"ऋग्वेदः सूक्तं १.१०१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. इन्द्रः( १ गर्भस्राविण्युपनिषद्)। जगती, ८-११ त्रिष्टुप्
}}
<poem><span style="font-size: 14pt; line-height:200%">
<div class="verse">
<pre>
प्र मन्दिने पितुमदर्चता वचो यः कृष्णगर्भा निरहन्नृजिश्वना ।
अवस्यवो वृषणं वज्रदक्षिणं मरुत्वन्तं सख्याय हवामहे ॥१॥
 
यो व्यंसं जाहृषाणेन मन्युना यः शम्बरं यो अहन्पिप्रुमव्रतम् ।
इन्द्रो यः शुष्णमशुषं न्यावृणङ्मरुत्वन्तं सख्याय हवामहे ॥२॥
 
यस्य द्यावापृथिवी पौंस्यं महद्यस्य व्रते वरुणो यस्य सूर्यः ।
यस्येन्द्रस्य सिन्धवः सश्चति व्रतं मरुत्वन्तं सख्याय हवामहे ॥३॥
 
यो अश्वानां यो गवां गोपतिर्वशी य आरितः कर्मणिकर्मणि स्थिरः ।
वीळोश्चिदिन्द्रो यो असुन्वतो वधो मरुत्वन्तं सख्याय हवामहे ॥४॥
 
यो विश्वस्य जगतः प्राणतस्पतिर्यो ब्रह्मणे प्रथमो गा अविन्दत् ।
इन्द्रो यो दस्यूँरधराँ अवातिरन्मरुत्वन्तं सख्याय हवामहे ॥५॥
 
यः शूरेभिर्हव्यो यश्च भीरुभिर्यो धावद्भिर्हूयते यश्च जिग्युभिः ।
इन्द्रं यं विश्वा भुवनाभि संदधुर्मरुत्वन्तं सख्याय हवामहे ॥६॥
 
रुद्राणामेति प्रदिशा विचक्षणो रुद्रेभिर्योषा तनुते पृथु ज्रयः ।
इन्द्रं मनीषा अभ्यर्चति श्रुतं मरुत्वन्तं सख्याय हवामहे ॥७॥
 
यद्वा मरुत्वः परमे सधस्थे यद्वावमे वृजने मादयासे ।
अत आ याह्यध्वरं नो अच्छा त्वाया हविश्चकृमा सत्यराधः ॥८॥
 
त्वायेन्द्र सोमं सुषुमा सुदक्ष त्वाया हविश्चकृमा ब्रह्मवाहः ।
अधा नियुत्वः सगणो मरुद्भिरस्मिन्यज्ञे बर्हिषि मादयस्व ॥९॥
 
मादयस्व हरिभिर्ये त इन्द्र वि ष्यस्व शिप्रे वि सृजस्व धेने ।
आ त्वा सुशिप्र हरयो वहन्तूशन्हव्यानि प्रति नो जुषस्व ॥१०॥
 
मरुत्स्तोत्रस्य वृजनस्य गोपा वयमिन्द्रेण सनुयाम वाजम् ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥११॥
 
</span></poem>
 
 
{{सायणभाष्यम्|
प्र मन्दिने' इति एकादशर्चमष्टमं सूक्तमाङ्गिरसस्य कुत्सस्यार्षम् । अष्टम्याद्याश्चतस्रस्त्रिष्टुभः शिष्टाः सप्त जगत्यः । इन्द्रो देवता । तथा चानुक्रान्तं - ' प्रमन्दिन एकादश कुत्स आद्या गर्भस्राविण्युपनिषच्चतुस्त्रिष्टुबन्तम्' इति । दशरात्रस्य नवमेऽहनि मरुत्वतीये एतत्सूक्तम् । विश्वजितः' इति खण्डे सूत्रितं- ‘प्र मन्दिन इमा उ त्वेति मरुत्वतीयम्' (आश्व. श्रौ. ८.७.) इति ॥
 
 
प्र मं॒दिने॑ पितु॒मद॑र्चता॒ वचो॒ यः कृ॒ष्णग॑र्भा नि॒रह॑न्नृ॒जिश्व॑ना ।
 
अ॒व॒स्यवो॒ वृष॑णं॒ वज्र॑दक्षिणं म॒रुत्वं॑तं स॒ख्याय॑ हवामहे ॥१
 
प्र । म॒न्दिने॑ । पि॒तु॒ऽमत् । अ॒र्च॒त॒ । वचः॑ । यः । कृ॒ष्णऽग॑र्भाः । निः॒ऽअह॑न् । ऋ॒जिश्व॑ना ।
 
अ॒व॒स्यवः॑ । वृष॑णम् । वज्र॑ऽदक्षिणम् । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥१
 
प्र । मन्दिने । पितुऽमत् । अर्चत । वचः । यः । कृष्णऽगर्भाः । निःऽअहन् । ऋजिश्वना ।
 
अवस्यवः । वृषणम् । वज्रऽदक्षिणम् । मरुत्वन्तम् । सख्याय । हवामहे ॥१
 
हे ऋत्विजः "मन्दिने स्तुतिमते स्तोतव्यायेन्द्राय “पितुमत् हविर्लक्षणेनान्नेनोपेतं "वचः स्तुतिलक्षणं वचनं “प्र “अर्चत प्रकर्षेणोच्चारयत । "यः इन्द्रः “ऋजिश्वना एतत्संज्ञकेन राज्ञा सख्या सहितः सन् "कृष्णगर्भाः । कृष्णो नाम कश्चिदसुरः । तेन निषिक्तगर्भास्तदीयाः भार्याः "निरहन् अवधीत् । कृष्णमसुरं हत्वा पुत्राणाम् अपि अनुत्पत्त्यर्थं गर्भिणीस्तस्य भार्याः अप्यवधीदित्यर्थः । "अवस्यवः रक्षणेच्छवो वयं “वृषणं कामानां वर्षितारं "वज्रदक्षिणं वज्रयुक्तेन दक्षिणहस्तेनोपेतं तं "मरुत्वन्तम् इन्द्रं "सख्याय सख्युः कर्मणे "हवामहे आह्वयामहे ॥ मन्दिने । मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु' । औणादिकः इनिप्रत्ययः । तदुक्तं यास्केन-’ मन्दी मन्दतेः स्तुतिकर्मणः ' (निरु. ४. २४ ) इति । पितुमत् ।
 
 
यो व्यं॑सं जाहृषा॒णेन॑ म॒न्युना॒ यः शंब॑रं॒ यो अह॒न्पिप्रु॑मव्र॒तं ।
 
इंद्रो॒ यः शुष्ण॑म॒शुषं॒ न्यावृ॑णङ्म॒रुत्वं॑तं स॒ख्याय॑ हवामहे ॥२
 
यः । विऽअं॑सम् । ज॒हृ॒षा॒णेन॑ । म॒न्युना॑ । यः । शम्ब॑रम् । यः । अह॑न् । पिप्रु॑म् । अ॒व्र॒तम् ।
 
इन्द्रः॑ । यः । शुष्ण॑म् । अ॒शुष॑म् । नि । अवृ॑णक् । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥२
 
यः । विऽअंसम् । जहृषाणेन । मन्युना । यः । शम्बरम् । यः । अहन् । पिप्रुम् । अव्रतम् ।
 
इन्द्रः । यः । शुष्णम् । अशुषम् । नि । अवृणक् । मरुत्वन्तम् । सख्याय । हवामहे ॥
 
 
 
यस्य॒ द्यावा॑पृथि॒वी पौंस्यं॑ म॒हद्यस्य॑ व्र॒ते वरु॑णो॒ यस्य॒ सूर्यः॑ ।
 
यस्येंद्र॑स्य॒ सिंध॑वः॒ सश्च॑ति व्र॒तं म॒रुत्वं॑तं स॒ख्याय॑ हवामहे ॥३
 
यस्य॑ । द्यावा॑पृथि॒वी इति॑ । पौंस्य॑म् । म॒हत् । यस्य॑ । व्र॒ते । वरु॑णः । यस्य॑ । सूर्यः॑ ।
 
यस्य॑ । इन्द्र॑स्य । सिन्ध॑वः । सश्च॑ति । व्र॒तम् । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥३
 
यस्य । द्यावापृथिवी इति । पौंस्यम् । महत् । यस्य । व्रते । वरुणः । यस्य । सूर्यः ।
 
यस्य । इन्द्रस्य । सिन्धवः । सश्चति । व्रतम् । मरुत्वन्तम् । सख्याय । हवामहे ॥३
 
 
 
यो अश्वा॑नां॒ यो गवां॒ गोप॑तिर्व॒शी य आ॑रि॒तः कर्म॑णिकर्मणि स्थि॒रः ।
 
वी॒ळोश्चि॒दिंद्रो॒ यो असु॑न्वतो व॒धो म॒रुत्वं॑तं स॒ख्याय॑ हवामहे ॥४
 
यः । अश्वा॑नाम् । यः । गवा॑म् । गोऽप॑तिः । व॒शी । यः । आ॒रि॒तः । कर्म॑णिऽकर्मणि । स्थि॒रः ।
 
वी॒ळोः । चि॒त् । इन्द्रः॑ । यः । असु॑न्वतः । व॒धः । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥४
 
यः । अश्वानाम् । यः । गवाम् । गोऽपतिः । वशी । यः । आरितः । कर्मणिऽकर्मणि । स्थिरः ।
 
वीळोः । चित् । इन्द्रः । यः । असुन्वतः । वधः । मरुत्वन्तम् । सख्याय । हवामहे ॥४
 
 
 
यो विश्व॑स्य॒ जग॑तः प्राण॒तस्पति॒र्यो ब्र॒ह्मणे॑ प्रथ॒मो गा अविं॑दत् ।
 
इंद्रो॒ यो दस्यूँ॒रध॑राँ अ॒वाति॑रन्म॒रुत्वं॑तं स॒ख्याय॑ हवामहे ॥५
 
यः । विश्व॑स्य । जग॑तः । प्रा॒ण॒तः । पतिः॑ । यः । ब्र॒ह्मणे॑ । प्र॒थ॒मः । गाः । अवि॑न्दत् ।
 
इन्द्रः॑ । यः । दस्यू॑न् । अध॑रान् । अ॒व॒ऽअति॑रत् । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥५
 
यः । विश्वस्य । जगतः । प्राणतः । पतिः । यः । ब्रह्मणे । प्रथमः । गाः । अविन्दत् ।
 
इन्द्रः । यः । दस्यून् । अधरान् । अवऽअतिरत् । मरुत्वन्तम् । सख्याय । हवामहे ॥५
 
 
 
यः शूरे॑भि॒र्हव्यो॒ यश्च॑ भी॒रुभि॒र्यो धाव॑द्भिर्हू॒यते॒ यश्च॑ जि॒ग्युभिः॑ ।
 
इंद्रं॒ यं विश्वा॒ भुव॑ना॒भि सं॑द॒धुर्म॒रुत्वं॑तं स॒ख्याय॑ हवामहे ॥६
 
यः । शूरे॑भिः । हव्यः॑ । यः । च॒ । भी॒रुऽभिः॑ । यः । धाव॑त्ऽभिः । हू॒यते॑ । यः । च॒ । जि॒ग्युभिः॑ ।
 
इन्द्र॑म् । यम् । विश्वा॑ । भुव॑ना । अ॒भि । स॒म्ऽद॒धुः । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥६
 
यः । शूरेभिः । हव्यः । यः । च । भीरुऽभिः । यः । धावत्ऽभिः । हूयते । यः । च । जिग्युभिः ।
 
इन्द्रम् । यम् । विश्वा । भुवना । अभि । सम्ऽदधुः । मरुत्वन्तम् । सख्याय । हवामहे ॥६
 
 
 
रु॒द्राणा॑मेति प्र॒दिशा॑ विचक्ष॒णो रु॒द्रेभि॒र्योषा॑ तनुते पृ॒थु ज्रयः॑ ।
 
इंद्रं॑ मनी॒षा अ॒भ्य॑र्चति श्रु॒तं म॒रुत्वं॑तं स॒ख्याय॑ हवामहे ॥७
 
रु॒द्राणा॑म् । ए॒ति॒ । प्र॒ऽदिशा॑ । वि॒ऽच॒क्ष॒णः । रु॒द्रेभिः॑ । योषा॑ । त॒नु॒ते॒ । पृ॒थु । ज्रयः॑ ।
 
इन्द्र॑म् । म॒नी॒षा । अ॒भि । अ॒र्च॒ति॒ । श्रु॒तम् । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥७
 
रुद्राणाम् । एति । प्रऽदिशा । विऽचक्षणः । रुद्रेभिः । योषा । तनुते । पृथु । ज्रयः ।
 
इन्द्रम् । मनीषा । अभि । अर्चति । श्रुतम् । मरुत्वन्तम् । सख्याय । हवामहे ॥७
 
 
 
यद्वा॑ मरुत्वः पर॒मे स॒धस्थे॒ यद्वा॑व॒मे वृ॒जने॑ मा॒दया॑से ।
 
अत॒ आ या॑ह्यध्व॒रं नो॒ अच्छा॑ त्वा॒या ह॒विश्च॑कृमा सत्यराधः ॥८
 
यत् । वा॒ । म॒रु॒त्वः॒ । प॒र॒मे । स॒धऽस्थे॑ । यत् । वा॒ । अ॒व॒मे । वृ॒जने॑ । मा॒दया॑से ।
 
अतः॑ । आ । या॒हि॒ । अ॒ध्व॒रम् । नः॒ । अच्छ॑ । त्वा॒ऽया । ह॒विः । च॒कृ॒म॒ । स॒त्य॒ऽरा॒धः॒ ॥८
 
यत् । वा । मरुत्वः । परमे । सधऽस्थे । यत् । वा । अवमे । वृजने । मादयासे ।
 
अतः । आ । याहि । अध्वरम् । नः । अच्छ । त्वाऽया । हविः । चकृम । सत्यऽराधः ॥८
 
 
 
त्वा॒येंद्र॒ सोमं॑ सुषुमा सुदक्ष त्वा॒या ह॒विश्च॑कृमा ब्रह्मवाहः ।
 
अधा॑ नियुत्वः॒ सग॑णो म॒रुद्भि॑र॒स्मिन्य॒ज्ञे ब॒र्हिषि॑ मादयस्व ॥९
 
त्वा॒ऽया । इ॒न्द्र॒ । सोम॑म् । सु॒सु॒म॒ । सु॒ऽद॒क्ष॒ । त्वा॒ऽया । ह॒विः । च॒कृ॒म॒ । ब्र॒ह्म॒ऽवा॒हः॒ ।
 
अध॑ । नि॒यु॒त्वः॒ । सऽग॑णः । म॒रुत्ऽभिः॑ । अ॒स्मिन् । य॒ज्ञे । ब॒र्हिषि॑ । मा॒द॒य॒स्व॒ ॥९
 
त्वाऽया । इन्द्र । सोमम् । सुसुम । सुऽदक्ष । त्वाऽया । हविः । चकृम । ब्रह्मऽवाहः ।
 
अध । नियुत्वः । सऽगणः । मरुत्ऽभिः । अस्मिन् । यज्ञे । बर्हिषि । मादयस्व ॥९
 
 
 
मा॒दय॑स्व॒ हरि॑भि॒र्ये त॑ इंद्र॒ वि ष्य॑स्व॒ शिप्रे॒ वि सृ॑जस्व॒ धेने॑ ।
 
आ त्वा॑ सुशिप्र॒ हर॑यो वहंतू॒शन्ह॒व्यानि॒ प्रति॑ नो जुषस्व ॥१०
 
मा॒दय॑स्व । हरि॑ऽभिः । ये । ते॒ । इ॒न्द्र॒ । वि । स्य॒स्व॒ । शिप्रे॒ इति॑ । वि । सृ॒ज॒स्व॒ । धेने॒ इति॑ ।
 
आ । त्वा॒ । सु॒ऽशि॒प्र॒ । हर॑यः । व॒ह॒न्तु॒ । उ॒शन् । ह॒व्यानि॑ । प्रति॑ । नः॒ । जु॒ष॒स्व॒ ॥१०
 
मादयस्व । हरिऽभिः । ये । ते । इन्द्र । वि । स्यस्व । शिप्रे इति । वि । सृजस्व । धेने इति ।
 
आ । त्वा । सुऽशिप्र । हरयः । वहन्तु । उशन् । हव्यानि । प्रति । नः । जुषस्व ॥१०
 
 
 
म॒रुत्स्तो॑त्रस्य वृ॒जन॑स्य गो॒पा व॒यमिंद्रे॑ण सनुयाम॒ वाजं॑ ।
 
तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥११
 
म॒रुत्ऽस्तो॑त्रस्य । वृ॒जन॑स्य । गो॒पाः । व॒यम् । इन्द्रे॑ण । स॒नु॒या॒म॒ । वाज॑म् ।
 
तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥११
 
मरुत्ऽस्तोत्रस्य । वृजनस्य । गोपाः । वयम् । इन्द्रेण । सनुयाम । वाजम् ।
 
तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥११
</pre>
</div>
 
== ==
{{भाष्यम्|सायणभाष्यम्॥
२. यः इन्द्र जहृषाणेन प्रवृद्धेन मन्युना क्रोधेन व्यंसं विगतभुजं वृत्रम् अहन् अवधीत् । अपि च यः इन्द्रः शम्बरम् एतत्संज्ञमसुरं चावधीत् । तथा अव्रतं व्रतस्य यागादेः कर्मणो विरोधिनं पिप्रुम् एतत्संज्ञमसुरं च यः इन्द्रोऽवधीत् । किंच यः इन्द्रः अशुषं शोषकरहितं शुष्णं सर्वस्य जगतः शोषकमेतत्संज्ञमसुरं नि अवृणक् न्यवर्जयत् । समूलं हतवानित्यर्थः । तं मरुत्वन्तम् इन्द्रं सख्याय आह्वयामहे । । व्यंसम् । विगतः अंसो यस्मात् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । यणः उदात्तस्वरितयोर्यणः इति परस्यानुदात्तस्य स्वरितत्वम् । जहृषाणेन । हृष तुष्टौ । अत्र वृद्ध्यर्थः । छन्दसि लिट्, लिटः कानज्वा इति तस्य कानजादेशः । अन्येषामपि दृश्यते इति संहितायामभ्यासस्य दीर्घत्वम् । चित्त्वादन्तोदात्तत्वम् । अशुषम् । शुष शोषणे । इगुपधलक्षणः कः ।
शुषाः शोषका न सन्त्यस्येति अशुषः । परादिश्छन्दसि बहुलम् इत्युत्तरपदाद्युदात्तत्वम् । अवृणक् । वृजी वर्जने । रौधादिकः ।।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१०१" इत्यस्माद् प्रतिप्राप्तम्