"ऋग्वेदः सूक्तं १.१०४" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
 
क्षीरेण । स्नातः । कुयवस्य । योषे इति । हते इति । ते इति । स्याताम् । प्रवणे । शिफायाः ॥३
 
“केतवेदाः केतं ज्ञातं वेदः परेषां धनं येन स तादृशः कुयवनामासुरः “त्मना आत्मना स्वयमेव “अव “भरते ज्ञातं परेषां धनमपहरति । अपि च सोऽसुरः “उदन् उदकेऽन्तर्वर्तमानः सन् 'फेनं फेनयुक्तमुदकमात्मना स्वयमेव “अव “भरते अपहरति । “क्षीरेण क्षरणशीलेन तेनापहृतेनोदकेन “कुयवस्य असुरस्य "योषे भार्ये “स्नातः स्नानं कुर्वाते । तादृश्यौ स्त्रियौ “शिफायाः । शिफा नाम नदी । तस्याः “प्रवणे निम्ने प्रवेष्टुमशक्येऽगाधप्रदेशे “हते नष्टे “स्यातां भवेताम् । हे इन्द्र त्वं परेषां धनमपहृत्य अन्यैर्दुरवगाहे उदकस्य मध्ये वर्तमानं कुयवं सकुटुम्बमवधीरित्यर्थः ॥ त्मना । ‘ मन्त्रेष्वाङ्यादेरात्मनः । इत्याकारलोपः । भरते। 'हृञ् हरणे'। हृग्रहोर्भः ० ' इति भत्वम् । केतवेदाः । ‘ कित ज्ञाने'। कर्मणि घञ् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । उदन् । ‘पद्दन्' इत्यादिनोदकशब्दस्य उदन्नादेशः । ‘ सुपां सुलुक्' इति सप्तम्या लुक् ॥
 
 
अञ्जसी । कुलिशी । वीरऽपत्नी । पयः । हिन्वानाः । उदऽभिः । भरन्ते ॥४
 
“उपरस्य उदकमध्ये उप्तस्य अवस्थितस्य “आयोः परेषामुपद्रवार्थमितस्ततो गच्छतः कुयवस्यासुरस्य “नाभिः संनद्धम् आवसनस्थानं "युयोप गूढमासीत् । यथान्यैर्न दृश्यते सोऽसुरस्तथाकरोदित्यर्थः । अपि च "पूर्वाभिः पूरयित्रीभिरात्मनापहृताभिरद्भिः “प्र “तिरते सोऽसुरः प्रवर्धते । स च “शूरः शौर्योपेतः “राष्टि राजते च । आत्मीयेन शौर्येण लोके प्रख्यातो भवतीत्यर्थः। तमिममसुरम् “अञ्जसी आञ्जस्योपेता “कुलिशी कुलं शातयन्ती “वीरपत्नी वीरस्य पालयित्री एतत्संज्ञिकास्तिस्रो नद्यः “पयः पयसा तत्संबन्धिना सारभूतेनोदकेन “हिन्वानाः प्रीणयन्त्यः “उदभिः आत्मीयैरुदकैः “भरन्ते धारयन्ति ।। युयोप । ‘युप विमोहने ' । नाभिः । “नहो भश्च ' ( उ. सू. ४. ५६५ ) इति इञ्प्रत्ययः । राष्टि। ‘राजृ दीप्तौ । ‘ बहुलं छन्दसि ' इति शपो लुक् । व्रश्चादिना षत्वे ष्टुत्वम् । पयः । ‘ सुपां सुलुक्° ' इति तृतीयाया लुक् । हिन्वानाः । हिविः प्रीणनार्थः । इदित्त्वात् नुम् । अस्मात्ताच्छीलिकश्चानश् । आगमानुशासनस्यानित्यत्वात् मुगभावः । चानशो लसार्वधातुकत्वाभावात् तत्स्वराभावे चित्स्वर एव शिष्यते ॥
 
 
अध । स्म । नः । मघऽवन् । चर्कृतात् । इत् । मा । नः । मघाऽइव । निष्षपी । परा । दाः ॥५
 
“यत् यदा “नीथा नयनहेतुभूता "स्या सा पदवी “प्रति “अदर्शि अस्माभिर्दृष्टाभूत् सा च पदवी “दस्योः उपक्षपयितुः कुयवस्यासुरस्य “सदनं गृहम् “अच्छ आभिमुख्येन गात् गता प्राप्ता । तत्र दृष्टान्तः । “जानती स्वकीयं वत्सम् अभिजानती गौः “ओको "न निवासस्थानं स्वकीयं गोष्ठं यथा ऋजु प्राप्नोति । तद्वन्मार्गोऽप्यसुरगृहं प्राप्त इत्यर्थः । “अध “स्म अथानन्तरमेव हे “मघवन् धनवन्निन्द्र “चर्कृतात् पुनःपुनस्तेनासुरेण कृतादुपद्रवात् “नः अस्मान् रक्षेति शेषः । इत् इत्यवधारणे । अस्मान् रक्षैव “नः अस्मान् “मा "परा "दाः मा परित्याक्षीः । अस्माभिर्ज्ञातेन मार्गेण गत्वा अस्मदुपद्रवकारिणमसुरं जहीति तात्पर्यार्थः । तत्र व्यतिरेके दृष्टान्तोऽभिधीयते । “मघेव “निष्षपी । यथा विनिर्गतसपो विनिर्गतशेपः यथेष्टचारी दासीपतिः मघेव यथा धनान्यस्थाने परित्यजति तथास्मान् मा परित्याक्षीरित्यर्थः । अत्र निरुक्तं-निष्पपी स्त्रीकामो भवति विनिर्गतसपः। सपः सपतेः स्पृशतिकर्मणः। मा नो मघेव निष्षपी परा दाः । स यथा धनानि विभजति मा नस्त्वं तथा परा दाः' (निरु. ५.१६) इति ॥ नीथा । ‘णीञ् प्रापणे '। हनिकुषिनीरमिकाशिभ्यः क्थन् ' इति करणे क्थन्प्रत्ययः । गात् । एतेर्लुङि ‘ इणो गा लुङि' इति गादेशः । ‘ गातिस्था' इति सिचो लुक् । बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । चर्कृतात् । करोतेर्यङ्लुगन्तात् ‘निष्ठा ' इति क्तप्रत्ययः । मघाऽइव । ‘शेश्छन्दसि । इति शेर्लोपः ।' निष्षपी। ' षप समवाये । सपति समवैति योन्या संगच्छते इति सपः शेपः । पचाद्यच् । निर्गतो नित्योद्धृतः सपः शेपो यस्य स स्त्रीव्यसनी निष्षपः । वर्णव्यापत्त्या ईकारः । दाः । ‘डुदाञ् दाने' । लुङि ‘ गातिस्था' इति सिचो लुक् । ‘न माड्योगे ' इत्यडभावः ॥ ॥ १८ ॥
 
 
मा । अन्तराम् । भुजम् । आ । रिरिषः । नः । श्रद्धितम् । ते । महते । इन्द्रियाय ॥६
 
हे “इन्द्र “सः “त्वं “नः अस्मान् “सूर्ये सर्वस्य प्रेरके आदित्ये "आ "भज आभाजय आभिमुख्येन भक्तान" संभक्तान् कुरु । तथा “सः त्वम् “अप्सु अब्देवतासु अस्मानाभाजय । अपि च "जीवशंसे जीवैः प्राणिभिः शंसनीये कामयितव्ये “अनागास्त्वे अपापत्वे पापरहित्येऽस्मानाभाजय । अपि च “नः अस्माकम् “अन्तरां गर्भरूपेण अन्तर्वर्तमानां “भुजं पालयित्रीं प्रजाम् "आ समन्तात् “मा “रीरिषः मा हिंसीः। “ते तव “महते प्रभूताय “इन्द्रियाय बलाय “श्रद्धितम् अस्माभिः श्रद्धानं कृतम् । त्वदीयं बलं बहुमानपूर्वकं स्तुम इत्यर्थः। तस्मात्तादृशबलयुक्तस्त्वं मा रीरिष इति पूर्वेण संबन्धः ॥ अनागास्त्वे । न विद्यते आगः पापं यस्य सोऽनागाः । तस्य भावस्तत्त्वम् । छान्दस उपधादीर्घः । जीवशंसे । 'शंसु स्तुतौ'। कर्मणि घञ्। थाथादिना उत्तरपदान्तोदात्तत्वम् । भुजम् । भुनक्ति पालयतीति भुक् प्रजा। क्विप् । रीरिषः । ‘रिष हिंसायाम्' । स्वार्थे ण्यन्तात् अस्मात् लुङि चङि णिलोपे उपधाह्रस्वत्वादीनि । छान्दसं पदकालीनमभ्यासह्रस्वत्वम् । श्रद्धितम् । श्रच्छब्दस्य ऊर्यादित्वेन ( पा. सू. १. ४. ६१ ) गतित्वात् ‘ गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरत्वम् ॥
 
 
मा । नः । अकृते । पुरुऽहूत । योनौ । इन्द्र । क्षुध्यत्ऽभ्यः । वयः । आऽसुतिम् । दाः ॥७
 
हे इन्द्र “अध अथ अनन्तरं “मन्ये त्वां मनसा जानामि । “ते तव "अस्मै बलाय “श्रत् “अधायि अस्माभिः श्रद्धा कृता । त्वदीयबलविषयमादरातिशयेन स्तोत्रं कृतमित्यर्थः । “वृषा कामानां वर्षिता स त्वं “महते प्रौढाय “धनाय "चोदस्व चोदय अस्मान् प्रेरय । हे “पुरुहूत पुरुभिर्बहुभिर्यजमानैराहूत इन्द्र "अकृते अनिष्पादिते धनशून्ये “योनौ । गृहनामैतत् । गृहे “नः अस्मान् “मा धाः निधेहि । धनधान्यपूर्णे गृहेऽस्मान् वासयेत्यर्थः । अपि च हे “इन्द्र “क्षुध्यद्भ्यो बुभुक्षितेभ्योऽन्येभ्योऽपि स्तोतृभ्यः “वयः अन्नम् “आसुतिं पेयं क्षीरादिकं च “दाः देहि ॥ अधायि । दधातेः कर्मणि लुङि च्लेश्चिण् । ‘ आतो युक् चिण्कृतोः' इति युक् । क्षुध्यद्भ्यः । ‘ क्षुध बुभुक्षायाम्' । दिवादित्वात् श्यन् । नित्त्वादाद्युदात्तत्वम् ॥
 
 
आण्डा । मा । नः । मघऽवन् । शक्र । निः । भेत् । मा । नः । पात्रा । भेत् । सहऽजानुषाणि ॥८
 
हे “इन्द्र “नः अस्मान् “मा “वधीः मा हिंसीः । सर्वदा रक्षेत्यर्थः । अपि च “मा “परा "दाः मा परित्याक्षीः । परादानं परित्यागः । अस्मत्कृतां पूजा सर्वदा गृहाणेत्यर्थः । अपि च “नः अस्माकं "प्रिया प्रियाणीप्सितानि “भोजनानि उपभोग्यानि धनानि “मा “प्र “मोषीः मापहार्षीः। अस्मास्वेव धनानि यथा स्युस्तथा कुर्वित्यर्थः । तथा हे "मघवन् धनवन् “शक्र सर्वकार्यशक्तेन्द्र “नः अस्माकम् “आण्डा अण्डसंबन्धीनि गर्भरूपेण निषिक्तान्यपत्यानि “मा “भेत् मा भिनः । गर्भरूपेणावस्थितान् अस्मत्पुत्रान् रक्षेत्यर्थः । “मा च “नः “पात्रा । पतन्ति गच्छन्ति गमनसमर्थानि यानि तान्यपत्यानि पात्राणि । तानि च मा “भेत् मा भिदः । “सहजानुषाणि । जानुभ्यां यानि भूमिं सनन्ति गच्छन्तीत्यर्थः । तानि जानुषाणि । तैः सहितानि मा विनीनशः । वधीः । हन्तेर्माङि लुङि च ' इति वधादेशः । स चादन्तः । सिच् । अतो लोपः' इत्यकारलोपः । तस्य स्थानिवद्भावात् ‘ अतो हलादेः' इति वृद्ध्यभावः । ‘ इट ईटि' इति सिचो लोपः । मोषीः । ‘ मुष स्तेये ' । लुङि सिचः इट् । नेटि ' इति वृद्धिप्रतिषेधः । भेत् ।' भिदिर् विदारणे' । लङि सिपि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । लघूपधगुणः ।' हल्ङ्याब्भ्यः ' इति सिपो लोपः
 
 
माध्यंदिने सवने ‘अर्वाङेहि ' इत्येषा पोतुः प्रस्थितयाज्या । सूत्रितं च-अर्वाङेहि सोमकामं त्वाहुस्तवायं सोमस्त्वमेह्यर्वाङ्' ( आश्व. श्रौ. ५. ५) इति ॥
 
अ॒र्वाङेहि॒ सोम॑कामं त्वाहुर॒यं सु॒तस्तस्य॑ पिबा॒ मदा॑य ।
उरुऽव्यचाः । जठरे । आ । वृषस्व । पिताऽइव । नः । शृणुहि । हूयमानः ॥९
 
हे इन्द्र त्वम् “अर्वाङ् अस्मदभिमुखः सन् “एहि आगच्छ । किं कारणमिति चेत् यस्मात्त्वां “सोमकामं सोमविषयाभिलाषम् “आहुः पुराविदः कथयन्ति ।“अयम् अस्मदीयः सोमः “सुतः ऋत्विग्भिरभिषुतः। अत आगच्छेत्यर्थः । आगत्य च "मदाय हर्षार्थं “तस्य तम् अस्मदीयमभिषुतं सोमं “पिब । एतदेव स्पष्टीक्रियते । “उरुव्यचाः उरु विस्तीर्णं व्यचो व्यापनं यस्य तादृशो महावयवो भूत्वा “जठरे आत्मीये उदरे “आ “वृषस्व सोममासिञ्च । आ समन्तात् पूरयेत्यर्थः । एवंभूतस्त्वं "हूयमानः स्तुतिभिराहूयमानः सन् "पितेव पुत्राणां वाक्यानि शृणोति तथा “नः अस्माकं वाक्यानि “शृणुहि शृणु ॥ सोमकामम् । सोमविषयः कामः अभिलाषो यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । आहुः । ‘ ब्रुवः पञ्चानामादित आहो ब्रुवः' (पा. सू. ३. ४.८४) इति झेः उसादेशः धातोराहादेशश्च । तस्य । क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वात् चतुर्थ्यर्थे षष्ठी । मदाय । ‘मदी हर्षे'। मदोऽनुपसर्गे' इति भावे अप् । उरुव्यचाः । ‘ व्यच व्याजीकरणे'। औणादिकः असिप्रत्ययः । व्यचेः कुटादित्वमनसि' (का. १. २. १. १ ) इति वचनात् ङित्त्वाभावेन संप्रसारणाभावः । परादिश्छन्दसि बहुलम् ' इत्युत्तरपदाद्युदात्तत्वम् । यद्वा । उरु विचति व्याप्नोतीति उरुव्यचाः । कृदुत्तरपदप्रकृतिस्वरत्वम् । वृषस्व । वृष सेचने'। व्यत्ययेनात्मनेपदशप्रत्ययौ । शृणुहि ।' उतश्च प्रत्ययाच्छन्दसि वावचनम् इति हेर्लुगभावः ॥ ॥ १९ ॥
 
}}
 
३३,९९०

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/183379" इत्यस्माद् प्रतिप्राप्तम्