"सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.9 नवमप्रपाठकः/2.9.2 द्वितीयोऽर्द्धः" इत्यस्य संस्करणे भेदः

<table> <tr><td><p><center> १ </center></p></tr> <tr><td><p> अग्ने तव श्रवो वयो ... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०८:००, १२ अक्टोबर् २०११ इत्यस्य संस्करणं

अग्ने तव श्रवो वयो महि भ्राजन्ते अर्चयो विभावसो |
बृहद्भानो शवसा वाजमुक्थ्य३ं दधासि दाशुषे कवे || १८१६ ||

१अ
१छ्

पावकवर्चाः शुक्रवर्चा अनूनवर्चा उदियर्षि भानुना |
पुत्रो मातरा विचरन्नुपावसि पृणक्षि रोदसी उभे || १८१७ ||

२अ
२छ्

ऊर्जो नपाज्जातवेदः सुशस्तिभिर्मन्दस्व धीतिभिर्हितः |
त्वे इषः सं दधुर्भूरिवर्पसश्चित्रोतयो वामजाताः || १८१८ ||

३अ
३छ्

इरज्यन्नग्ने प्रथयस्व जन्तुभिरस्मे रायो अमर्त्य |
स दर्शतस्य वपुषो वि राजसि पृणक्षि दर्शतं क्रतुं || १८१९ ||

४अ
४छ्

इष्कर्त्तारमध्वरस्य प्रचेतसं क्षयन्तं राधसो महः |
रातिं वामस्य सुभगां महीमिषं दधासि सानसिं रयिं || १८२० ||

५अ
५छ्

ऋतावानं महिषं विश्वदर्शतमग्निं सुम्नाय दधिरे पुरो जनाः |
श्रुत्कर्णं सप्रथस्तमं त्वा गिरा दैव्यं मानुषा युगा || १८२१ ||

६अ
६छ्

प्र सो अग्ने तवोतिभिः सुविराभिस्तरति वाजकर्मभिः |
यस्य त्वं सख्यमाविथ || १८२२ ||

१अ
१छ्

तव द्रप्सो नीलवान्वाश ऋत्विय इन्धानः सिष्णवा ददे |
त्वं महीनामुषसामसि प्रियः क्षपो वस्तुषु राजसि || १८२३ ||

२अ
२छ्

तमोषधीर्दधिरे गर्भमृत्वियं तमापो अग्निं जनयन्त मातरः |
तमित्समानं वनिनश्च वीरुधोऽन्तर्वतीश्च सुवते च विश्वहा || १८२४ ||

१अ
१छ्

अग्निरिन्द्राय पवते दिवि शुक्रो वि राजति |
महिषीव वि जायते || १८२५ ||

१अ
१छ्

यो जागार तमृचः कामयन्ते यो जागार तमु सामानि यन्ति |
यो जागार तमयं सोम आह तवाहमस्मि सख्ये न्योकाः || १८२६ ||

१अ
१छ्

अग्निर्जागार तमृचः कामयन्तेग्निर्जागार तमु सामानि यन्ति |
अग्निर्जागार तमयं सोम आह तवाहमस्मि सख्ये न्योकाः || १८२७ ||

१अ
१छ्

नमः सखिभ्यः पूर्वसद्भ्यो नमः साकन्निषेभ्यः |
युञ्जे वाचं शतपदीं || १८२८ ||

१अ
१छ्

युञ्जे वाचं शतपदीं गाये सहस्रवर्त्तनि |
गायत्रं त्रैष्टुभं जगत् ||१८२९ ||

२अ
२छ्

गायत्रं त्रैष्टुभं जगद्विश्वा रूपाणि सम्भृता |
देवा ओकांसि चक्रिरे || १८३० ||

३अ
३छ्

अग्निर्ज्योतिर्ज्योतिरग्निरिन्द्रो ज्योतिर्ज्योतिरिन्द्रः |
सूर्यो ज्योतिर्ज्योतिः सूर्यः || १८३१ ||

१अ
१छ्

पुनरूर्जा नि वर्त्तस्व पुनरग्न इषायुषा |
पुनर्नः पाह्यंहसः || १८३२ ||

२अ
२छ्

सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया |
विश्वप्स्न्या विश्वतस्परि || १८३३ ||

३अ
३छ्

यदिन्द्राहं यथा त्वमीशीय वस्व एक इत् |
स्तोता मे गोसखा स्यात् ||१८३४ ||

१अ
१छ्

शिक्षेयमस्मै दित्सेयं शचीपते मनीषिणे |
यदहं गोपतिः स्यां || १८३५ ||

२अ
२छ्

धेनुष्ट इन्द्र सूनृता यजमानाय सुन्वते |
गामश्वं पिप्युषी दुहे || १८३६ ||

३अ
३छ्

१०

आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन |
महे रणाय चक्षसे || १८३७ ||

१अ
१छ्

यो वः शिवतमो रसस्तस्य भाजयतेह नः |
उशतीरिव मातरः || १८३८ ||

२अ
२छ्

तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ |
आपो जनयथा च नः || १८३९ ||

३अ
३छ्

११

वात आ वातु बेषजं शम्भु मयोभु नो हृदे |
प्र न अयूंषि तारिषत् ||१८४० ||

१अ
१छ्

उत वात पितासि न उत भ्रातोत नः सखा |
स नो जीवातवे कृधि || १८४१ ||

२अ
२छ्

यददो वात ते गृहे३ऽमृतं निहितं गुहा |
तस्यो नो देहि जीवसे || १८४२ ||

३अ
३छ्

१२

अभि वाजी विश्वरूपो जनित्रं हिरण्ययं बिभ्रदत्कं सुपर्णः |
सूर्यस्य भानुमृतुथा वसानः परि स्वयं मेधमृज्रो जजान || १८४३ ||

१अ
१छ्

अप्सु रेतः शिश्रिये विश्वरूपं तेजः पृथिव्यामधि यत्सम्बभूव |
अन्तरिक्षे स्वं महिमानं मिमानः कनिक्रन्ति वृष्णो अश्वस्य रेतः || १८४४ ||

२अ
२छ्

अयं सहस्रा परि युक्ता वसानः सूर्यस्य भानुं यज्ञो दाधार |
सहस्रदाः शतदा भूरिदावा धर्त्ता दिवो भुवनस्य विश्पतिः || १८४५ ||

३अ
३छ्

१३

नाके सुपर्णमुप यत्पतन्तं हृदा वेनन्तो अभ्यचक्षत त्वा |
हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युं || १८४६ ||

१अ
१छ्

ऊर्ध्वो गन्धर्वो अधि नाके अस्थात्प्रत्यञ्चित्रा बिभ्रदस्यायुधानि |
वसानो अत्कं सुरभिं दृशे कं स्व३र्ण नाम जनत प्रियाणि || १८४७ ||

२अ
२छ्

द्रप्सः समुद्रमभि यज्जिगाति पश्यन्गृध्रस्य चक्षसा विधर्मन् |
भानुः शुक्रेण शोचिषा चकानस्तृतीये चक्रे रजसि प्रियाणि || १८४८ ||

३अ
३छ्