"सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.7 सप्तमप्रपाठकः/2.7.1 प्रथमोऽर्द्धः" इत्यस्य संस्करणे भेदः

<table> <tr><td><p><center> १ </center></p></tr> <tr><td><p> अभि प्र गोपतिं गिरे... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०८:१८, ११ अक्टोबर् २०११ इत्यस्य संस्करणं

अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे |
मूनुं सत्यस्य सत्पतिं || १४८९ ||

१अ
१छ्

आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि |
यत्राभि संनवामहे || १४९० ||

२अ
२छ्

इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु |
यत्सीमुपह्वरे विदत् ||१४९१ ||

३अ
३छ्

आ नो विश्वासु हव्यमिन्द्रं समत्सु भूषत |
उप ब्रह्माणि सवनानि वृत्रहन्परमज्या ऋचीषम || १४९२ ||

१अ
१छ्

त्वं दाता प्रथमो राधसामस्यसि सत्य ईशानकृत् |
तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः || १४९३ ||

२अ
२छ्

प्रत्नं पीयूषं पूर्व्यं यदुक्थ्यं महो गाहद्दिव आ निरधुक्षत |
इन्द्रमभि जायमानं समस्वरन् ||१४९४ ||

१अ
१छ्

आदीं के चित्पश्यमानास आप्यं वसुरुचो दिव्या अभ्यनूषत |
दिवो न वारं सविता व्यूर्णुते || १४९५ ||

२अ
२छ्

अध यदिमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना |
यूथे न निष्ठा वृषभो वि राजसि || १४९६ ||

३अ
३छ्

इममू षु त्वमस्माकं सनिं गायत्रं नव्यांसं |
अग्ने देवेषु प्र वोचः || १४९७ ||

१अ
१छ्

विभक्तासि चित्रभानो सिन्धोरूर्मा उपाक आ |
सद्यो दाशुषे क्षरसि || १४९८ ||

२अ
२छ्

आ नो भज परमेष्वा वाजेषु मध्यमेषु |
शिक्षा वस्वो अन्तमस्य || १४९९ ||

३अ
३छ्

अहमिद्धि पितुष्परि मेधामृतस्य जग्रह |
अहं सूर्य इवाजनि || १५०० ||

१अ
१छ्

अहं प्रत्नेन जन्मना गिरः शुम्भामि कण्ववत् |
येनेन्द्रः शुष्ममिद्दधे || १५०१ ||

२अ
२छ्

ये त्वामिन्द्र न तुष्टुवुरृषयो ये च तुष्टुवुः |
ममेद्वर्धस्व सुष्टुतः || १५०२ ||

३अ
३छ्

अग्ने विश्वेभिरग्निभिर्जोषि ब्रह्म सहस्कृत |
ये देवत्रा य आयुषु तेभिर्नो महया गिरः || १५०३ ||

१अ
१छ्

प्र स विश्वेभिरग्निभिरग्निः स यस्य वाजिनः |
तनये तोके अस्मदा सम्यङ्वाजैः परीवृतः || १५०४ ||

२अ
२छ्

त्वं नो अग्ने अग्निभिर्ब्रह्म यज्ञं च वर्धय |
त्वं नो देवतातये रायो दानाय चोदय || १५०५ ||

३अ
३छ्

त्वे सोम प्रथमा वृक्तबर्हिषो महे वाजाय श्रवसे धियन्दधुः |
स त्वं नो वीर वीर्याय चोदय || १५०६ ||

१अ
१छ्

अभ्यभि हि श्रवसा ततर्दिथोत्सं न कं चिज्जनपानमक्षितं |
शर्याभिर्न भरमाणो गभस्त्योः || १५०७ ||

२अ
२छ्

अजीजनो अमृत मर्त्याय अमृतस्य धर्मन्नमृतस्य चारुणः |
सदासरो वाजमच्छा सनिष्यदत् ||१५०८ ||

३अ
३छ्

एन्दुमिन्द्राय सिञ्चत पिबाति सोम्यं मधु |
प्र राधांसि चोदयते महित्वना || १५०९ ||

१अ
१छ्

उपो हरीणां पतिं राधः पृञ्चन्तमब्रवं |
नूनं श्रुधि स्तुवतो अश्व्यस्य || १५१० ||

२अ
२छ्

न ह्याङ्३ग पुरा च न जज्ञे वीरतरस्त्वत् |
न की राया नैवथा न भन्दना || १५११ ||

३अ
३छ्

नदं व ओदतीनां नदं योयुवतीनां |
पतिं वो अघ्न्यानां धेनूनामिषुध्यसि || १५१२ ||

१अ
१छ्

१०

देवो वो द्रविणोदाः पूर्णां विवष्ट्वासिचं |
उद्वा सिञ्चध्वमुप वा पृणध्वमादिद्वो देव ओहते || १५१३ ||

१अ
१छ्

तं होतारमध्वरस्य प्रचेतसं वह्निं देवा अकृण्वत |
दधाति रत्नं विधते सुवीर्यमग्निर्जनाय दाशुषे || १५१४ ||

२अ
२छ्

११

अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः |
उपोषु जातमार्यस्य वर्धनमग्निं नक्षन्तु नो गिरः || १५१५ ||

१अ
१छ्

यस्माद्रेजन्त कृष्टयश्चर्कृत्यानि कृण्वतः |
सहस्रसां मेधसाताविव त्मनाग्निं धीभिर्नमस्यत || १५१६ ||

२अ
२छ्

प्र दैवोदासो अग्निर्देव इन्द्रो न मज्मना |
अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य शर्मणि || १५१७ ||

३अ
३छ्

१२

अग्न आयूंषि पवसे आसुवोर्जमिषं च नः |
आरे बाधस्व दुच्छुनां || १५१८ ||

१अ
१छ्

अग्निरृषिः पवमानः पाञ्चजन्यः पुरोहितः |
तमीमहे महागयं || १५१९ ||

२अ
२छ्

अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यं |
दधद्रयिं मयि योषं || १५२० ||

३अ
३छ्

१३

अग्ने पावक रोचिषा मन्द्रया देव जिह्वया |
आ देवान्वक्षि यक्षि च || १५२१ ||

१अ
१छ्

तं त्वा घृतस्नवीमहे चित्रभानो स्वर्दृशं |
देवां आ वीतये वह || १५२२ ||

२अ
२छ्

वीतिहोत्रं त्वा कवे द्युमन्तं समिधीमहि |
अग्ने बृहन्तमध्वरे || १५२३ ||

३अ
३छ्

१४

अवा नो अग्न ऊतिभिर्गायत्रस्य प्रभर्मणि |
विश्वासु धीषु वन्द्य || १५२४ ||

१अ
१छ्

आ नो अग्ने रयिं भर सत्रासाहं वरेण्यं |
विश्वासु पृत्सु दुष्टरं || १५२५ ||

२अ
२छ्

आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसं |
मार्डीकं धेहि जीवसे || १५२६ ||

३अ
३छ्

१५

अग्निं हिन्वन्तु नो धियः सप्तिमाशुमिवाजिषु |
तेन जेष्म धनंधनं || १५२७ ||

१अ
१छ्

यया गा आकरामहै सेनयाग्ने तवोत्या |
तां नो हिन्व मघत्तये || १५२८ ||

२अ
२छ्

आग्ने स्थूरं रयिं भर पृथुं गोमन्तमश्विनं |
अङ्धि खं वर्त्तया पविं || १५२९ ||

३अ
३छ्

अग्ने नक्षत्रमजरमा सूर्यं रोहयो दिवि |
दधज्ज्योतिर्जनेभ्यः || १५३० ||

४अ
४छ्

अग्ने केतुर्विशामसि प्रेष्ठः श्रेष्ठ उपस्थसत् |
बोधा स्तोत्रे वयो दधत् ||१५३१ ||

५अ
५छ्

१६

अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयं |
अपां रेतांसि जिन्वति || १५३२ ||

१अ
१छ्

ईशिषे वार्यस्य हि दात्रस्याग्ने स्वःपतिः |
स्तोता स्यां तव शर्मणि || १५३३ ||

२अ
२छ्

उदग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते |
तव ज्योतींष्यर्चयः || १५३४ ||

३अ
३छ्