"ऋग्वेदः सूक्तं १.१०२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३५:
 
{{सायणभाष्यम्|
' इमां ते' इति एकादशर्चं नवमं सूक्तं कुत्सस्यार्षमैन्द्रम् । अन्त्यां त्रिष्टुप् शिष्टा दश जगत्यः । तथा चानुक्रान्तम्-' इमां तेऽन्त्या त्रिष्टुप्' इति । विनियोगो लैङ्गिकः ॥
 
 
इ॒मां ते॒ धियं॒ प्र भ॑रे म॒हो म॒हीम॒स्य स्तो॒त्रे धि॒षणा॒ यत्त॑ आन॒जे ।
Line ४८ ⟶ ५०:
तम् । उत्ऽसवे । च । प्रऽसवे । च । ससहिम् । इन्द्रम् । देवासः । शवसा । अमदन् । अनु ॥१
 
हे इन्द्र “महः महतः ते तव “इमाम् इदानीं क्रियमाणां “महीं महतीम् अत्यन्तोत्कृष्टां “धियं स्तुतिं “प्र “भरे प्रकर्षेण संपादयामि । “ते तव “धिषणा त्वदीया बुद्धिः “अस्य मम स्तोतुः “स्तोत्रे स्तुतौ “यत् यस्मात् “आनजे अक्ता संश्लिष्टासीत् । तस्मात् तव प्रियां स्तुतिं करोमीत्यर्थः । उत्तरोऽर्धर्चः परोक्षकृतः । “ससहिं शत्रूणामभिभवितारं पूर्वोक्तं “तम् “इन्द्रं “देवासः कर्मसु दीव्यन्तः ऋत्विजः “शवसा स्तुतिभिः कीर्तितेन बलेन “अनु “अमदन अनुक्रमेण हर्षं प्रापयन् । किमर्थम् । “उत्सवे “च उत्सवार्थमभिवृद्ध्यर्थं “प्रसवे “च धनानां वृष्ट्युदकानां वा उत्पत्त्यर्थं च ॥ आनजे। ‘ अञ्जू व्यक्तिम्रक्षणगतिषु' । अस्मात् कर्मणि लिट् । द्विर्वचनहलादिशेषौ। अत आदेः' इति अभ्यासस्य आत्वम् । ‘ तस्मान्नुड्द्विहलः ' ( पा. सू. ७. ४. ७१ ) इति नुट् । व्यत्ययेन उपधानकारलोपः। उत्सवे । प्रसवे । 'षू प्रेरणे'। ‘ ऋदोरप्' इति भावे अप् । ‘ निमित्तात्कर्मसंयोगे' ( पा. सू. २. ३. ३६. ६) इति सप्तमी। थाथादिना उत्तरपदान्तोदात्तत्वम् । ससहिम् । षह अभिभवे ।' आदृगमहन ' इत्यत्र ‘ उत्सर्गश्छन्दसि ' इति वचनात् किप्रत्ययः । लिङ्वद्भावात् द्विर्वचनम् । अन्येषामपि दृश्यते ' इति संहितायामभ्यासस्य दीर्घत्वम् । अमदन् । ‘मदी हर्षे '। हेतुमति णिच् । मदी हर्षग्लेपनयोः' इति घटादिषु पाठात् ‘मितां ह्रस्वः' इति ह्रस्वत्वम् । छन्दस्युभयथा ' इति शप आर्धधातुकत्वात् ' णेरनिटि ' इति णिलोपः ॥
 
 
Line ६२ ⟶ ६५:
अस्मे इति । सूर्याचन्द्रमसा । अभिऽचक्षे । श्रद्धे । कम् । इन्द्र । चरतः । विऽतर्तुरम् ॥२
 
“अस्य इन्द्रस्य “श्रवः यशः कीर्तिं सप्त इमं मे गङ्गे' इत्यस्यामृचि प्राधान्येन प्रतिपादिता गङ्गाद्याः सप्तसंख्याकाः “नद्यः “बिभ्रति धारयन्ति । वृत्रहननेन इन्द्रस्य यत् वृष्टेः प्रदातृत्वं तत्प्रभूतजलोपेता नद्यः प्रकटयन्तीत्यर्थः । अपि च “द्यावाक्षामा द्यावापृथिव्यौ । “पृथिवी इति अन्तरिक्षनाम । अन्तरिक्षं चास्य सूर्यात्मना वर्तमानस्येन्द्रस्य “दर्शतं सर्वैः प्राणिभिर्दर्शनीयं “वपुः । रूपनामैतत् । प्रकाशात्मकं रूपं धारयन्ति । किंच हे “इन्द्र “अस्मे अस्माकम् “अभिचक्षे द्रष्टव्यानां पदार्थानामाभिमुख्येन प्रकाशनार्थं “श्रद्धे “कं श्रद्धार्थम् । चक्षुषा दृष्टे हि वस्तुनि इदं सत्यमिति श्रद्धोत्पद्यते । कमित्येतत् पादपूरणम् । तदुभयार्थं सूर्याचन्द्रमसौ “वितर्तुरं परस्परव्यतिहारेण तरणं पुनः पुनर्गमनं यथा भवति तथा “चरतः । वर्तेते । त्वमेव तद्रूपः सन् वर्तसे इत्यर्थः ॥ अस्य । “ उडिदम्' इति विभक्तेरुदात्तत्वम् । द्यावाक्षामा । द्यौश्च क्षामा च । ' दिवो द्यावा' इति द्यावादेशः । ‘सुपां सुलुक् ' इति विभक्तेः डादेशः । देवताद्वन्द्वे च ' इति उभयपदप्रकृतिस्वरत्वम् । दर्शतम् । भृमृदृशि° ' इत्यादिना अतच् । सूर्याचन्द्रमसा । सूर्यश्च चन्द्रमाश्च । “ देवताद्वन्द्वे च ' इति पूर्वपदस्य आनङादेशः । ‘सुपां सुलुक् ' इति विभक्तेः आकारः । चन्द्रमःशब्दो दासीभारादित्वात् पूर्वपदप्रकृतिस्वरेण मध्योदात्तः । अतो ‘देवताद्वन्द्वे च' इति प्राप्तस्य उभयपदप्रकृतिस्वरस्य ‘नोत्तरपदेऽनुदात्तादावपृथिवी ' इति प्रतिषेधः । अभिचक्षे । चक्षेः प्रकाशनार्थात् संपदादिलक्षणो भावे क्विप् । तादर्थ्ये चतुर्थी । श्रद्धे । दृशिग्रहणात् दधातेर्भावे विच् । चतुर्थ्येकवचने ‘ आतो धातोः' इति आकारलोपः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । वितर्तुरम् । तरतेर्यङ्लुगन्तात् औणादिकः कुरच्” । बहुलं छन्दसि ' इति उत्वम् ॥
 
 
Line ७६ ⟶ ८०:
आजा । नः । इन्द्र । मनसा । पुरुऽस्तुत । त्वायत्ऽभ्यः । मघऽवन् । शर्म । यच्छ । नः ॥३
 
हे “मघवन् धनवन् “इन्द्र “सातये अस्माकं धनलाभाय “तं "स्म तमेव “रथं “प्राव प्रेरय वर्तय। “नः अस्माकं “मनसा बुद्ध्या “पुरुष्टुत बहुशः स्तुतेन्द्र “ते तव स्वभूतं “जैत्रं जयशीलं “यं रथं “संगमे शत्रुभिः सह संगमने “आजा युद्धे सति "अनुमदाम वयमनुक्रमेण स्तुमः । अपि च हे “मघवन् “त्वायद्भ्यः त्वां कामयमानेभ्यः “नः अस्मभ्यं “शर्म सुखं “यच्छ देहि ॥ अव । ‘ अव रक्षणगतिकान्ति° ' इत्युक्तत्वादवतिरन्न गत्यर्थः । संगमे । “ ग्रहवृदृनिश्चिगमश्च ' इति कर्मणि अप् । थाथादिना उत्तरपदान्तोदात्तत्वम् । आजा । सुपां सुलुक्° ' इति सप्तम्या डादेशः । त्वायद्भ्यः । सुप आत्मनः क्यच् '। ' प्रत्ययोत्तरपदयोश्च' इति मपर्यन्तस्य त्वादेशः । व्यत्ययेन दकारस्य आत्वम् । क्यजन्तात् लटः शतृ । अदुपदेशात् लसार्वधातुकानुदात्तत्वे सति क्यचा सहैकादेशे ‘ एकादेश उदात्तेन ' इति तस्य उदात्तत्वम् ।।
 
 
Line ९० ⟶ ९५:
अस्मभ्यम् । इन्द्र । वरिवः । सुऽगम् । कृधि । प्र । शत्रूणाम् । मघऽवन् । वृष्ण्या । रुज ॥४
 
हे इन्द्र “युजा अस्माभिर्युक्तेन सहायभूतेन “त्वया “वृतं आवृण्वन्तं शत्रुं "वयं स्तोतारः "जयेम अभिभवेम । अपि च “भरेभरे संग्रामेसंग्रामे “अस्माकम् "अंशम् अस्मदीयं भागम् “उदव शत्रुकृतपीडापरिहारेणोत्कृष्टं रक्ष । तथा हे “इन्द्र “वरिवः धनम् “अस्मभ्यं "सुगं सुगमं सुप्रापं “कृधि कुरु । तथा हे “मघवन् “शत्रूणाम् अस्मदुपद्रवकारिणां “वृष्ण्या वृष्ण्यानि वीर्याणि “प्र “रुज प्रभङ्न्धि बाधस्वेत्यर्थः ॥ वृतम् ।' वृञ् वरणे'।' क्विप् च ' इति क्विप् । तुगागमः । सुगम् । सुदुरोरधिकरणे ' इति गमेः डप्रत्ययः । कृधि । ' श्रुशृणुपॄकृवृभ्यः' इति हेर्धिः । रुज । ' रुजो भङ्गे' । तौदादिकः ॥
 
 
Line १०४ ⟶ ११०:
अस्माकम् । स्म । रथम् । आ । तिष्ठ । सातये । जैत्रम् । हि । इन्द्र । निऽभृतम् । मनः । तव ॥५
 
हे “धनानां “धर्तः गोहिरण्यादिरूपाणां द्रव्याणां धारयितः इन्द्र “विपन्यवः । स्तोतृनामैतत् । स्तोतारः “इमे “जनाः “अवसा रक्षणेन हेतुना “त्वा “हवमानाः त्वामाह्वयन्तः "नाना “हि विभिन्नाः खलु । तेषां मध्ये "अस्माकं "स्म अस्माकमेव “सातये धनदानाय “रथम् “आ “तिष्ठ आरोह । हे “इन्द्र “निभृतम् अव्याकुलं “तव “मनः चित्तं “जैत्रं “हि जयशीलं खलु । शत्रून् जित्वास्मभ्यं धनं दातुं समर्थमित्यर्थः ॥ सातये ।' षणु दाने '। क्तिनि ‘जनसनखनां सब्झलोः ' इति आत्वम् ॥ ॥ १४ ॥
 
 
Line ११८ ⟶ १२५:
अकल्पः । इन्द्रः । प्रतिऽमानम् । ओजसा । अथ । जनाः । वि । ह्वयन्ते । सिसासवः ॥६
 
हे इन्द्र तव “बाहू हस्तौ “गोजिता जयेन गवां लम्भयितारौ । त्वं च "अमितक्रतुः अपरिच्छिन्नज्ञानः “सिमः श्रेष्ठः । तथा च शाट्यायनकं- सिम इति वै श्रेष्ठमाचक्षते ' इति । यद्वा । सिमः शत्रूणां बन्धकः । कर्मन्कर्मन् स्तोतॄणां कर्मणिकर्मण्युपस्थिते “शतमूतिः बहुविधरक्षणोपेतः “खजंकरः । खजति मथ्नाति पुरुषानिति खजः संग्रामः । तस्य कर्ता । “अकल्पः कल्पेनान्येन रहितः । स्वतन्त्र इत्यर्थः । “ओजसा सर्वेषां प्राणिनां यदोजो बलमस्ति तेन सर्वेण “प्रतिमानं प्रतिनिधित्वेन मीयमानः । यस्मादेवंगुणविशिष्टः “इन्द्रः “अथ अतः कारणात् “सिषासवः धनं लब्धुकामाः “जनाः “वि “ह्वयन्ते विविधमाह्वयन्ति ॥ गोजिता । गा जयतः इति गोजितौ। ‘सुपां सुलुक् ' इति विभक्तेः आकारः । सिमः । ‘ षिञ् बन्धने । अस्मादौणादिको मक् । खजंकरः । ‘ खज मन्थे । पचाद्यच् । ‘क्षेमप्रियमद्रेऽण् च ' ( पा. सू. ३. २. ४४ ) इति चशब्दस्यानुक्तसमुच्चयार्थत्वात् खजशब्दोपपदादपि करोतेः खच् ।' अरुर्द्विषदजन्तस्य° ' इति मुम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । अकल्पः । ‘ नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम् । सिषासवः । वन षण संभक्तौ । सनि ‘सनीवन्तर्ध° ' इति विकल्पनात् इडभावः । ‘ जनसनखनां सञ्झलोः' इति आत्वम् । द्विर्वचनादि । ‘सनाशंसभिक्ष उः' (पा. सू. ३. २. १६८ ) इति उप्रत्ययः । सति शिष्टत्वात् तस्यैव स्वरः शिष्यते ॥
 
 
Line १३२ ⟶ १४०:
अमात्रम् । त्वा । धिषणा । तित्विषे । मही । अध । वृत्राणि । जिघ्नसे । पुरम्ऽदर ॥७
 
हे "मघवन् धनवन्निन्द्र “कृष्टिषु स्तोतृषु मनुष्येषु त्वया दीयमानं “श्रवः यदन्नमस्ति तत् "शतात् शतसंख्याकाद्धनात् "उत् “रिरिचे उद्रिक्तमधिकं भवति । अपि च “भूयसः शतसंख्याकादपि बहुतराद्धनात् “उत् रिरिचे अधिकं भवति । किं बहुना ! “सहस्रात् सहस्रसंख्याकादपि “उत् रिरिचे । त्वया दत्तं तदन्नमक्षयमित्यर्थः । अपि च “अमात्रं मात्रयेयत्तया रहितं परिगणितुमशक्यैः सर्वैर्गुणैरधिकं त्वां “मही महती “धिषणा अस्मदीया स्तुतिलक्षणा वाक् “तित्विषे दीपयति । त्वत्संबन्धिनो गुणान् प्रकाशयति । हे “पुरंदर शत्रूणां पुरा दायितरिन्द्र “अध स्तुत्यनन्तरं “वृत्राणि आवरकान् शत्रून् "जिघ्नसे हंसि विनाशयसि ।। रिरिचे। ‘रिचिर् विरेचने '। कर्मणि लिट् । तित्विषे । ‘ त्विष दीप्तौ । जिघ्नसे । हन्तेर्लेटि व्यत्ययेन आत्मनेपदम् । ‘लेटोऽडाटौ ' इति अडागमः । ‘ बहुलं छन्दसि ' इति शपः श्लुः । ‘ गमहन° ' इत्यादिना उपधालोपः । स्थानिवद्भावात् द्विर्वचनादि । ‘ बहुलं छन्दसि ' इति अभ्यासस्य इत्वम् । पुरंदर । ‘ पू:सर्वयोर्दारिसहोः ' (पा. सू. ३. २ ४१ ) इति खच् ।' खचि ह्रस्वः ' ( पा. सू. ६. ४, ९४ ) इति ह्रस्वत्वम् । वाचंयमपुरंदरौ च' (पा. सू. ६. ३. ६९ ) इति निपातनात् अम् ॥
 
 
Line १४६ ⟶ १५५:
अति । इदम् । विश्वम् । भुवनम् । ववक्षिथ । अशत्रुः । इन्द्र । जनुषा । सनात् । असि ॥८
 
हे "नृपते नृणां पालयितरिन्द्र त्वम् “ओजसः सर्वेषां प्राणिनां बलस्य “प्रतिमानं प्रतिनिधिरसि । कीदृशं प्रतिमानम् । “त्रिविष्टिधातु । धातुशब्दो रज्जुभागवचनः । यथा “ त्रिधातु पञ्चधातु वा शुल्वं करोति' इति । यथा त्रिविष्टिस्त्रिगुणिता रज्जुः द्रढीयसी एवमिन्द्रोऽपि दृढतर इत्यर्थः । किंच त्वं “तिस्रो “भूमीः त्रीन् लोकान् “त्रीणि “रोचना त्रीणि तेजांसि दिवि आदित्याख्यम् अन्तरिक्षे वैद्युतरूपमग्निं पृथिव्याम् आहवनीयादिरूपेण वर्तमानं पार्थिवमग्निम् एवं त्रीन् लोकान् त्रीणि तेजांसि च “अति “ववक्षिथ अतिशयेन वोढुमिच्छसि । अपि च “इदं “विश्वं सर्वं “भुवनं भूतजातं चातिवोढुमिच्छसि । सर्वस्य जगतः पालनेन त्वमेव सर्वेषां निर्वाहकः भवसीत्यर्थः। यस्मात् हे “इन्द्र त्वं “सनात् चिरकालादारभ्य “जनुषा जन्मना जन्मप्रभृति “अशत्रुः सपत्नरहितः “असि ॥ त्रिविष्टिधातु । त्रिधा त्रिप्रकारेण विष्ट्या प्रवेशनेन विधीयते क्रियते इति त्रिविष्टिधातुः त्रिगुणिता रज्जुः । विशेर्भावे क्तिन् । धाञः ‘सितनिगमिमसि° ' ( उ. सू. १. ६९ ) इत्यादिना कर्मणि तुन्प्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । अत्र दृढरज्जुवाचकः शब्दस्तद्गतं दार्ढ्यं लक्षयित्वा तद्वति प्रतिमाने वर्तते । यथा माणवकेऽग्निशब्दः । तिस्रः । शसि • त्रिचतुरोः स्त्रियाम् ' इति तिस्रादेशः अन्तोदात्तः । “अचि र ऋतः' इति रेफादेशे ‘उदात्तयणो हल्पूर्वात्' इति विभक्तेरुदात्तत्वम् । ववक्षिथ । “वह प्रापणे ' इत्यस्मात् इच्छासनि ढत्वकत्वषत्वानि । ‘ सन्यतः ' इति इत्वाभावश्छान्दसः । छान्दसे लिटि : अमन्त्रे°' इति निषेधात् आम्प्रत्ययाभावः । जनुषा । ‘ जनेरुसिः ।।
 
 
Line १६० ⟶ १७०:
सः । इमम् । नः । कारुम् । उपऽमन्युम् । उत्ऽभिदम् । इन्द्रः । कृणोतु । प्रऽसवे । रथम् । पुरः ॥९
 
हे इन्द्र “देवेषु “प्रथमं श्रेष्ठं “त्वां “हवामहे यागार्थमाह्वयामहे । तथा “त्वं “पृतनासु संग्रामेषु “ससहिः “बभूथ शत्रूणामभिभवितासि । उत्तरार्धः परोक्षकृतः । “सः “इन्द्रः “नः अस्माकं “कारुं स्तुतीनां कर्तारम् “उपमन्युम् उपमन्तारं सर्वज्ञम् “उद्भिदं शत्रूणामुद्भेत्तारम् “इमम् एवंगुणविशिष्टं पुत्रं “कृणोतु करोतु । अपि च “प्रसवे युद्धोत्पत्तावस्मदीयं “रथं “पुरः अन्येभ्यो रथेभ्यः पुरतो वर्तमानं करोतु । यद्वा । कारुमित्यादीनि रथविशेषणानि । कारुं युद्धस्य कर्तारम् उपमन्युम् उपगतेन प्राप्तेन मन्युना क्रोधेन युक्तम् उद्भिदं मार्गेऽवस्थितानां वृक्षादीनामुद्भेत्तारमतिशयेन भङ्क्तारम् ॥ बभूथ । ‘बभूथा ततन्थ जगृभ्म ववर्थेति निगमे' इति निपातनात् इडभावः । स इमम् । सोऽचि लोपे चेत्पादपूरणम्' इति सुलोपः । प्रसवे । “षूङ् प्राणिप्रसवे ' । ऋदोरप् । थाथादिना उत्तरपदान्तोदात्तत्वम् ॥
 
 
Line १७४ ⟶ १८५:
त्वाम् । उग्रम् । अवसे । सम् । शिशीमसि । अथ । नः । इन्द्र । हवनेषु । चोदय ॥१०
 
हे इन्द्र “त्वं “जिगेथ शत्रून् जयसि । तथा “धना शत्रुभ्योऽपहृतानि धनानि “न “रुरोधिथ नावरुणत्सि । स्तोतृभ्यः प्रयच्छसीत्यर्थः । हे “मघवन् धनवन्निन्द्र “अर्भेषु अल्पेषु "आजा आजिषु संग्रामेषु “महत्सु “च प्रौढेषु संग्रामेषु च “अवसे अस्माकं रक्षणार्थम् “उग्रम् उद्गूर्णम् . अधिकबलं “त्वां “सं “शिशीमसि स्तोत्रैस्तीक्ष्णीकुर्मः। “अथ अनन्तरं हे “इन्द्र त्वं “हवनेषु युद्धार्थमाह्वानेषु सत्सु आगत्य “नः अस्मान् “चोदय संग्रामेषु प्रेरय । जयं प्रापयेत्यर्थः ॥ जिगेथ । ‘ जि जये । लिटि थलि क्रादिनियमात् प्राप्तस्य इटः ' अचस्तास्वत्थल्यनिटो नित्यम् ' (पा. सू. ७. २, ६१ ) इति प्रतिषेधः । ‘ सन्लिटोर्जेः' इति अभ्यासादुत्तरस्य जकारस्य कुत्वम् । रुरोधिथ । क्रादिनियमात् इट् । आजा । ‘ सुपां सुलुक् ' इति सप्तमीबहुवचनस्य डादेशः । शिशीमसि । ‘ शो तनूकरणे'। ‘ बहुलं छन्दसि ' इति विकरणस्य श्लुः । ‘ आदेचः° ' इति आत्वम् । द्विर्वचने ‘ बहुलं छन्दसि ' इति अभ्यासस्य इत्वम् । ‘ई हल्यघोः' इति ईकारान्तादेशः । इदन्तो मसिः ॥
 
 
Line १८८ ⟶ २००:
तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥११
 
व्याख्यातेयं ‘रोहिच्छ्यावा' इति वर्गे ( ऋ. सं. १. १००. १९ )। इन्द्रः सर्वेष्वहःस्वस्माकं पक्षपातेन वक्ता भवतु । वयं चाकुटिलगतयः सन्त इन्द्रेण दत्तमन्नं लभामहे । यदस्माभिः प्रार्थितम् अस्मदीयं तन्मित्रादयः पूजितं कुर्वन्तु ॥ ॥ १५ ॥
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१०२" इत्यस्माद् प्रतिप्राप्तम्