"ऋग्वेदः सूक्तं १०.१०२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३७:
</span></poem>
 
== ==
 
{{सायणभाष्यम्|
‘प्र ते रथम् ' इति द्वादशर्चं तृतीयं सूक्तम् । भर्म्यश्वपुत्रो मुद्गल ऋषिः। आद्या तृतीयान्त्या चेति तिस्रो बृहत्यः । शिष्टा नव त्रिष्टुभः । दुघणो नाम मुद्गरः । तद्देवत्यमिदमिन्द्रदेवत्यं वा । तथा चानुक्रान्तं-- प्र ते मुद्गलो भार्म्यश्व ऋषभेण द्रुघणेन चाजिं जिगायेति द्रौघणं वाद्या तृतीयान्त्या च बृहत्यः' इति । गतो विनियोगः । अत्राहुः-- मुद्गलस्य हृता गावश्चोरैस्त्यक्त्वा जरद्गवम् । स शिष्टं शकटे कृत्वा गत्वैक ऋजुराहवम् । द्रुघणं युयुजेऽन्यत्र चोर मार्गानुसारकः । द्रुघणं चाग्रतः क्षिप्त्वा चोरेभ्यो जगृहे स्वगाः' इति । तथा निरुक्तेऽपीयं कथा सूचिता----’ मुद्गलो भार्म्यश्व ऋषिर्वृषभं च द्रुघणं च युक्त्वा संग्रामे व्यवहृत्याजिं जिगाय' (निरु. ९. २३ ) इति ॥ प्र ते रथे मिथूकृतमिन्द्रोऽवतु धृष्णुया ।।
 
 
प्र ते॒ रथं॑ मिथू॒कृत॒मिंद्रो॑ऽवतु धृष्णु॒या ।
 
Line ५१ ⟶ ५५:
अस्मिन् । आजौ । पुरुऽहूत । श्रवाय्ये । धनऽभक्षेषु । नः । अव ॥
 
हे मुद्गल “ते “रथं “मिथूकृतं मिथःकृतमसहायं कृतम् । अथवा मिथुरिति मिथ्यानाम । अश्वादिभिः शून्यं कृतं “धृष्णुया धर्षणशीलः “इन्द्रोऽवतु रक्षतु । यद्वा । धृष्णुया धर्षणशीलेन वज्रेण । उभयत्र ‘सुपां सुलुक्' इति सुपो याजादेशः । अथ प्रत्यक्षकृतः । हे “पुरुहूत बहुभिराहूतेन्द्र “अस्मिन्नाजौ संग्रामेऽपहृतगोभिश्चौरैः कृते संग्रामे । कीदृशे । “श्रवाय्ये श्रोतव्ये । विश्रुत इत्यर्थः । ‘ श्रुदक्षि° (उ, सू. ३.९६ ) इत्यादिना आय्यप्रत्ययः । “धनभक्षेषु अस्मासु गोरूपधनभजनकामेषु सत्सु । यद्वा । गोरूपधनस्य भक्षकेषु चौरेषु जेतव्येषु सत्सु । “न: अस्मान् “अव रक्ष ॥
 
 
Line ६५ ⟶ ७०:
रथीः । अभूत् । मुद्गलानी । गोऽइष्टौ । भरे । कृतम् । वि । अचेत् । इन्द्रऽसेना ॥
 
“अस्याः ‘ रथीरभून्मुद्गलानी ' इति वक्ष्यमाणत्वादस्य मुद्गलस्य पत्न्याः सारथिभूतायाः “वासः अंशुकं “वातः वायुः “उत् “वहति ऊर्ध्वं प्रापयति । श्रमजनितस्वेदापनयाय । अथवा शीघ्ररथधावनजनितो वायुरंशुकं चालयतीत्यर्थः । कदेति उच्यते । “यत् यदा “अधिरथम् अधिकं रथमारुह्य “सहस्रं सहस्रसंख्याकं गोसंघम् “अजयत् तदा । यद्या गोसहस्रमजयदस्या इति वा योज्यम् । यद्योगाज्जयतेर्न
 
 
अं॒तर्य॑च्छ॒ जिघां॑सतो॒ वज्र॑मिंद्राभि॒दास॑तः ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१०२" इत्यस्माद् प्रतिप्राप्तम्