"जैमिनीयं ब्राह्मणम्/काण्डम् २/१४१-१५०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १२:
 
अथैतानि गोनामामि भवन्ति - पशवो वै गोनामानि - पशूनाम् एवावरुद्ध्यै। एकपदा प्रथमा भवति, त्रिपदे उत्तरे द्वे। तानि सप्तपदानि संपद्यन्ते। सप्तपदा वै शक्वर्यः। शाक्वराः पशवः। अभिपूर्वाणाम् एव पशूनाम् अवरुद्ध्यै। तद् आहुर् अपावमान्यो न पवमाने कार्या इति। तद् उ वा आहुः - पावमान्य एवामुष्य वा एताश् चन्द्रमस ऋचः। एष वै पवमान, एष सोमो राजा। तस्मात् कार्या एवेति।
<poem>सुमन्मा वस्वी रन्ती सूनरी सुरूप वृषन्न् आ गहि।
इमौ भद्रौ धुर्याव् अभि ताव् इमा उपसर्पतः॥
नीव शीर्षाणि मृढ्वं मध्य आपस्यति।
शृंगेभिर् दशभिर् दिशन्॥</poem>
इति ये ह वा एत आदित्यस्य रश्मय एतानि ह वा एतस्य शृंगाणि। मध्य उ ह वा एष एतत् अपाम्। तासु वारवन्तीयम् । यद् अनेन कर्मणावारुत्स्महि, तन् नो वारवन्तीयेन वारितम् अन्तत उपतिष्ठाता इति। तद् उ वा आहुर् यद् वावान्या वाङ् नातिवदति तद् एतस्याह्नो ऽग्निष्टोमसाम कार्यम्। यज्ञायज्ञीयं वावान्या वाङ् नातिवदति। वाग् वै यज्ञायज्ञीयम्. कुतो हि वाग् वाचम् अतिवदष्यति। तस्माद् एतस्याह्नो यज्ञायज्ञीयम् एवाग्निष्टोमसाम कार्यम् इति॥2.145॥
 
 
अथैष वैश्वदेवः। प्रजननकामो हैतेन यजेत। प्रजापतिर् वा अकामयत - बहुः प्रजया पशुभिः प्रजायेय, वैश्वदेवीः प्रजास् सृजेयेति। स एतं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै स बहुः प्रजया पशुभिः प्रजायत, वैश्वदेवीः प्रजा असृजत। स यत् कामयेत बहुः प्रजया पशुभिः प्रजायेय, वैश्वदेवीः प्रजास् सृजेयेति, स एतेन यजेत। बहुर् एव प्रजया पशुभिः प्रजायते, वैश्वदेवीः प्रजास् सृजते। तद् यद् एष वैश्वदेवो भवति वैश्वदेवीनाम् एव प्रजानां सृष्ट्यै। स सर्व एव वैश्वदेवीषु भवति वैश्वदेवीनाम् एव प्रजानां प्रजात्यै।
 
स त्रिवृद् भवति - न्यूनं वै त्रिवृत्। न्यूनं प्रजननम् - तद् यत् प्रजननं तन् मा प्रजनयाद् इति।
 
तस्य रथन्तरं पृष्ठं भवति - प्रजननं वै रथन्तरं - तद् यत् प्रजननं तन् मा प्रजनयाद् इति।
 
स उक्थ्यो भवति - प्रजा वै पशव उक्थानि। प्रजा वै पशवः प्रजननं - तद् यत् प्रजननं तन् मा प्रजनयाद् इति॥2.146॥
 
 
अथो आहुस् सप्तदश एव स्याद् इति - प्रजापतिर् वै सप्तदशः। प्रजापतिः प्रजननं - स यः प्रजननं स मा प्रजनयाद् इति।
 
अथो आहुस् त्रिणव एव स्याद् इति। त्रयो ह ते त्रिवृतः। न्यूनं वै त्रिवृत्। न्यूनं प्रजननम्। तद् यत् प्रजननं तन् मा प्रजनयाद् इति।
 
अथो आहुस् त्रयस्त्रिंश एव स्याद् इति। प्रजापतिर् वै त्रयस्त्रिंशः । प्रजापतिः प्रजननम्। स यः प्रजननं स मा प्रजनयाद् इति।
 
तद् उ वा आहुस् सप्तदश एव स्यात्। एष ह वाव प्रजापतिर् यत् सप्तदशः। तस्मात् सप्तदश एव स्याद् इति। स उ एव त्रिवृतं च स्तोमं गायत्रीं च छन्दो ऽभिसंपद्यते। एतद् वै दैव्यंमिथुनं प्रजननं यत् त्रिवृच् च स्तोमो गायत्री च छन्दः। तद् यद् दैव्यं मिथुनं प्रजननं तन् मा प्रजनयाद् इति।