"जैमिनीयं ब्राह्मणम्/काण्डम् १/२७१-२८०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४३:
 
 
<poem>पृथुर् ह वैन्यो दिव्यान् व्रात्यान् पप्रच्छ
यज्ञस्य धाम परमं गुहायां
निर्मितं महतो ऽन्तरिक्षात्।
कस्माद् यन्ति पवमानाः पराञ्चः
कस्माद् उक्थ्याः पुनर् अभ्याकनिक्रति॥</poem>
इति।
<poem>देवा अन्यां वर्तनिम् अध्वरस्य मानुषास उपजीवन्त्य् अन्याम्।
तस्माद् यन्ति पवमानाः पराञ्चम्
तस्माद् उक्थ्याः पुनर् अभ्याकनिक्रति॥</poem>
इति ह प्रत्यूचुः। यो वै देवान् मनुष्येष्व आभक्तान् वेद मनुष्यान् उ देवेष्व् आभक्त एव देवेषु भवत्य् आभक्तो मनुष्येषु। गच्छति तं लोकं यत्र देवा नास्माद् देवता अपक्रामन्ति॥
 
पङ्क्तिः ६७:
 
यो वै मितं चामितं च वेद मितं च हास्यामितं च बहु भवति। देवा वै पवमानाः प्रजाः पृष्ठोक्थानि। साम वै देवाः प्रजाश् शस्त्राणि। तद् वा एतत्। एत एवापि सर्वे देवा यत्स्तोत्राणि। तद् यन् मितानि स्तोत्राणि भवन्ति तस्मान् मिता देवाः। अष्टौ वसव एकादश रुद्रा द्वादशादित्याः। अथ यस्माद् अमितानि शस्त्राणि तस्माद् व् अमिताः प्रजाः। न तान् विद्म यावन्तो ब्राह्मणा यावन्तो राजन्या यावन्तो वैश्या यावन्तश् शूद्रा इति। एतद् वै मितं चामितं च। मितं हास्यामितं च बहु भवति य एवं वेद॥
<poem>ये अर्वाञ्चस् तं उ पराच आहुर् ये पराञ्चस्तं उ अर्वाच आहुः।
इन्द्रश् च या चक्रथुस् सोमश् च तानि धुरा नियुक्ता रजसो वहन्ति॥</poem>
इति। पवमाना वै पराञ्चः। तेषां चमसा अर्वाञ्चः। ते ह ते प्राणा एव। तस्मात् प्राण्यापानितुं शक्नोति। अभ्यावर्ता अर्वाञ्चः। तेषां पराञ्चश् चमसाः। ते ह ते ऽपाना एव। तस्माद् व् अपान्य प्राणितुं शक्नोति॥1.279॥