"ऋग्वेदः सूक्तं १.१०१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५२:
 
हे ऋत्विजः "मन्दिने स्तुतिमते स्तोतव्यायेन्द्राय “पितुमत् हविर्लक्षणेनान्नेनोपेतं "वचः स्तुतिलक्षणं वचनं “प्र “अर्चत प्रकर्षेणोच्चारयत । "यः इन्द्रः “ऋजिश्वना एतत्संज्ञकेन राज्ञा सख्या सहितः सन् "कृष्णगर्भाः । कृष्णो नाम कश्चिदसुरः । तेन निषिक्तगर्भास्तदीयाः भार्याः "निरहन् अवधीत् । कृष्णमसुरं हत्वा पुत्राणाम् अपि अनुत्पत्त्यर्थं गर्भिणीस्तस्य भार्याः अप्यवधीदित्यर्थः । "अवस्यवः रक्षणेच्छवो वयं “वृषणं कामानां वर्षितारं "वज्रदक्षिणं वज्रयुक्तेन दक्षिणहस्तेनोपेतं तं "मरुत्वन्तम् इन्द्रं "सख्याय सख्युः कर्मणे "हवामहे आह्वयामहे ॥ मन्दिने । मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु' । औणादिकः इनिप्रत्ययः । तदुक्तं यास्केन-’ मन्दी मन्दतेः स्तुतिकर्मणः ' (निरु. ४. २४ ) इति । पितुमत् ।
‘ ह्रस्वनुड्भ्यां मतुप् ' इति मतुप उदात्तत्वम् । कृष्णगर्भाः कृष्णेन निषिक्ताः गर्भाः यासु तास्तथोक्ताः। ‘ परादिश्छन्दसि बहुलम् ' इति पूर्वपदान्तोदात्तत्वम् । अवस्यवः । अवेरौणादिको भावेऽसुन्। अवः इच्छति अवस्यति । सुप आत्मनः क्यच् ' । ‘क्याच्छन्दसि ' इति उप्रत्ययः । वृषणम् । वा षपूर्वस्य निगमे ' इति विकल्पनादुपधादीर्घाभावः । सख्याय । सख्युः कर्म सख्यम् ।' सख्युर्यः' इति यप्रत्ययः । हवामहे । ह्वेञो लटि ‘ बहुलं छन्दसि ' इति संप्रसारणम् ॥
 
 
Line ६६ ⟶ ६७:
इन्द्रः । यः । शुष्णम् । अशुषम् । नि । अवृणक् । मरुत्वन्तम् । सख्याय । हवामहे ॥
 
२. "यः इन्द्रइन्द्रः "जहृषाणेन प्रवृद्धेन "मन्युना क्रोधेन "व्यंसं विगतभुजं वृत्रम् "अहन् अवधीत् । अपि च "यः इन्द्रः शम्बरम् एतत्संज्ञमसुरं चावधीत् । तथा अव्रतं“अव्रतं व्रतस्य यागादेः कर्मणो विरोधिनं "पिप्रुम् एतत्संज्ञमसुरं च "यः इन्द्रोऽवधीत् । किंच "यः इन्द्रः“इन्द्रः "अशुषं शोषकरहितं "शुष्णं सर्वस्य जगतः शोषकमेतत्संज्ञमसुरं नि "अवृणक् न्यवर्जयत् । समूलं हतवानित्यर्थः । तं "मरुत्वन्तम् इन्द्रं "सख्याय आह्वयामहे । व्यंसम् ।व्यंसम्। विगतः अंसो यस्मात् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । यणः उदात्तस्वरितयोर्यणः ' इति परस्यानुदात्तस्य स्वरितत्वम् । जहृषाणेन । 'हृष तुष्टौ । अत्र वृद्ध्यर्थः । छन्दसि‘छन्दसि लिट्, लिटः कानज्वा ' इति तस्य कानजादेशः । अन्येषामपि दृश्यते ' इति संहितायामभ्यासस्य दीर्घत्वम् । चित्त्वादन्तोदात्तत्वम् । अशुषम् । शुष शोषणे ' । इगुपधलक्षणः कः । शुषाः शोषका न सन्त्यस्येति अशुषः । परादिश्छन्दसि बहुलम् ' इत्युत्तरपदाद्युदात्तत्वम् । अवृणक् । ‘ वृजी वर्जने '। रौधादिकः ॥
 
 
Line ८० ⟶ ८२:
यस्य । इन्द्रस्य । सिन्धवः । सश्चति । व्रतम् । मरुत्वन्तम् । सख्याय । हवामहे ॥३
 
"यस्य इन्द्रस्य “महत् विपुलं “पौंस्यं बलं "द्यावापृथिवी द्यावापृथिव्यावनुवर्तेते । “यस्य चेन्द्रस्य “व्रते नियमरूपे कर्मणि "वरुणः वर्तते । वरुणोऽपीन्द्रस्य नियमनं नातिक्रामतीत्यर्थः । अपि च “सूर्यः अपि "यस्य इन्द्रस्य व्रते वर्तते । तथा "यस्य "इन्द्रस्य “व्रतं कर्म “सिन्धवः नद्यः "सश्चति । वचनव्यत्ययः । गच्छन्ति । सश्चतिर्गतिकर्मा । इन्द्रेणानुशिष्टाः प्रवहन्तीत्यर्थः । तं “मरुत्वन्तम् इन्द्रं “सख्याय आह्वयामहे ॥ द्यावापृथिवी । द्यौश्च पृथिवी च द्यावापृथिव्यौ । ‘ दिवो द्यावा ' इति द्यावादेशः । स चाद्युदात्तो निपातितः । पृथिवीशब्दो ङीष्प्रत्ययान्तः अन्तोदात्तः । ‘ देवताद्वन्द्वे च' इत्युभयपदप्रकृतिस्वरत्वम् । “ वा छन्दसि ' इति पूर्वसवर्णदीर्घः ॥
 
 
Line ९४ ⟶ ९७:
वीळोः । चित् । इन्द्रः । यः । असुन्वतः । वधः । मरुत्वन्तम् । सख्याय । हवामहे ॥४
 
"यः इन्द्रः "अश्वानां पतिरधिपतिः । तथा "यः इन्द्रः "गोपतिः । न केवलमेकस्या गोः किंतु सर्वासामित्याह "गवाम् इति । सर्वासां गवाम् अधिपतिर्भवति । "वशी अपराधीनः । स्वतन्त्र इत्यर्थः । अपि च "यः इन्द्रः "कर्मणिकर्मणि सर्वेषु कर्मसु “स्थिरः नैश्चल्येनावतिष्ठमानः "आरितः स्तुतिभिः प्रत्यृतः प्राप्तो भवति । ‘आरितः प्रत्यृतः स्तोमान्' (निरु. ५. १५) इति निरुक्तम् । “यः च "इन्द्रः "असुन्वतः सुन्वतां यागानुष्ठातॄणां विरोधिनः "वीळोश्चित् दृढस्यापि शत्रोः "वधः हन्ता तं “मरुत्वन्तम् इन्द्रं "सख्याय आह्वयामहे ॥ गवाम् । न गोश्वन्साववर्ण° ' इति विभक्त्युदात्तत्वस्य प्रतिषेधः । गोपतिः ।' पत्यावैश्वर्ये ' इति पूर्वपदप्रकृतिस्वरत्वम् । आरितः । ‘ऋ ‘ गतौ । अस्मात् ण्यन्तात् निष्ठा । आगमानुशासनस्यानित्यत्वात् पुगभावः । यद्वा । ‘ सूचिसूत्रिमूञ्यट्यर्त्यशूर्णोतीनाम् ' (पा. म. ३. १. २२. ३) इति विहितस्य यङः ‘यङोऽचि च' इत्यत्र चशब्देन बहुलग्रहणानुकर्षणादनैमित्तिके लुकि प्रत्ययलक्षणेन ‘ सन्यङोः ' इति ऋ इत्येतस्य द्विर्वचने उरदत्वहलादिशेषयोः सतोः ‘ रुग्रिकौ च लुकि ' इति रुक् । ततो निष्ठायां छान्दस इडागमः। ऋकारस्य यणादेशः । ‘रो रि' इति अभ्यासरेफलोपः । ‘ ढ्रलोपे पूर्वस्य दीर्घाऽणः' इति दीर्घत्वम् । वधः । ‘ कृत्यल्युटो बहुलम्' इति बहुलवचनात् ' हनश्च वधः' इति कर्तरि अप् वधादेशश्च । स. चादन्तः । अतो लोपे उदात्तनिवृत्तिस्वरेण प्रत्ययस्य उदात्तत्वम्॥
 
 
Line १०८ ⟶ ११२:
इन्द्रः । यः । दस्यून् । अधरान् । अवऽअतिरत् । मरुत्वन्तम् । सख्याय । हवामहे ॥५
 
“यः इन्द्रः “विश्वस्य "जगतः गच्छतः "प्राणतः प्रश्वसतः प्राणिजातस्य “पतिः स्वामी "यः च “ब्रह्मणे ब्राह्मणजातिभ्योऽङ्गिरोभ्यः "प्रथमः अन्येभ्यो देवेभ्यः पूर्वभावी सन् पणिभिरपहृताः “गा: “अविन्दत् अलभत । अन्येभ्यो देवेभ्यः पूर्वमेव तैरसुरैर्युद्ध्वा गाः स्वयमलभतेत्यर्थः । अपि च "यः "इन्द्रः “दस्यून् उपक्षपयितॄनसुरान् "अधरान निकृष्टान् कृत्वा "अवातिरत् अवधीत् । अवतरतिर्वधकर्मा । तं "मरुत्वन्तम् इन्द्रं "सख्याय आह्वयामहे ॥ जगतः । ‘ गम्लृ सप्लृ गतौ' । वर्तमाने पृषद्बृहन्महज्जगच्छतृवच्च' ( उ. सू. २. २४१ ) इति अतिप्रत्ययान्तो निपातितो जगच्छब्द आद्युदात्त: । प्राणतः । ‘ श्वस प्राणने, अन च ' । अस्मात् लटः शतृ । अदादित्वात् शपो लुक् । ‘ शतुरनुमः' इति विभक्तेरुदात्तत्वम् । षष्ठ्याः पतिपुत्र' इति विसर्जनीयस्य सत्वम् ।।
 
 
Line १२२ ⟶ १२७:
इन्द्रम् । यम् । विश्वा । भुवना । अभि । सम्ऽदधुः । मरुत्वन्तम् । सख्याय । हवामहे ॥६
 
"यः इन्द्रः "शूरेभिः शौर्योपेतैः पुरुषैः "हव्यः योद्धुमाह्वातव्यः । "यश्च “भीरुभिः भयशीलैः कातरैः पुरुषैः सहायार्थमाह्वातव्यः । अपि च "यः इन्द्रः “धावद्भिः पराजयेन पलायमानैः “हूयते रक्षार्थमाहूयते । "यश्च जिग्युभिः प्राप्तजयैराहूयते । "यं च “इन्द्रं "विश्वा "भुवना सर्वाणि भूतजातानि स्वेषु स्वेषु कार्येषु "अभि "संदधुः आभिमुख्येन स्थापयन्ति । तं "मरुत्वन्तम् इन्द्रं "सख्याय आह्वयामहे ॥ शूरेभिः । ‘ बहुलं छन्दसि ' इति भिस ऐसभावः । हव्यः । ह्वयतेः ‘ अचो यत्' इति यत् । “ ह्वः' इत्यनुवृत्तौ ‘ बहुलं छन्दसि' इति संप्रसारणम् । गुणे ‘ धातोस्तन्निमित्तस्यैव' इति अवादेशः । भीरुभिः । ‘ भियः क्रुक्लुकनौ ' ( पा. सू. ३. २. १७४) इति क्रुप्रत्ययः । धावद्भिः । ‘ सृ गतौ । सर्तेः वेगितायां शपि : पाध्रा०' इत्यादिना धावादेशः। शपः पित्त्वात् अनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । जिग्युभिः ।' जि जये। लिटः क्वसुः । द्विर्वचने ‘ सन्लिटोर्जेः' इति अभ्यासादुत्तरस्य जकारस्य कुत्वम् । भिसि अयस्मयादित्वेन भत्वात् ‘ वसोः संप्रसारणम्' इति संप्रसारणम् । छान्दसोऽन्त्यलोपः ॥ ॥ १२ ॥
 
 
Line १३६ ⟶ १४२:
इन्द्रम् । मनीषा । अभि । अर्चति । श्रुतम् । मरुत्वन्तम् । सख्याय । हवामहे ॥७
 
“विचक्षणः सूर्यात्मना प्रकाशमान इन्द्रः "रुद्राणां रुद्रपुत्राणाम् अध्यात्मं प्राणरूपेण वर्तमानानां मरुताम् । यद्वा । रोदयितॄणां प्राणानाम् । प्राणा हि शरीरात् निर्गताः सन्तो बन्धुजनान् रोदयन्ति । “प्रदिशा प्रदेशनेन मनुष्येभ्यः प्रदानेन सह “एति अन्तरिक्षे गच्छति। तथा चाम्नायते- योऽसौ तपन्नुदेति स सर्वेषां भूतानां प्राणानादायोदेति ' ( तै. आ. १. १४. १ ) इति । अपि च "रुद्रेभिः अधिभूतं वर्तमानैः रुद्रपुत्रैर्मरुद्भिः "योषा माध्यमिका वाक् "पृथु विस्तीर्णं “ज्रयः वेगं "तनुते विस्तारयति । प्रसंगादत्र मरुतां स्तुतिः । तैर्मरुद्भिः सह वर्तमानं “श्रुतं प्रख्यातं सूर्यात्मानम् "इन्द्रं मनीषा स्तुतिलक्षणा वाक् “अभ्यर्चति आभिमुख्येन स्तौति । तं मरुत्वन्तम् इन्द्रं "सख्याय आह्वयामहे ॥ प्रदिशा । ‘ दिश अतिसर्जने' । संपदादिलक्षणो भावे क्विप्। ज्रयः । ‘ जि ज्रि अभिभवे । ज्रीयतेऽभिभूयतेऽजेनेति ज्रयो वेगः । करणे असुन् । मनीषा । ईषाअक्षादित्वात् प्रकृतिभावः ।।
 
 
Line १५० ⟶ १५७:
अतः । आ । याहि । अध्वरम् । नः । अच्छ । त्वाऽया । हविः । चकृम । सत्यऽराधः ॥८
 
हे “मरुत्वः मरुद्भिर्युक्तेन्द्र "परमे उत्कृष्टे "सधस्थे सहस्थाने गृहे "यद्वा यदि वा "मादयासे । तृप्तो वर्तसे । "यद्वा यदि वा "अवमे अर्वाचीने “वृजने । वृज्यते रिक्तीक्रियतेऽस्मिन् धनमिति वृजनं गृहम् । तस्मिन् मादयासे । "अतः अस्मादुभयविधात् स्थानात् "नः अस्माकं "अध्वरं यज्ञम् “अच्छ आभिमुख्येन “आ “याहि आगच्छ । हे "सत्यराधः सत्यधन" “त्वाया त्वत्कामनया वयं “हविश्चकृम कृतवन्तः ।। मरुत्वः । ‘ मतुवसो रुः० ' इति संबुद्धौ नकारस्य रुत्वम् । सधस्थे । ‘ सुपि स्थः' इति कप्रत्ययः । ‘ सध मादस्थयोश्छन्दलि' इति सहस्य सधादेशः । मादयासे । ‘ मद तृप्तियोगे'। चुरादिरात्मनेपदी । लेटि आडागमः । त्वाया । त्वामात्मन इच्छति । ‘ सुप आत्मनः क्यच् ' । ‘ प्रत्ययोत्तरपदयोश्च ' इति मपर्यन्तस्य त्वादेशः । व्यत्ययेन दकारस्य आत्वम् । 'अ प्रत्ययात्' इति अकारप्रत्ययः । सुपां सुलुक्' इति तृतीयाया लुक् ॥
 
 
Line १६४ ⟶ १७२:
अध । नियुत्वः । सऽगणः । मरुत्ऽभिः । अस्मिन् । यज्ञे । बर्हिषि । मादयस्व ॥९
 
हे "सुदक्ष शोभनबल “इन्द्र “त्वाया त्वत्कामनया "सोमं "सुषुम अभिषुतवन्तो वयम् । हे “ब्रह्मवाहः ब्रह्मणा मन्त्ररूपेण स्तोत्रेणोह्यमान प्राप्यमाणेन्द्र “त्वाया त्वत्कामनया आहवनीये पुरोडाशलक्षणं “हविश्चकृम कृतवन्तः। हे “नियुत्वः । नियुतोऽश्वाः । तद्वन्निन्द्र "अधा अनन्तरं "मरुद्भिः सप्तगणरूपैरेतत्संज्ञैर्देवैः "सगणः गणसहितः सन् 'अस्मिन् वर्तमाने "यज्ञे “बर्हिषि आस्तीर्णे दर्भे उपविश्य "मादयस्व तृप्तो भव ॥ सुषुम ।' षुञ् अभिषवे'। लिटि क्रादिनियमप्राप्तस्य इटः “ अनित्यमागमशासनम्' इति वचनादभावः ॥
 
 
Line १७८ ⟶ १८७:
आ । त्वा । सुऽशिप्र । हरयः । वहन्तु । उशन् । हव्यानि । प्रति । नः । जुषस्व ॥१०
 
हे "इन्द्र "हरिभिः अश्वैः सह "मादयस्व तृप्तो भव । "ये "ते तव स्वभूतास्तदर्थं "शिप्रे हनू संहते “वि “ष्यस्व सोमपानार्थं विवृते कुरु । तथा “धेने पानसाधनभूते जिह्वोपजिह्विके "वि "सृजस्व सोमपानार्थं विश्लिष्टे कुरु । हे "सुशिप्र । शिप्रे हनू नासिके वा '। शोभनशिप्रेन्द्र “त्वा त्वां "हरयः अश्वाः "आ “वहन्तु अस्मदीयं यज्ञं प्रापयन्तु । त्वं च "उशन् अस्मान् कामयमानः "नः अस्माकं “हव्यानि हवींषि “प्रति "जुषस्व प्रत्येकं सेवस्व मा उदासिष्ठाः ॥ वि ष्यस्व । षो अन्तकर्मणि '। व्यत्ययेन आत्मनेपदम् । दिवादित्वात् श्यन् । ‘ओतः श्यनि ' ( पा. सू. ७. ३. ७१ ) इति ओकारलोपः ।' उपसर्गात्सुनोति° ' इति षत्वम् ॥
 
 
Line १९२ ⟶ २०२:
तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥११
 
“मरुत्स्तोत्रस्य । मरुद्भिः सह स्तोत्रं यस्य स मरुत्स्तोत्रः। तस्य "वृजनस्य शत्रूणां क्षेप्तुरिन्द्रस्य संबन्धिनः “गोपाः गोपायनीयाः रक्षणीयाः “वयं तेन "इन्द्रेण “वाजम् अन्नं "सनुयाम लभेमहि । यदेतदस्माभिः प्रार्थितं "नः अस्मदीयं "तत् मित्रादयो द्यावापृथिव्यौ च "ममहन्तां पूजितं कुर्वन्तु ॥ वृजनस्य । ‘वृजी वर्जने'। ‘कॄपॄवृजिमन्दिनिधाञ्भ्यः क्युः' इति क्युप्रत्ययः ॥ ॥ १३ ॥
२. यः इन्द्र जहृषाणेन प्रवृद्धेन मन्युना क्रोधेन व्यंसं विगतभुजं वृत्रम् अहन् अवधीत् । अपि च यः इन्द्रः शम्बरम् एतत्संज्ञमसुरं चावधीत् । तथा अव्रतं व्रतस्य यागादेः कर्मणो विरोधिनं पिप्रुम् एतत्संज्ञमसुरं च यः इन्द्रोऽवधीत् । किंच यः इन्द्रः अशुषं शोषकरहितं शुष्णं सर्वस्य जगतः शोषकमेतत्संज्ञमसुरं नि अवृणक् न्यवर्जयत् । समूलं हतवानित्यर्थः । तं मरुत्वन्तम् इन्द्रं सख्याय आह्वयामहे । । व्यंसम् । विगतः अंसो यस्मात् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । यणः उदात्तस्वरितयोर्यणः इति परस्यानुदात्तस्य स्वरितत्वम् । जहृषाणेन । हृष तुष्टौ । अत्र वृद्ध्यर्थः । छन्दसि लिट्, लिटः कानज्वा इति तस्य कानजादेशः । अन्येषामपि दृश्यते इति संहितायामभ्यासस्य दीर्घत्वम् । चित्त्वादन्तोदात्तत्वम् । अशुषम् । शुष शोषणे । इगुपधलक्षणः कः ।
शुषाः शोषका न सन्त्यस्येति अशुषः । परादिश्छन्दसि बहुलम् इत्युत्तरपदाद्युदात्तत्वम् । अवृणक् । वृजी वर्जने । रौधादिकः ।।
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१०१" इत्यस्माद् प्रतिप्राप्तम्