"ऋग्वेदः सूक्तं १.१०४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. इन्द्रः। त्रिष्टुप्
}}
<poem><span style="font-size: 14pt; line-height:200%">
<div class="verse">
<pre>
योनिष्ट इन्द्र निषदे अकारि तमा नि षीद स्वानो नार्वा ।
विमुच्या वयोऽवसायाश्वान्दोषा वस्तोर्वहीयसः प्रपित्वे ॥१॥
 
ओ त्ये नर इन्द्रमूतये गुर्नू चित्तान्सद्यो अध्वनो जगम्यात् ।
देवासो मन्युं दासस्य श्चम्नन्ते न आ वक्षन्सुविताय वर्णम् ॥२॥
 
अव त्मना भरते केतवेदा अव त्मना भरते फेनमुदन् ।
क्षीरेण स्नातः कुयवस्य योषे हते ते स्यातां प्रवणे शिफायाः ॥३॥
 
युयोप नाभिरुपरस्यायोः प्र पूर्वाभिस्तिरते राष्टि शूरः ।
अञ्जसी कुलिशी वीरपत्नी पयो हिन्वाना उदभिर्भरन्ते ॥४॥
 
प्रति यत्स्या नीथादर्शि दस्योरोको नाच्छा सदनं जानती गात् ।
अध स्मा नो मघवञ्चर्कृतादिन्मा नो मघेव निष्षपी परा दाः ॥५॥
 
स त्वं न इन्द्र सूर्ये सो अप्स्वनागास्त्व आ भज जीवशंसे ।
मान्तरां भुजमा रीरिषो नः श्रद्धितं ते महत इन्द्रियाय ॥६॥
 
अधा मन्ये श्रत्ते अस्मा अधायि वृषा चोदस्व महते धनाय ।
मा नो अकृते पुरुहूत योनाविन्द्र क्षुध्यद्भ्यो वय आसुतिं दाः ॥७॥
 
मा नो वधीरिन्द्र मा परा दा मा नः प्रिया भोजनानि प्र मोषीः ।
आण्डा मा नो मघवञ्छक्र निर्भेन्मा नः पात्रा भेत्सहजानुषाणि ॥८॥
 
अर्वाङेहि सोमकामं त्वाहुरयं सुतस्तस्य पिबा मदाय ।
उरुव्यचा जठर आ वृषस्व पितेव नः शृणुहि हूयमानः ॥९॥
 
 
</span></poem>
 
 
 
{{सायणभाष्यम्|
‘ योनिः' इति नवर्चम् एकादशं सूक्तं कुस्सस्यार्षं त्रैष्टुभम् ऐन्द्रम् । 'योनिर्नव' इत्यनुक्रान्तम् । सूक्तविनियोगो लैङ्गिकः ॥
 
 
योनि॑ष्ट इंद्र नि॒षदे॑ अकारि॒ तमा नि षी॑द स्वा॒नो नार्वा॑ ।
 
वि॒मुच्या॒ वयो॑ऽव॒सायाश्वां॑दो॒षा वस्तो॒र्वही॑यसः प्रपि॒त्वे ॥१
 
योनिः॑ । ते॒ । इ॒न्द्र॒ । नि॒ऽसदे॑ । अ॒का॒रि॒ । तम् । आ । नि । सी॒द॒ । स्वा॒नः । न । अर्वा॑ ।
 
वि॒ऽमुच्य॑ । वयः॑ । अ॒व॒ऽसाय॑ । अश्वा॑न् । दो॒षा । वस्तोः॑ । वही॑यसः । प्र॒ऽपि॒त्वे ॥१
 
योनिः । ते । इन्द्र । निऽसदे । अकारि । तम् । आ । नि । सीद । स्वानः । न । अर्वा ।
 
विऽमुच्य । वयः । अवऽसाय । अश्वान् । दोषा । वस्तोः । वहीयसः । प्रऽपित्वे ॥१
 
हे “इन्द्र “योनिः वेद्याख्य स्थानं ते तव “निषदे निषदनाय उपवेशनाय “अकारि कृतमस्माभिः प्रकल्पितमभूत् । “तं योनिम् “आ “नि "षीद शीघ्रमागत्य तत्रोपविश । शीघ्रागमने दृष्टान्तः । “स्वानो "नार्वा । अर्वा इति अश्वनाम । यथाश्वः स्वानो हेषाशब्दं कुर्वन् स्वकीयं स्थानं शीघ्रमागच्छति तद्वत् । किं कृत्वा । “वयः अश्वबन्धनार्थान् रश्मीन् “विमुच्य रथाद्विश्लिष्य तथा “अश्वान् रथे योजितांश्च तुरगान् “अवसाय विमुच्य । अत्र निरुक्तम्-' अवसायाश्वानिति स्यतिरुपसृष्टो विमोचने ' (निरु. १. १७ ) इति । कीदृशानश्वान् । “प्रपित्वे यागकाले प्राप्ते । ‘ प्रपित्वे प्राप्तेऽभीकेऽभ्यक्ते' ( निरु. ३. २० ) इति यास्कः । “दोषा रात्रौ “वस्तोः अहनि च “वहीयसः आदरातिशयेन वोढॄन् । निषदे । सदेः संपदादिलक्षणो भावे क्विप्। स्वानः । ‘स्यमु स्वन ध्वन शब्दे' । बहुलवचनात् कर्तरि घरञ् । 'कर्षात्वतः° ' इत्यन्तोदात्तत्वम् । वयः । वियन्ति रथेन सह संगच्छन्ते इति विशब्देन रश्मयः उच्यन्ते । वी गत्यादिषु । औणादिकः इप्रत्ययः टिलोपश्च । द्वितीयार्थे प्रथमा । अवसाय ।' षो अन्तकमर्णि '।आदेचः° ' इति आत्वम् ।' समासेऽनञ्पूर्वे॰ ' इति क्त्वो ल्यबादेशः । वहीयसः । ‘ वह प्रापणे ' । तृजन्तात् वोढृशब्दात् ‘तुश्छन्दसि ' इति ईयसुन् । ' तुरिष्ठेमेयःसु ' इति तृलोपे कर्तव्ये ढत्वधत्वष्टुत्वढलोपानामसिद्धत्वात् तदाश्रितस्य ओत्वस्याप्यभावे तृलोप एव क्रियते ॥
 
 
ओ त्ये नर॒ इंद्र॑मू॒तये॑ गु॒र्नू चि॒त्तान्त्स॒द्यो अध्व॑नो जगम्यात् ।
 
दे॒वासो॑ म॒न्युं दास॑स्य श्चम्नं॒ते न॒ आ व॑क्षन्त्सुवि॒ताय॒ वर्णं॑ ॥२
 
ओ इति॑ । त्ये । नरः॑ । इन्द्र॑म् । ऊ॒तये॑ । गुः॒ । नु । चि॒त् । तान् । स॒द्यः । अध्व॑नः । ज॒ग॒म्या॒त् ।
 
दे॒वासः॑ । म॒न्युम् । दास॑स्य । श्च॒म्न॒न् । ते । नः॒ । आ । व॒क्ष॒न् । सु॒वि॒ताय॑ । वर्ण॑म् ॥२
 
ओ इति । त्ये । नरः । इन्द्रम् । ऊतये । गुः । नु । चित् । तान् । सद्यः । अध्वनः । जगम्यात् ।
 
देवासः । मन्युम् । दासस्य । श्चम्नन् । ते । नः । आ । वक्षन् । सुविताय । वर्णम् ॥२
 
“त्ये ते “नरः यज्ञस्य नेतारो यजमानाः “ऊतये रक्षणाय “इन्द्रम् "ओ । आ उ इत्येतन्निपातद्वयसमुदायः आकारार्थः । आ “गुः आगच्छन्ति । स चेन्द्र आगतान् “तान् "नू "चित् क्षिप्रं “सद्यः तदानीमेव “अध्वनः अनुष्ठानमार्गान् “जगम्यात् गमयतु प्रापयतु । "देवासः सर्वे देवाः "दासस्य उपक्षपयितुः असुरस्य "मन्युं क्रोधं “श्चम्नन् भक्षयन्तु हिंसन्त्वित्यर्थः । अपि च “ते देवाः “नः अस्माकं “सुविताय सुष्ठु प्राप्तव्याय यज्ञाय “वर्णम् अनिष्टनिवारकमिन्द्रम् “आ “वक्षन् आवहन्तु आनयन्तु ॥ जगम्यात् । गमेः अन्तर्भावितण्यर्थात् लिङि बहुलं छन्दसि ' इति शपः श्लुः । श्चम्नन् । चमु अदने '। लेटि व्यत्ययेन श्ना । शकारोपजनश्छान्दसः । यद्वा । श्चम्नातिः प्रकृत्यन्तरं हिंसार्थं द्रष्टव्यम् । वक्षन् । 'वह प्रापणे ' । लेटि सिब्बहुलं लेटि' इति सिप् । ढत्वकत्वषत्वानि । सुविताय । सुपूर्वादेतेः कर्मणि निष्ठा । तन्वादित्वात् उवङ् । ‘सूपमानात् क्तः' इत्युत्तरपदान्तोदात्तत्वम् । वर्णम् । ‘वृञ् वरणे' । अस्मादन्तर्भावितण्यर्थात् ‘ कॄजॄवृसिद्रुपन्यनिस्वपिभ्यो निच्च ' ( उ. सू. ३. २९० ) इति नप्रत्ययः । नित्त्वादाद्युदात्तत्वम् ॥
 
 
अव॒ त्मना॑ भरते॒ केत॑वेदा॒ अव॒ त्मना॑ भरते॒ फेन॑मु॒दन् ।
 
क्षी॒रेण॑ स्नातः॒ कुय॑वस्य॒ योषे॑ ह॒ते ते स्या॑तां प्रव॒णे शिफा॑याः ॥३
 
अव॑ । त्मना॑ । भ॒र॒ते॒ । केत॑ऽवेदाः । अव॑ । त्मना॑ । भ॒र॒ते॒ । फेन॑म् । उ॒दन् ।
 
क्षी॒रेण॑ । स्ना॒तः॒ । कुय॑वस्य । योषे॒ इति॑ । ह॒ते इति॑ । ते इति॑ । स्या॒ता॒म् । प्र॒व॒णे । शिफा॑याः ॥३
 
अव । त्मना । भरते । केतऽवेदाः । अव । त्मना । भरते । फेनम् । उदन् ।
 
क्षीरेण । स्नातः । कुयवस्य । योषे इति । हते इति । ते इति । स्याताम् । प्रवणे । शिफायाः ॥३
 
 
 
यु॒योप॒ नाभि॒रुप॑रस्या॒योः प्र पूर्वा॑भिस्तिरते॒ राष्टि॒ शूरः॑ ।
 
अं॒ज॒सी कु॑लि॒शी वी॒रप॑त्नी॒ पयो॑ हिन्वा॒ना उ॒दभि॑र्भरंते ॥४
 
यु॒योप॑ । नाभिः॑ । उप॑रस्य । आ॒योः । प्र । पूर्वा॑भिः । ति॒र॒ते॒ । राष्टि॑ । शूरः॑ ।
 
अ॒ञ्ज॒सी । कु॒लि॒शी । वी॒रऽप॑त्नी । पयः॑ । हि॒न्वा॒नाः । उ॒दऽभिः॑ । भ॒र॒न्ते॒ ॥४
 
युयोप । नाभिः । उपरस्य । आयोः । प्र । पूर्वाभिः । तिरते । राष्टि । शूरः ।
 
अञ्जसी । कुलिशी । वीरऽपत्नी । पयः । हिन्वानाः । उदऽभिः । भरन्ते ॥४
 
 
 
प्रति॒ यत्स्या नीथाद॑र्शि॒ दस्यो॒रोको॒ नाच्छा॒ सद॑नं जान॒ती गा॑त् ।
 
अध॑ स्मा नो मघवंचर्कृ॒तादिन्मा नो॑ म॒घेव॑ निष्ष॒पी परा॑ दाः ॥५
 
प्रति॑ । यत् । स्या । नीथा॑ । अद॑र्शि । दस्योः॑ । ओकः॑ । न । अच्छ॑ । सद॑नम् । जा॒न॒ती । गा॒त् ।
 
अध॑ । स्म॒ । नः॒ । म॒घ॒ऽव॒न् । च॒र्कृ॒तात् । इत् । मा । नः॒ । म॒घाऽइ॑व । नि॒ष्ष॒पी । परा॑ । दाः॒ ॥५
 
प्रति । यत् । स्या । नीथा । अदर्शि । दस्योः । ओकः । न । अच्छ । सदनम् । जानती । गात् ।
 
अध । स्म । नः । मघऽवन् । चर्कृतात् । इत् । मा । नः । मघाऽइव । निष्षपी । परा । दाः ॥५
 
 
 
स त्वं न॑ इंद्र॒ सूर्ये॒ सो अ॒प्स्व॑नागा॒स्त्व आ भ॑ज जीवशं॒से ।
 
मांत॑रां॒ भुज॒मा री॑रिषो नः॒ श्रद्धि॑तं ते मह॒त इं॑द्रि॒याय॑ ॥६
 
सः । त्वम् । नः॒ । इ॒न्द्र॒ । सूर्ये॑ । सः । अ॒प्ऽसु । अ॒ना॒गाः॒ऽत्वे । आ । भ॒ज॒ । जी॒व॒ऽशं॒से ।
 
मा । अन्त॑राम् । भुज॑म् । आ । रि॒रि॒षः॒ । नः॒ । श्रद्धि॑तम् । ते॒ । म॒ह॒ते । इ॒न्द्रि॒याय॑ ॥६
 
सः । त्वम् । नः । इन्द्र । सूर्ये । सः । अप्ऽसु । अनागाःऽत्वे । आ । भज । जीवऽशंसे ।
 
मा । अन्तराम् । भुजम् । आ । रिरिषः । नः । श्रद्धितम् । ते । महते । इन्द्रियाय ॥६
 
 
 
अधा॑ मन्ये॒ श्रत्ते॑ अस्मा अधायि॒ वृषा॑ चोदस्व मह॒ते धना॑य ।
 
मा नो॒ अकृ॑ते पुरुहूत॒ योना॒विंद्र॒ क्षुध्य॑द्भ्यो॒ वय॑ आसु॒तिं दाः॑ ॥७
 
अध॑ । म॒न्ये॒ । श्रत् । ते॒ । अ॒स्मै॒ । अ॒धा॒यि॒ । वृषा॑ । चो॒द॒स्व॒ । म॒ह॒ते । धना॑य ।
 
मा । नः॒ । अकृ॑ते । पु॒रु॒ऽहू॒त॒ । योनौ॑ । इन्द्र॑ । क्षुध्य॑त्ऽभ्यः । वयः॑ । आ॒ऽसु॒तिम् । दाः॒ ॥७
 
अध । मन्ये । श्रत् । ते । अस्मै । अधायि । वृषा । चोदस्व । महते । धनाय ।
 
मा । नः । अकृते । पुरुऽहूत । योनौ । इन्द्र । क्षुध्यत्ऽभ्यः । वयः । आऽसुतिम् । दाः ॥७
 
 
 
मा नो॑ वधीरिंद्र॒ मा परा॑ दा॒ मा नः॑ प्रि॒या भोज॑नानि॒ प्र मो॑षीः ।
 
आं॒डा मा नो॑ मघवंछक्र॒ निर्भे॒न्मा नः॒ पात्रा॑ भेत्स॒हजा॑नुषाणि ॥८
 
मा । नः॒ । व॒धीः॒ । इ॒न्द्र॒ । मा । परा॑ । दाः॒ । मा । नः॒ । प्रि॒या । भोज॑नानि । प्र । मो॒षीः॒ ।
 
आ॒ण्डा । मा । नः॒ । म॒घ॒ऽव॒न् । श॒क्र॒ । निः । भे॒त् । मा । नः॒ । पात्रा॑ । भे॒त् । स॒हऽजा॑नुषाणि ॥८
 
मा । नः । वधीः । इन्द्र । मा । परा । दाः । मा । नः । प्रिया । भोजनानि । प्र । मोषीः ।
 
आण्डा । मा । नः । मघऽवन् । शक्र । निः । भेत् । मा । नः । पात्रा । भेत् । सहऽजानुषाणि ॥८
 
 
 
अ॒र्वाङेहि॒ सोम॑कामं त्वाहुर॒यं सु॒तस्तस्य॑ पिबा॒ मदा॑य ।
 
उ॒रु॒व्यचा॑ ज॒ठर॒ आ वृ॑षस्व पि॒तेव॑ नः शृणुहि हू॒यमा॑नः ॥९
 
अ॒र्वाङ् । आ । इ॒हि॒ । सोम॑ऽकामम् । त्वा॒ । आ॒हुः॒ । अ॒यम् । सु॒तः । तस्य॑ । पि॒ब॒ । मदा॑य ।
 
उ॒रु॒ऽव्यचाः॑ । ज॒ठरे॑ । आ । वृ॒ष॒स्व॒ । पि॒ताऽइ॑व । नः॒ । शृ॒णु॒हि॒ । हू॒यमा॑नः ॥९
 
अर्वाङ् । आ । इहि । सोमऽकामम् । त्वा । आहुः । अयम् । सुतः । तस्य । पिब । मदाय ।
 
उरुऽव्यचाः । जठरे । आ । वृषस्व । पिताऽइव । नः । शृणुहि । हूयमानः ॥९
 
 
}}
</pre>
</div>
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१०४" इत्यस्माद् प्रतिप्राप्तम्