन् । उप॑ । त्मना॑ । दे॒वान् । य॒क्षि॒ । व॒न॒स्प॒ते॒ ।
 
अ॒ग्निः । ह॒व्या । सु॒सू॒द॒ति॒ । दे॒वः । दे॒वेषु॑ । मेधि॑रः ॥
 
अवऽसृजन् । उप । त्मना । देवान् । यक्षि । वनस्पते ।
 
अग्निः । हव्या । सुसूदति । देवः । देवेषु । मेधिरः ॥
 
 
 
पू॒ष॒ण्वते॑ म॒रुत्व॑ते वि॒श्वदे॑वाय वा॒यवे॑ ।
 
स्वाहा॑ गाय॒त्रवे॑पसे ह॒व्यमिंद्रा॑य कर्तन ॥१२
 
पू॒ष॒ण्ऽवते॑ । म॒रुत्व॑ते । वि॒श्वऽदे॑वाय । वा॒यवे॑ ।
 
स्वाहा॑ । गा॒य॒त्रऽवे॑पसे । ह॒व्यम् । इन्द्रा॑य । क॒र्त॒न॒ ॥
 
पूषण्ऽवते । मरुत्वते । विश्वऽदेवाय । वायवे ।
 
स्वाहा । गायत्रऽवेपसे । हव्यम् । इन्द्राय । कर्तन ॥
 
 
 
स्वाहा॑कृता॒न्या ग॒ह्युप॑ ह॒व्यानि॑ वी॒तये॑ ।
 
इंद्रा ग॑हि श्रु॒धी हवं॒ त्वां ह॑वंते अध्व॒रे ॥१३
 
स्वाहा॑ऽकृतानि । आ । ग॒हि॒ । उप॑ । ह॒व्यानि॑ । वी॒तये॑ ।
 
इन्द्र॑ । आ । ग॒हि॒ । श्रु॒धि । हव॑म् । त्वाम् । ह॒व॒न्ते॒ । अ॒ध्व॒रे ॥
 
स्वाहाऽकृतानि । आ । गहि । उप । हव्यानि । वीतये ।
 
इन्द्र । आ । गहि । श्रुधि । हवम् । त्वाम् । हवन्ते । अध्वरे ॥
 
 
 
}}
{{ऋग्वेदः मण्डल १}}
== ==
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१४२" इत्यस्माद् प्रतिप्राप्तम्