"ऋग्वेदः सूक्तं १.१००" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६५:
सतीनऽसत्वा । हव्यः । भरेषु । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥१
 
“यः इन्द्रः “वृषा कामानां वर्षिता "वृष्ण्येभिः वृष्णि भवैर्वीर्यैः “समोकाः सम्यक् समवेतः संगतः "महः महतः “दिवः द्युलोकस्य “पृथिव्याः प्रथिताया भूमेः “च “सम्राट् ईश्वरः “सतीनसत्वा । सतीनम् इति उदकनाम । उदकस्य सत्वा सादयिता गमयिता “भरेषु संग्रामेषु “हव्यः सर्वैः स्तोतृभिराह्वातव्यः एवंभूतः “मरुत्वान् मरुद्भिर्युक्तः “सः “इन्द्रः “नः अस्माकम् “ऊती ऊतये रक्षणाय “भवतु ॥ वृष्ण्येभिः । वृषञ्शब्दात् ‘ भवे छन्दसि ' इति यत् । ‘ अल्लोपोऽनः' इति अकारलोपः । ‘ ये चाभावकर्मणोः' इति प्रकृतिभावस्तु व्यत्ययेन न भवति । महः । ‘ मह पूजायाम् । क्विप् । यद्वा । महच्छब्दे अच्छब्दलोपः ।' सावेकाचः' इति विभक्तेरुदात्तत्वम् । सम्राट्।' मो राजि समः क्वौ ' ( पा. सू. ८. ३. २५) इति राजतौ क्विबन्ते उत्तरपदे समो मकारस्य मकारादेशः । मकारस्य च मकारवचनमनुस्वारबाधनार्थम् । सतीनसत्वा । ‘ षद्लृ विशरणगत्यवसादनेषु । मेघेषु निषीदतीति सतीनं वृष्ट्युदकम् । औणादिकः ईनप्रत्ययस्तकारान्तादेशश्च । यद्वा । सती माध्यमिका वाक् । सा इना ईश्वरा यस्य तत्सतीनम् । व्यत्ययेन पुंवद्भावाभावः । तत्सत्वा । सदेः अन्तर्भावितण्यर्थात् ‘प्र ईरसद्योस्तुट् च ' ( उ. सू. ४. ५५६ ) इति औणादिको वनिप् तुडागमश्च । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् । मरुत्वान् । ‘झयः' इति मतुपो वत्वम् । ऊती । ऊतियूति° ' इत्यादिना क्तिनः उदात्तत्वम् । ‘सुपां सुलुक्' इति चतुर्थ्याः पूर्वसवर्णदीर्घः ॥
 
 
Line ७९ ⟶ ८०:
वृषन्ऽतमः । सखिऽभिः । स्वेभिः । एवैः । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥२
 
“यस्य इन्द्रस्य “यामः गतिः "अनाप्तः परैरप्राप्ता “सूर्यस्येव । यथा सूर्यस्य गतिरन्यैर्न प्राप्तुं शक्यते तद्वत्। 'स्वेभिः आत्मीयैः “एवैः गमनशीलैः “सखिभिः मित्रभूतैर्मरुद्भिः सह “वृषन्तमः अतिशयेन कामानां वर्षिता "भरेभरे सर्वेषु संग्रामेषु “वृत्रहा शत्रूणां हन्ता “शुष्मः सर्वेषामसुराणां शोषकः एवंभूतो यः इन्द्रः “अस्ति विद्यते सः “मरुत्वान् “इन्द्रः "नः अस्माकं रक्षणाय “भवतु ॥ यामः । ‘ या प्रापणे '। अर्तिस्तुसु° ' इत्यादिना भावे मन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । शुष्मः । शुष शोषणे'। ‘ अविसिविसिशुषिभ्यः कित्' ( उ. सू. १. १४१ ) इति मन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । अस्ति । यद्वृत्तयोगादनिघातः । वृषन्तमः । वृषञ्शब्दादुत्तरस्य तमपो ‘नाद्धस्य' (पा. सू. ८. २. १७) इति नुट् । एवैः । ‘ इण् गतौ ।' इण्शीङ्भ्यां वन्' ॥
 
 
Line ९३ ⟶ ९५:
तरत्ऽद्वेषाः । ससहिः । पौंस्येभिः । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥३
 
“यस्य इन्द्रस्य “पन्थासः रश्मयः “रेतसः वृष्ट्युदकानि “दुघानाः दुहन्तः प्रवर्षन्तः “यन्ति निर्गच्छन्ति द्युलोकादितस्ततः प्रसरन्ति । तत्र दृष्टान्तः । “दिवो “न । यथा द्योतमानस्य सूर्यस्य किरणा वृष्टिं कुर्वन्तः नभःस्थलान्निर्गच्छन्ति तद्वत् । कीदृशा रश्मयः । “शवसा बलेन सहिताः “अपरीताः परैरनभिगताः दुष्प्रापा इत्यर्थः । सोऽयम् इन्द्रः “तरद्द्वेषाः द्वेषांसि शत्रूंस्तरन् जितशत्रुक इत्यर्थः । “पौंस्येभिः बलै: “ससहिः शत्रूणामभिभविता एवंभूतः “मरुत्वान् “इन्द्रः “नः अस्माकं रक्षणाय “भवतु ॥ रेतसः । रेत इति उदकनाम। रीयते गच्छतीति रेतः । ‘ री गतिरेषणयोः । ‘ स्रुरीभ्यां तुट् च ' ( उ. सू. ४. ६४१ ) इति असुन् तुडागमश्च । शसो व्यत्ययेन ङसादेशः । दुघानाः । ‘दुह प्रपूरणे'। कर्तरि लटः शानच् । अदादित्वात् शपो लुक् । व्यत्ययेन घत्वम् । वृषादेराकृतिगणत्वात् आद्युदात्तत्वम् । पन्थासः । पतन्तीति पन्थानो रश्मयः । ‘ पतेस्थ च ' ( उ. सू ४. ४५२ ) इति इनिप्रत्ययस्थकारान्तादेशश्च । जसि‘ पथिमथ्यृभुक्षामात् ' इति व्यत्ययेन आत्वम् । ‘ आजसेरसुक्' । यद्वा । पन्थान इत्यत्र वर्णव्यापत्त्या नकारस्य सकारः । ‘ पथिमथोः सर्वनामस्थाने ' इति आद्युदात्तत्वम् । ससहिः । ‘ षह अभिभवे । ‘ उत्सर्गश्छन्दसि ' इति वचनात् ‘ आदृगमहन ' इति किप्रत्ययः । लिङ्वद्भावात् द्विर्वचनम् ॥
 
 
Line १०७ ⟶ ११०:
ऋग्मिऽभिः । ऋग्मी । गातुऽभिः । ज्येष्ठः । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥४
 
“सः इन्द्रः “अङ्गिरोभिः । अङ्गन्ति गच्छन्तीति अङ्गिरसो गन्तारः । तेभ्योऽपि “अङ्गिरस्तमः “भूत् अतिशयेन गन्ता भवति । “वृषभिः "वृषा वर्षितृभ्योऽप्यतिशयेन वर्षिता “सखिभिः समान ख्यानेभ्यो मित्रभूतेभ्योऽपि "सखा अतिशयेन हितकारी एवंभूतः “सन् “ऋग्मिभिः अर्चनीयेभ्योऽपि “ऋग्मी अर्चनीयो भवति । “गातुभिः गातव्येभ्यः स्तोतव्येभ्योऽपि “ज्येष्ठः अतिशयेन स्तोतव्यः एवंगुणविशिष्टः “मरुत्वान् “इन्द्रः रक्षणाय “भवतु ॥ अङ्गिरोभिः । ‘अगि रगि लगि गत्यर्थाः' । अङ्गिरा अप्सराः ( उ. सू. ४. ६७५-६७६ ) इति औणादिकः असुन्प्रत्ययो निपात्यते । इदमादिषु सर्वत्र पञ्चम्यर्थे तृतीया । ऋग्मिभिः । ऋच स्तुतौ ' । संपदादिलक्षणो भावे क्विप् । मत्वर्थीयो मिनिः । पदत्वात् कुत्वं जश्त्वं च । गातुभिः ।' गा स्तुतौ ।' कमिमनिजनि' इत्यादिना कर्मणि तुप्रत्ययः ॥
 
 
Line १२१ ⟶ १२५:
सऽनीळेभिः । श्रवस्यानि । तूर्वन् । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥५
 
"सूनुभिर्न पुत्रैरिव "रुद्रेभिः रुद्रपुत्रैर्मरुद्भिर्युक्तः “ऋभ्वा महान् एवंभूतः “सः इन्द्रः “नृषाह्ये नृभिः पुरुषैः सोढव्ये संग्रामे “अमित्रान् शत्रून् “ससह्रान् अभिभूतवान् । अपि च "सनीळेभिः समाननिलयैर्मरुद्भिः सह “श्रवस्यानि । श्रव इत्यन्ननाम । तद्धेतुभूतान्युदकानि “तूर्वन् मेघात् प्रच्यावयन “मरुत्वान् “इन्द्रः अस्माकं रक्षणाय भवतु ॥ नृषाह्ये । ‘ षह मर्षणे ' । ‘ शकिसहोश्च । (पा. सू. ३. १. ९९ ) इति कर्मणि यत् । अन्येषामपि दृश्यते' इति संहितायां धात्वकारस्य दीर्घत्वम् ।' यतोऽनावः' इत्याद्युदात्तत्वे कृदुत्तरपदप्रकृतिस्वरत्वम् । ससह्वान् ।' षह अभिभवे । लिटः क्वसुः । अभ्यासदीर्घत्वं छान्दसम् । अमित्रान् । मित्राणि एषु न सन्तीति अमित्राः । ‘ नञो जरमरमित्रमृताः' इत्युत्तरपदाद्युदात्तत्वम् । सनीळेभिः । समानं नीळं येषां ते सनीळाः । समानस्य च्छन्दसि' इति सभावः ॥ ॥ ८ ॥
 
 
Line १३५ ⟶ १४०:
अस्मिन् । अहन् । सत्ऽपतिः । पुरुऽहूतः । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥६
 
शत्रुभिरपहृतासु गोषु तैः सह युद्धार्थं विनिर्गताः ऋज्राश्वादयोऽनेन सूक्तेनेन्द्रमस्तुवन् । “सः इन्द्रः “मन्युमीः मन्योः कोपस्य निर्माता । यद्वा । अभिमन्यमानस्य शत्रोर्हिंसकः । अपि च “समदनस्य संग्रामस्य “कर्ता “सत्पतिः सतां पालयिता “पुरुहूतः बहुभिर्यजमानैराहूतः एवंगुणविशिष्टः सः “अस्मिन् “अहन् अस्मिन् दिवसे "अस्माकेभिः आस्माकैः अस्मदीयैः “नृभिः पुरुचैः “सूर्यं सूर्यप्रकाशं “सनत् संभक्तं करोतु । शत्रुपुरुषैस्तु दृष्टिनिरोधकमन्धकारं संयोजयतु । स च “मरुत्वान् “इन्द्रः अस्माकं रक्षणाय “भवतु ।। मन्युमीः । मन्युं मिनातीति मन्युमीः । “ मीञ् हिंसायाम् । क्विप् । समदनस्य । सह माद्यन्त्यस्मिन्निति समदनः संग्रामः । ‘ मदी हर्षे ' । अधिकरणे ल्युट् ।' सहस्य सः संज्ञायाम् ( पा. सू. ६. ३. ७८ ) इति सभावः । अस्माकेभिः । ‘ तस्मिन्नणि च युष्माकास्माकौ ' इति अणि अस्मच्छब्दस्य अस्माकादेशः । संज्ञापूर्वकस्य विधेरनित्यत्वात् वृद्ध्यभावः। ‘ बहुलं छन्दसि ' इति भिस ऐसभावः । स्वरस्तु ' प्रास्माकासश्च सूरयः ' ( ऋ. सं. १. ९७. ३ ) इत्यत्रोक्तः । सनत् । ‘ वन षण संभक्तौ '। लेटि अडागमः । अहन् ।' सुपां सुलुक् ' इति सप्तम्या लुक् । सत्पतिः । ‘ पत्यावैश्वर्ये ' इति पूर्वपदप्रकृतिस्वरत्वम् । ।
 
 
Line १४९ ⟶ १५५:
सः । विश्वस्य । करुणस्य । ईशे । एकः । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥७
 
“तम् इन्द्रं “शूरसातौ शूरैर्वीरपुरुषैः संभजनीये संग्रामे “ऊतयः गन्तारो मरुतः “रणयन् रमयन्ति । यद्वा । प्रहर भगवो जहि वीरयस्व' इत्येवंरूपं शब्दमिन्द्रमुद्दिश्य कुर्वन्ति । अपि च “क्षितयः मनुष्याः “तम् इन्द्रं “क्षेमस्य रक्षणीयस्य सर्वस्य धनस्य “त्रां त्रातारं रक्षितारं “कृण्वत कुर्वन्ति । देवतान्तरादस्य कोऽतिशयः इति चेत् उच्यते । “सः इन्द्रः “विश्वस्य सर्वस्य “करुणस्य अभिमतफलनिष्पादनरूपस्य कर्मणः “एकः असहाय एव “ईशे ईष्टे । अन्यत् पूर्ववत् ॥ ऊतयः । अवतेर्गत्यर्थात् ‘ कृत्यल्युटो बहुलम् ' इति कर्तरि क्तिन् । तितुत्र' इति इट्प्रतिषेधः । ‘ ज्वरत्वर' ' इत्यादिना वकारस्योपधायाश्च ऊठ् ।' ऊतियूति० ' इत्यादिना क्तिन उदात्तत्वम् । यद्वा । कर्तरि क्तिच् । रणयन् । रमतेर्हेतुमण्णिजन्तात् वर्तमाने छान्दसो लङ् । अन्त्यविकारश्छान्दसः । यद्वा । रण शब्दार्थः ।। अस्मात् णिजन्तात् पूर्ववत् लङ् । त्राम् ।' त्रैङ् पालने' । त्रायते इति त्राः । ‘ क्विप् च ' इति चशब्देन दृशिग्रहणानुकर्षणान्निरुपपदादपि क्विप् । करुणस्य ।' डुकृञ् करणे '।' कृवृतॄदारिभ्य उनन् । (उ. सू. ३. ३३३ ) इति भावे उनन् । व्यत्ययेन प्रत्ययाद्युदात्तत्वम् । ईशे । 'ईश ऐश्वर्ये । ‘ लोपस्त आत्मनेपदेषु ' इति तलोपः ॥
 
 
Line १६३ ⟶ १७०:
सः । अन्धे । चित् । तमसि । ज्योतिः । विदत् । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥८
 
“नरः नेतारः स्तोतारः “शवसः बलस्य संबन्धिषु "उत्सवेषु संग्रामेषु “नरं जयस्य नेतारं “तम् इन्द्रम् “अप्सन्त आप्नुवन्ति । किमर्थम् । “अवसे अन्नार्थं रक्षणार्थं वा । तथा “धनाय धनार्थं च “तम् इन्द्रं प्राप्नुवन्ति । यस्मात् “सः इन्द्रः “तमसि दृष्टिप्रतिबन्धके “अन्धे “चित् आध्यानरहिते चित्तव्यामोहकरेऽपि संग्रामे “ज्योतिः विजयलक्षणं प्रकाशं "विदत् लम्भयति । तस्मात् तमेव प्राप्नुवन्तीत्यर्थः । अन्यत् समानम् ॥ अप्सन्त । आप्लृ व्याप्तौ । लङि व्यत्ययेन आत्मनेपदम् । व्यत्ययेन क्सप्रत्ययः । व्यत्ययेन धातोर्ह्रस्वत्वम् । विदत् । “विद्लृ लाभे'। 'छन्दसि लुङ्लङ्लिटः' इति वर्तमाने छान्दसो लुङ् । लुदित्त्वात् च्लेः अङादेशः । ‘ बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१००" इत्यस्माद् प्रतिप्राप्तम्