"सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.3 तृतीयप्रपाठकः/2.3.2 द्वितीयोऽर्द्धः" इत्यस्य संस्करणे भेदः

<table> <tr><td><p><center> १ </center></p></tr> <tr><td><p> गोवित्पवस्व वसुवि... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०७:४३, ८ अक्टोबर् २०११ इत्यस्य संस्करणं

गोवित्पवस्व वसुविद्धिरण्यविद्रेतोधा इन्दो भुवनेष्वर्पितः |
त्वं सुवीरो असि सोम विश्ववित्तं त्वा नर उप गिरेम आसते || ९५५ ||

१अ
१छ्

त्वं नृचक्षा असि सोम विश्वतः पवमान वृषभ ता वि धावसि |
स नः पवस्व वसुमद्धिरण्यवद्वयं स्याम भुवनेषु जीवसे || ९५६ ||

२अ
२छ्

ईशान इमा भुवनानि ईयसे युजान इन्दो हरितः सुपर्ण्यः |
तास्ते क्षरन्तु मधुमद्घृतं पयस्तव व्रते सोम तिष्ठन्तु कृष्टयः || ९५७ ||

३अ
३छ्

पवमानस्य विश्ववित्प्र ते सर्गा असृक्षत |
सूर्यस्येव न रश्मयः || ९५८ ||

१अ
१छ्

केतुं कृण्वं दिवस्परि विश्वा रूपाभ्यर्षसि |
समुद्रः सोम पिन्वसे || ९५९ ||

२अ
२छ्

जज्ञानो वाचमिष्यसि पवमान विधर्मणि |
क्रन्दं देवो न सूर्यः || ९६० ||

३अ
३छ्

प्र सोमासो अधन्विषुः पवमानास इन्दवः |
श्रीणाना अप्सु वृञ्जते || ९६१ ||

१अ
१छ्

अभि गावो अधन्विषुरापो न प्रवता यतीः |
पुनाना इन्द्रमाशत || ९६२ ||

२अ
२छ्

प्र पवमान धन्वसि सोमेन्द्राय मादनः |
नृभिर्यतो वि नीयसे || ९६३ ||

३अ
३छ्

इन्दो यदद्रिभिः सुतः पवित्रं परिदीयसे |
अरमिन्द्रस्य धाम्ने || ९६४ ||

४अ
४छ्

त्वं सोम नृमादनः पवस्व चर्षणीधृतिः |
सस्निर्यो अनुमाद्यः || ९६५ ||

५अ
५छ्

पवस्व वृत्रहन्तम उक्थेभिरनुमाद्यः |
शुचिः पावको अद्भुतः || ९६६ ||

६अ
६छ्

शुचिः पावक उच्यते सोमः सुतः स मधुमान् |
देवावीरघशंसहा || ९६७ ||

७अ
७छ्

प्र कविर्देववीतयेऽव्या वारेभिरव्यत |
साह्वान्विश्वा अभि स्पृधः || ९६८ ||

१अ
१छ्

स हि ष्मा जरितृभ्य आ वाजं गोमन्तमिन्वति |
पवमानः सहस्रिणं || ९६९ ||

२अ
२छ्

परि विश्वानि चेतसा मृज्यसे पवसे मती |
स नः सोम श्रवो विदः || ९७० ||

३अ
३छ्

अभ्यर्ष बृहद्यशो मघवद्भ्यो ध्रुवं रयिं |
इषं स्तोतृभ्य आ भर || ९७१ ||

४अ
४छ्

त्वं राजेव सुव्रतो गिरः सोमाविवेशिथ |
पुनानो वह्ने अद्भुत || ९७२ ||

५अ
५छ्

स वह्निरप्सु दुष्टरो मृज्यमानो गभस्त्योः |
सोमश्चमूषु सीदति || ९७३ ||

६अ
६छ्

क्रीडुर्मखो न मंहयुः पवित्रं सोम गच्छसि |
दधत्स्तोत्रे सुवीर्यं || ९७४ ||

७अ
७छ्

यवंयवं नो अन्धसा पुष्टंपुष्टं परि स्रव |
विश्वा च सोम सौभगा || ९७५ ||

१अ
१छ्

इन्दो यथा तव स्तवो यथा ते जातमन्धसः |
नि बर्हिषि प्रिये सदः || ९७६ ||

२अ
२छ्

उत नो गोविदश्ववित्पवस्व सोमान्धसा |
मक्षूतमेभिरहभिः || ९७७ ||

३अ
३छ्

यो जिनाति न जीयते हन्ति शत्रुमभीत्य |
स पवस्व सहस्रजित् ||९७८ ||

४अ
४छ्

यास्ते धारा मधुश्चुतोऽसृग्रमिन्द ऊतये |
ताभिः पवित्रमासदः || ९७९ ||

१अ
१छ्

सो अर्षेन्द्राय पीतये तिरो वाराण्यव्यया |
सीदन्नृतस्य योनिमा || ९८० ||

२अ
२छ्

त्वं सोम परि स्रव स्वादिष्ठो अङ्गिरोभ्यः |
वरिवोविद्धृतं पयः || ९८१ ||

३अ
३छ्

तव श्रियो वर्ष्यस्येव विद्युतोग्नेश्चिकित्र उषसामिवेतयः |
यदोषधीरभिसृष्टो वनानि च परि स्वयं चिनुषे अन्नमासनि || ९८२ ||

१अ
१छ्

वातोपजूत इषितो वशां अनु तृषु यदन्ना वेविषद्वितिष्ठसे |
आ ते यतन्ते रथ्यो३ यथा पृथक्शर्धांस्यग्ने अजरस्य धक्षतः || ९८३ ||

२अ
२छ्

मेधाकारं विदथस्य प्रसाधनमग्निं होतारं परिभूतरं मतिं |
त्वामर्भस्य हविषः समानमित्तवां महो वृणते नान्यं त्वत् ||९८४ ||

३अ
३छ्

पुरूरुणा चिद्ध्यस्त्यवो नूनं वां वरुण |
मित्र वंसि वां सुमतिं || ९८५ ||

१अ
१छ्

ता वां सम्यगद्रुह्वाणेषमश्याम धाम च |
वयं वां मित्रा स्याम || ९८६ ||

२अ
२छ्

पातं नो मित्रा पायुभिरुत त्रायेथां सुत्रात्रा |
साह्याम दस्यूं तनूभिः || ९८७ ||

३अ
३छ्

उत्तिष्ठन्नोजसा सह पीत्वा शिप्रे अवेपयः |
सोममिन्द्र चमूसुतं || ९८८ ||

१अ
१छ्

अनु त्वा रोदसी उभे स्पर्धमानमददेतां |
इन्द्र यद्दस्युहाभवः || ९८९ ||

२अ
२छ्

वाचमष्टापदीमहं नवस्रक्तिमृतावृधं |
इन्द्रात्परितन्वं ममे || ९९० ||

३अ
३छ्

१०

इन्द्राग्नी युवामिमे३ऽभि स्तोमा अनूषत |
पिबतं शम्भुवा सुतं || ९९१ ||

१अ
१छ्

या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा |
इन्द्राग्नी ताभिरा गतं || ९९२ ||

२अ
२छ्

ताभिरा गच्छतं नरोपेदं सवनं सुतं |
इन्द्राग्नी सोमपीतये || ९९३ ||

३अ
३छ्

११

अर्षा सोम द्युमत्तमोऽभि द्रोणानि रोरुवत् |
सीदन्योनौ योनेष्वा || ९९४ ||

१अ
१छ्

अप्सा इन्द्राय वायवे वरुणाय मरुद्भ्यः |
सोमा अर्षन्तु विष्णवे || ९९५ ||

२अ
२छ्

इषं तोकाय नो दधदस्मभ्यं सोम विश्वतः |
आ पवस्व सहस्रिणं || ९९६ ||

३अ
३छ्

१२

सोम उ ष्वाणः सोतृभिरधि ष्णुभिरवीनां |
अश्वयेव हरिता याति धारया मन्द्रया याति धारया || ९९७ ||

१अ
१छ्

अनूपे गोमान्गोभिरक्षाः सोमो दुग्धाभिरक्षाः |
समुद्रं न संवरणान्यग्मन्मन्दी मदाय तोशते || ९९८ ||

२अ
२छ्

१३

यत्सोम चित्रमुक्थ्यं दिव्यं पार्थिवं वसु |
तन्नः पुनान आ भर || ९९९ ||

१अ
१छ्

वृषा पुनान आयुंषि स्तनयन्नधि बर्हिषि |
हरिः सन्योनिमासदः || १००० ||

२अ
२छ्

युवं हि स्थः स्वःपती इन्द्रश्च सोम गोपती |
ईशाना पिप्यतं धियः || १००१ ||

३अ
३छ्

१४

इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः |
तमिन्महत्स्वाजिषूतिमर्भे हवामहे स वाजेषु प्र नोऽविषत् ||१००२ ||

१अ
१छ्

असि हि वीर सेन्योऽसि भूरि पराददिः |
असि दभ्रस्य चिद्वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु || १००३ ||

२अ
२छ्

यदुदीरत आजयो धृष्णवे धीयते धनां |
युङ्क्ष्वा मदच्युता हरी कं हनः कं वसौ दधोऽस्मां इन्द्र वसौ दधः || १००४ ||

३अ
३छ्

१५

स्वादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः |
या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभसे वस्वीरनु स्वराज्यं || १००५ ||

१अ
१छ्

ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः |
प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीरनु स्वराज्यं || १००६ ||

२अ
२छ्

ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः |
व्रतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीरनु स्वराज्यं || १००७ ||

३अ
३छ्

१६

असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः |
श्येनो न योनिमासदत् ||१००८ ||

१अ
१छ्

शुभ्रमन्धो देववातमप्सु धौतं नृभिः सुतं |
स्वदन्ति गावः पयोभिः || १००९ ||

२अ
२छ्

आदीमश्वं न हेतारमशूशुभन्नमृताय |
मधो रसं सधमादे || १०१० ||

३अ
३छ्

१७

अभि द्युभ्नं बृहद्यश इषस्पते दीदिहि देव देवयुं |
वि कोशं मध्यमं युव || १०११ ||

१अ
१छ्

आ वच्यस्व सुदक्ष चम्वोः सुतो विशां वह्निर्न विश्पतिः |
वृष्टिं दिवः पवस्व रीतिमपो जिन्वन्गविष्टये धियः || १०१२ ||

२अ
२छ्

१८

प्राणा शिशुर्महीनां हिन्वन्नृतस्य दीधितिं |
विश्वा परि प्रिया भुवदध द्विता || १०१३ ||

१अ
१छ्

उप त्रितस्य पाष्यो३रभक्त यद्गुहा पदं |
यज्ञस्य सप्त धामभिरध प्रियं || १०१४ ||

२अ
२छ्

त्रीणि त्रितस्य धारया पृष्टेष्वैरयद्रयिं |
मिमीते अस्य योजना वि सुक्रतुः || १०१५ ||

३अ
३छ्

१९

पवस्व वाजसातये पवित्रे धारया सुतः |
इन्द्राय सोम विष्णवे देवेभ्यो मधुमत्तरः || १०१६ ||

१अ
१छ्

त्वां रिहन्ति धीतयो हरिं पवित्रे अद्रुहः |
वत्सं जातं न मातरः पवमान विधर्मणि || १०१७ ||

२अ
२छ्

त्वं द्यां च महिव्रत पृथिवीं चाति जभ्रिषे |
प्रति द्रापिममुञ्चथाः पवमान महित्वना || १०१८ ||

३अ
३छ्

२०

इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय |
हन्ति रक्षो बाधते पर्यरातिं वरिवस्कृण्वन्वृजनस्य राजा || १०१९ ||

१अ
१छ्

अध धारया मध्वा पृचानस्तिरो रोम पवते अद्रिदुग्धः |
इन्दुरिन्द्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय || १०२० ||

२अ
२छ्

अभि व्रतानि पवते पुनानो देवो देवान्त्स्वेन रसेन पृञ्चन् |
इन्दुर्धर्माण्यृतुथा वसानो दश क्षिपो अव्यत सानो अव्ये || १०२१ ||

३अ
३छ्

२१

आ ते अग्न इधीमहि द्युमन्तं देवाजरं |
युद्ध स्या ते पनीयसी समिद्दीदयति द्यवीषं स्तोतृभ्य आ भर || १०२२ ||

१अ
१छ्

आ ते अग्न ऋचा हविः शुक्रस्य ज्योतिषस्पते |
सुश्चन्द्र दस्म विश्पते हव्यवाट्तुभ्यं हूयत इषं स्तोतृभ्य आ भर || १०२३ ||

२अ
२छ्

ओभे सुश्चन्द्र विश्पते दर्वी श्रीणीष आसनि |
उतो न उत्पुपूर्या उक्थेषु शवसस्पत इषं स्तोतृभ्य आ भर || १०२४ ||

३अ
३छ्

२२

इन्द्राय साम गायत विप्राय बृहते बृहत् |
ब्रह्माकृते विपश्चिते पनस्यवे || १०२५ ||

१अ
१छ्

त्वमिन्द्राभिभूरसि त्वं सूर्यमरोचयः |
विश्वकर्मा विश्वदेवो महां असि || १०२६ ||

२अ
२छ्

विभ्राजं ज्योतिषा त्व३रगच्छो रोचनं दिवः |
देवास्त इन्द्र सख्याय येमिरे || १०२७ ||

३अ
३छ्

२३

असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि |
आ त्वा पृणक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः || १०२८ ||

१अ
१छ्

आ तिष्ठ वृत्रहन्रथं युक्ता ते ब्रह्मणा हरी |
अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना || १०२९ ||

२अ
२छ्

इन्द्रमिद्धरी वहतोऽप्रतिधृष्टशवसं |
ऋषीणां सुष्टुतीरुप यज्ञं च मानुषाणां || १०३० ||

३अ
३छ्