"ऋग्वेदः सूक्तं १०.१०२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
}}
 
<poem><span style="font-size: 14pt; line-height:200%">
<div class="verse">
<pre>
प्र ते रथं मिथूकृतमिन्द्रोऽवतु धृष्णुया ।
अस्मिन्नाजौ पुरुहूत श्रवाय्ये धनभक्षेषु नोऽव ॥१॥
Line ३६ ⟶ ३५:
वृषा यदाजिं वृषणा सिषाससि चोदयन्वध्रिणा युजा ॥१२॥
 
</prespan></poem>
 
</div>
 
{{सायणभाष्यम्|
प्र ते॒ रथं॑ मिथू॒कृत॒मिंद्रो॑ऽवतु धृष्णु॒या ।
 
अ॒स्मिन्ना॒जौ पु॑रुहूत श्र॒वाय्ये॑ धनभ॒क्षेषु॑ नोऽव ॥१
 
प्र । ते॒ । रथ॑म् । मि॒थु॒ऽकृत॑म् । इन्द्रः॑ । अ॒व॒तु॒ । धृ॒ष्णु॒ऽया ।
 
अ॒स्मिन् । आ॒जौ । पु॒रु॒ऽहू॒त॒ । श्र॒वाय्ये॑ । ध॒न॒ऽभ॒क्षेषु॑ । नः॒ । अ॒व॒ ॥
 
प्र । ते । रथम् । मिथुऽकृतम् । इन्द्रः । अवतु । धृष्णुऽया ।
 
अस्मिन् । आजौ । पुरुऽहूत । श्रवाय्ये । धनऽभक्षेषु । नः । अव ॥
 
 
 
उत्स्म॒ वातो॑ वहति॒ वासो॑ऽस्या॒ अधि॑रथं॒ यदज॑यत्स॒हस्रं॑ ।
 
र॒थीर॑भून्मुद्ग॒लानी॒ गवि॑ष्टौ॒ भरे॑ कृ॒तं व्य॑चेदिंद्रसे॒ना ॥२
 
उत् । स्म॒ । वातः॑ । व॒ह॒ति॒ । वासः॑ । अ॒स्याः॒ । अधि॑ऽरथम् । यत् । अज॑यत् । स॒हस्र॑म् ।
 
र॒थीः । अ॒भू॒त् । मु॒द्ग॒लानी॑ । गोऽइ॑ष्टौ । भरे॑ । कृ॒तम् । वि । अ॒चे॒त् । इ॒न्द्र॒ऽसे॒ना ॥
 
उत् । स्म । वातः । वहति । वासः । अस्याः । अधिऽरथम् । यत् । अजयत् । सहस्रम् ।
 
रथीः । अभूत् । मुद्गलानी । गोऽइष्टौ । भरे । कृतम् । वि । अचेत् । इन्द्रऽसेना ॥
 
 
 
अं॒तर्य॑च्छ॒ जिघां॑सतो॒ वज्र॑मिंद्राभि॒दास॑तः ।
 
दास॑स्य वा मघव॒न्नार्य॑स्य वा सनु॒तर्य॑वया व॒धं ॥३
 
अ॒न्तः । य॒च्छ॒ । जिघां॑सतः । वज्र॑म् । इ॒न्द्र॒ । अ॒भि॒ऽदास॑तः ।
 
दास॑स्य । वा॒ । म॒घ॒ऽव॒न् । आर्य॑स्य । वा॒ । स॒नु॒तः । य॒व॒य॒ । व॒धम् ॥
 
अन्तः । यच्छ । जिघांसतः । वज्रम् । इन्द्र । अभिऽदासतः ।
 
दासस्य । वा । मघऽवन् । आर्यस्य । वा । सनुतः । यवय । वधम् ॥
 
 
 
उ॒द्नो ह्र॒दम॑पिब॒ज्जर्हृ॑षाणः॒ कूटं॑ स्म तृं॒हद॒भिमा॑तिमेति ।
 
प्र मु॒ष्कभा॑रः॒ श्रव॑ इ॒च्छमा॑नोऽजि॒रं बा॒हू अ॑भर॒त्सिषा॑सन् ॥४
 
उ॒द्नः । ह्र॒दम् । अ॒पि॒ब॒त् । जर्हृ॑षाणः । कूट॑म् । स्म॒ । तृं॒हत् । अ॒भिऽमा॑तिम् । ए॒ति॒ ।
 
प्र । मु॒ष्कऽभा॑रः । श्रवः॑ । इ॒च्छमा॑नः । अ॒जि॒रम् । बा॒हू इति॑ । अ॒भ॒र॒त् । सिसा॑सन् ॥
 
उद्नः । ह्रदम् । अपिबत् । जर्हृषाणः । कूटम् । स्म । तृंहत् । अभिऽमातिम् । एति ।
 
प्र । मुष्कऽभारः । श्रवः । इच्छमानः । अजिरम् । बाहू इति । अभरत् । सिसासन् ॥
 
 
 
न्य॑क्रंदयन्नुप॒यंत॑ एन॒ममे॑हयन्वृष॒भं मध्य॑ आ॒जेः ।
 
तेन॒ सूभ॑र्वं श॒तव॑त्स॒हस्रं॒ गवां॒ मुद्ग॑लः प्र॒धने॑ जिगाय ॥५
 
नि । अ॒क्र॒न्द॒य॒न् । उ॒प॒ऽयन्तः॑ । ए॒न॒म् । अमे॑हयन् । वृ॒ष॒भम् । मध्ये॑ । आ॒जेः ।
 
तेन॑ । सूभ॑र्वम् । श॒तऽव॑त् । स॒हस्र॑म् । गवा॑म् । मुद्ग॑लः । प्र॒ऽधने॑ । जि॒गा॒य॒ ॥
 
नि । अक्रन्दयन् । उपऽयन्तः । एनम् । अमेहयन् । वृषभम् । मध्ये । आजेः ।
 
तेन । सूभर्वम् । शतऽवत् । सहस्रम् । गवाम् । मुद्गलः । प्रऽधने । जिगाय ॥
 
 
 
क॒कर्द॑वे वृष॒भो यु॒क्त आ॑सी॒दवा॑वची॒त्सार॑थिरस्य के॒शी ।
 
दुधे॑र्यु॒क्तस्य॒ द्रव॑तः स॒हान॑स ऋ॒च्छंति॑ ष्मा नि॒ष्पदो॑ मुद्ग॒लानीं॑ ॥६
 
क॒कर्द॑वे । वृ॒ष॒भः । यु॒क्तः । आ॒सी॒त् । अवा॑वचीत् । सार॑थिः । अ॒स्य॒ । के॒शी ।
 
दुधेः॑ । यु॒क्तस्य॑ । द्रव॑तः । स॒ह । अन॑सा । ऋ॒च्छन्ति॑ । स्म॒ । निः॒ऽपदः॑ । मु॒द्ग॒लानी॑म् ॥
 
ककर्दवे । वृषभः । युक्तः । आसीत् । अवावचीत् । सारथिः । अस्य । केशी ।
 
दुधेः । युक्तस्य । द्रवतः । सह । अनसा । ऋच्छन्ति । स्म । निःऽपदः । मुद्गलानीम् ॥
 
 
 
उ॒त प्र॒धिमुद॑हन्नस्य वि॒द्वानुपा॑युन॒ग्वंस॑ग॒मत्र॒ शिक्ष॑न् ।
 
इंद्र॒ उदा॑व॒त्पति॒मघ्न्या॑ना॒मरं॑हत॒ पद्या॑भिः क॒कुद्मा॑न् ॥७
 
उ॒त । प्र॒ऽधिम् । उत् । अ॒ह॒न् । अ॒स्य॒ । वि॒द्वान् । उप॑ । अ॒यु॒न॒क् । वंस॑गम् । अत्र॑ । शिक्ष॑न् ।
 
इन्द्रः॑ । उत् । आ॒व॒त् । पति॑म् । अघ्न्या॑नाम् । अरं॑हत । पद्या॑भिः । क॒कुत्ऽमा॑न् ॥
 
उत । प्रऽधिम् । उत् । अहन् । अस्य । विद्वान् । उप । अयुनक् । वंसगम् । अत्र । शिक्षन् ।
 
इन्द्रः । उत् । आवत् । पतिम् । अघ्न्यानाम् । अरंहत । पद्याभिः । ककुत्ऽमान् ॥
 
 
 
शु॒नम॑ष्ट्रा॒व्य॑चरत्कप॒र्दी व॑र॒त्रायां॒ दार्वा॒नह्य॑मानः ।
 
नृ॒म्णानि॑ कृ॒ण्वन्ब॒हवे॒ जना॑य॒ गाः प॑स्पशा॒नस्तवि॑षीरधत्त ॥८
 
शु॒नम् । अ॒ष्ट्रा॒ऽवी । अ॒च॒र॒त् । क॒प॒र्दी । व॒र॒त्राया॑म् । दारु॑ । आ॒ऽनह्य॑मानः ।
 
नृ॒म्णानि॑ । कृ॒ण्वन् । ब॒हवे॑ । जना॑य । गाः । प॒स्प॒शा॒नः । तवि॑षीः । अ॒ध॒त्त॒ ॥
 
शुनम् । अष्ट्राऽवी । अचरत् । कपर्दी । वरत्रायाम् । दारु । आऽनह्यमानः ।
 
नृम्णानि । कृण्वन् । बहवे । जनाय । गाः । पस्पशानः । तविषीः । अधत्त ॥
 
 
 
इ॒मं तं प॑श्य वृष॒भस्य॒ युंजं॒ काष्ठा॑या॒ मध्ये॑ द्रुघ॒णं शया॑नं ।
 
येन॑ जि॒गाय॑ श॒तव॑त्स॒हस्रं॒ गवां॒ मुद्ग॑लः पृत॒नाज्ये॑षु ॥९
 
इ॒मम् । तम् । प॒श्य॒ । वृ॒ष॒भस्य॑ । युञ्ज॑म् । काष्ठा॑याः । मध्ये॑ । द्रु॒ऽघ॒नम् । शया॑नम् ।
 
येन॑ । जि॒गाय॑ । श॒तऽव॑त् । स॒हस्र॑म् । गवा॑म् । मुद्ग॑लः । पृ॒त॒नाज्ये॑षु ॥
 
इमम् । तम् । पश्य । वृषभस्य । युञ्जम् । काष्ठायाः । मध्ये । द्रुऽघनम् । शयानम् ।
 
येन । जिगाय । शतऽवत् । सहस्रम् । गवाम् । मुद्गलः । पृतनाज्येषु ॥
 
 
 
आ॒रे अ॒घा को न्वि१॒॑त्था द॑दर्श॒ यं युं॒जंति॒ तम्वा स्था॑पयंति ।
 
नास्मै॒ तृणं॒ नोद॒कमा भ॑रं॒त्युत्त॑रो धु॒रो व॑हति प्र॒देदि॑शत् ॥१०
 
आ॒रे । अ॒घा । कः । नु । इ॒त्था । द॒द॒र्श॒ । यम् । यु॒ञ्जन्ति॑ । तम् । ऊं॒ इति॑ । आ । स्था॒प॒य॒न्ति॒ ।
 
न । अ॒स्मै॒ । तृण॑म् । न । उ॒द॒कम् । आ । भ॒र॒न्ति॒ । उत्ऽत॑रः । धु॒रः । व॒ह॒ति॒ । प्र॒ऽदेदि॑शत् ॥
 
आरे । अघा । कः । नु । इत्था । ददर्श । यम् । युञ्जन्ति । तम् । ऊं इति । आ । स्थापयन्ति ।
 
न । अस्मै । तृणम् । न । उदकम् । आ । भरन्ति । उत्ऽतरः । धुरः । वहति । प्रऽदेदिशत् ॥
 
 
 
प॒रि॒वृ॒क्तेव॑ पति॒विद्य॑मान॒ट् पीप्या॑ना॒ कूच॑क्रेणेव सिं॒चन् ।
 
ए॒षै॒ष्या॑ चिद्र॒थ्या॑ जयेम सुमं॒गलं॒ सिन॑वदस्तु सा॒तं ॥११
 
प॒रि॒वृ॒क्ताऽइ॑व । प॒ति॒ऽविद्य॑म् । आ॒न॒ट् । पीप्या॑ना । कूच॑क्रेणऽइव । सि॒ञ्चन् ।
 
ए॒ष॒ऽए॒ष्या॑ । चि॒त् । र॒थ्या॑ । ज॒ये॒म॒ । सु॒ऽम॒ङ्गल॑म् । सिन॑ऽवत् । अ॒स्तु॒ । सा॒तम् ॥
 
परिवृक्ताऽइव । पतिऽविद्यम् । आनट् । पीप्याना । कूचक्रेणऽइव । सिञ्चन् ।
 
एषऽएष्या । चित् । रथ्या । जयेम । सुऽमङ्गलम् । सिनऽवत् । अस्तु । सातम् ॥
 
 
 
त्वं विश्व॑स्य॒ जग॑त॒श्चक्षु॑रिंद्रासि॒ चक्षु॑षः ।
 
वृषा॒ यदा॒जिं वृष॑णा॒ सिषा॑ससि चो॒दय॒न्वध्रि॑णा यु॒जा ॥१२
 
त्वम् । विश्व॑स्य । जग॑तः । चक्षुः॑ । इ॒न्द्र॒ । अ॒सि॒ । चक्षु॑षः ।
 
वृषा॑ । यत् । आ॒जिम् । वृष॑णा । सिसा॑ससि । चो॒दय॑न् । वध्रि॑णा । यु॒जा ॥
 
त्वम् । विश्वस्य । जगतः । चक्षुः । इन्द्र । असि । चक्षुषः ।
 
वृषा । यत् । आजिम् । वृषणा । सिसाससि । चोदयन् । वध्रिणा । युजा ॥
 
 
 
}}
{{ऋग्वेदः मण्डल १०}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१०२" इत्यस्माद् प्रतिप्राप्तम्