"ऋग्वेदः सूक्तं ३.३२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५०:
 
{{ऋग्वेदः मण्डल ३}}
 
== ==
{{सायणभाष्यम्|
‘इन्द्र सोमं सोमपते ' इति सप्तदशर्चं तृतीयं सूक्तं वैश्वामित्रं त्रैष्टुभमैन्द्रम् । अनुक्रान्तं च-- ‘इन्द्र सोमं त्र्यूना' इति । पृष्ठ्याभिप्लवषडहयोर्द्वितीयेऽहनि मरुत्वतीये ‘इन्द्र सोमम्' इतीदं सूक्तं निविद्धानीयम् । द्वितीयस्य' इति खण्डे सूत्रितम्- इन्द्र सोमं या त ऊतिरवमेति मध्यंदिनः ' ( आश्व. श्रौ. ७. ६ ) इति । गोसवविवधयोरपि मरुत्वतीयशस्त्र एतत्सूक्तम् । सूत्रितं च– इन्द्र सोममेतयामेति मध्यंदिनः' ( आश्व. श्रौ. ९.८) इति । उद्भिद्वलभिदोरपि मरुत्वतीय एतत्सूक्तम् । सूत्रितं च -- इन्द्र सोममिन्द्रः पूर्भिदिति मध्यंदिनः ' ( आश्व. श्रौ. ९.८) इति ॥
पङ्क्तिः ६१:
इन्द्र॑ । सोम॑म् । सो॒म॒ऽप॒ते॒ । पिब॑ । इ॒मम् । माध्य॑न्दिनम् । सव॑नम् । चारु॑ । यत् । ते॒ ।
 
प्र॒ऽप्रुथ्य॑ । शिप्रे॒ इति॑ । म॒घ॒ऽव॒न् । ऋ॒जी॒षि॒न् । वि॒ऽमुच्य॑ । हरी॒ इति॑ । इ॒ह । मा॒द॒य॒स्व॒ ॥१
 
इन्द्र । सोमम् । सोमऽपते । पिब । इमम् । माध्यन्दिनम् । सवनम् । चारु । यत् । ते ।
 
प्रऽप्रुथ्य । शिप्रे इति । मघऽवन् । ऋजीषिन् । विऽमुच्य । हरी इति । इह । मादयस्व ॥१
 
विश्वामित्रो ब्रूते । "सोमपते सोमस्याधिपते हे “इन्द्र "इमम् अस्माभिर्माध्यंदिने सवने क्रियमाणं “सोमं सोमरसं “पिब । "यत् यस्मात् "ते त्वदर्थं क्रियमाणं "माध्यंदिनं मध्यंदिनसंबन्धि "सवनं निष्केवल्याख्यं शस्त्रं “चारु रमणीयं वर्तते । "मघवन् धनवन् "ऋजीषिन् । ऋजीषशब्देन गतसारं सोमद्रव्यमुच्यते । तद्वन हे इन्द्र "हरी रथे योजित।वश्वौ रथात् विमुच्य “शिप्रे हनू “प्रप्रुथ्य अत्रत्येन ग्रासेन पूरयित्वा “इह देवयजनदेशे "मादयस्व तावश्वौ हर्षय ॥ प्रप्रुथ्य। प्रोथृ पर्याप्तौ' इत्यस्य ल्यपि रूपम् । ह्रस्वछन्दसः । लित्स्वरः । ऋजीषिन् । अर्ज षर्ज अर्जने इत्यस्मात् ‘अर्जेश्च ऋजि च ' ( उ. सू. ४.४६८) इतीषन्प्रत्ययः ऋजि इत्यादेशश्च धातोः । अर्ज्यत इत्यृजीषम् । तदस्यास्ति इति इनिप्रत्ययः । आमन्त्रितत्वान्निघातः । मादयस्व । मदि स्तुत्यादिषु । हेतुमण्णिच् । निघातः ॥
पङ्क्तिः ७६:
गोऽआ॑शिरम् । म॒न्थिन॑म् । इ॒न्द्र॒ । शु॒क्रम् । पिब॑ । सोम॑म् । र॒रि॒म । ते॒ । मदा॑य ।
 
ब्र॒ह्म॒ऽकृता॑ । मारु॑तेन । ग॒णेन॑ । स॒ऽजोषाः॑ । रु॒द्रैः । तृ॒पत् । आ । वृ॒ष॒स्व॒ ॥२
 
गोऽआशिरम् । मन्थिनम् । इन्द्र । शुक्रम् । पिब । सोमम् । ररिम । ते । मदाय ।
 
ब्रह्मऽकृता । मारुतेन । गणेन । सऽजोषाः । रुद्रैः । तृपत् । आ । वृषस्व ॥२
 
हे "इन्द्र "गवाशिरं गव्यस्य पयस आशीर्मिश्रणं यस्मिन् तं "सोमम् । अपि च "मन्थिनं मन्थसंयुक्तं "शुक्रम् अभिनवं यद्वा शुक्रामन्थिग्रहे वर्तमानम् । एवं त्रिषु सवनेषु वर्तमानमिमं सोमं "पिब । “ते तव "मदाय हर्षाय “ररिम तं सोमं वयं प्रयच्छामः । "मारुतेन । मरुतां गणो मारुतः । स च ब्रह्मकृत् । ब्रह्म स्तोत्रं करोतीति ब्रह्मकृत् । इन्द्रस्तोत्रं कुर्वाणेन मारुतेन "गणेन "रुद्रैः एकादशसंख्याकैः रुद्रैश्च "सजोषाः संगतस्त्वं तृपत् सोमपानेन तृप्यन् “आ “वृषस्व । तमिमं सर्वतो जठरे सिञ्च धारय ॥ गवाशिरं । श्रीणातेः आङ्पूर्वात् क्विपि 'अपस्पृधेथामानृचुः' इत्यादिना निपातनात् आशिरादेशः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । पिबा" । ‘द्व्यचोऽतस्तिङः' इति संहितायां दीर्घः । ररिम । रातेः छान्दसे' वर्तमाने लिटि रूपम् । असमानवाक्यत्वान्निघाताभावः। आगमा अनुदात्ताः इति इटोऽनुदात्तत्वात् प्रत्ययस्वरः । तृपत् । 'तृप प्रीणने' । तुदादिः । आगमानुशासनस्यानित्यत्वात् नुमभावः । वृषस्व । वृषु सेचने ' । व्यत्ययेन शः ॥
 
 
पङ्क्तिः ९१:
ये । ते॒ । शुष्म॑म् । ये । तवि॑षीम् । अव॑र्धन् । अर्च॑न्तः । इ॒न्द्र॒ । म॒रुतः॑ । ते॒ । ओजः॑ ।
 
माध्य॑न्दिने । सव॑ने । व॒ज्र॒ऽह॒स्त॒ । पिब॑ । रु॒द्रेभिः॑ । सऽग॑णः । सु॒ऽशि॒प्र॒ ॥३
 
ये । ते । शुष्मम् । ये । तविषीम् । अवर्धन् । अर्चन्तः । इन्द्र । मरुतः । ते । ओजः ।
 
माध्यन्दिने । सवने । वज्रऽहस्त । पिब । रुद्रेभिः । सऽगणः । सुऽशिप्र ॥३
 
हे “इन्द्र "ये “मरुतः “ते तव “शुष्मं शत्रूणां शोषकं तेजः "ये च मरुतः "तविषीं बलं च “अवर्धन् युद्धसहकारितयावर्धयन् ते मरुतः "अर्चन्तः त्वां स्तुवन्तः सन्तः “ते तव “ओजः युद्धसामर्थ्यम् अवर्धयन् । “वज्रहस्त वज्रयुक्तः हस्तः यस्येति तादृश “सुशिप्र शोभनहनो। शिप्रे हनू नासिके वा' इति यास्कः । हे इन्द्र “रुद्रेभिः । रोदयन्ति शत्रूनिति रुद्राः मरुतः । तैः “सगणः त्वं “माध्यंदिने "सवने सोमं “पिब ॥ अवर्धन् । 'वृधु वर्धने' । अन्तर्भावितण्यर्थः । यद्वृत्तयोगादनिघातः । माध्यंदिने । उत्सादित्वादञ् । ञित्त्वादाद्युदात्तः ॥
 
 
Line १०५ ⟶ १०६:
ते । इत् । नु । अ॒स्य॒ । मधु॑ऽमत् । वि॒वि॒प्रे॒ । इन्द्र॑स्य । शर्धः॑ । म॒रुतः॑ । ये । आस॑न् ।
 
येभिः॑ । वृ॒त्रस्य॑ । इ॒षि॒तः । वि॒वेद॑ । अ॒म॒र्मणः॑ । मन्य॑मानस्य । मर्म॑ ॥४
 
ते । इत् । नु । अस्य । मधुऽमत् । विविप्रे । इन्द्रस्य । शर्धः । मरुतः । ये । आसन् ।
 
येभिः । वृत्रस्य । इषितः । विवेद । अमर्मणः । मन्यमानस्य । मर्म ॥४
 
“ये "मरुतः “इन्द्रस्य “शर्धः बलभूताः “आसन् "ते “इत् त एव मरुतः “अस्य । द्वितीयार्थे षष्ठी । इममिन्द्रं “मधुमत् । तव सहाया वयमास्महे त्वं युद्धमभिगच्छेति माधुर्योपेतं वाक्यं यथा भवति तथा “विविप्रे “नु क्षिप्रं प्रैरयन् । “येभिः यैर्युद्धसहायैर्मरुद्भिः “इषितः प्रेरित इन्द्रः “अमर्मणः परैः अविदितमर्मस्थानस्य अत एव “मन्यमानस्य न कोऽपि मम हन्तेत्यभिमन्यमानस्य “वृत्रस्य असुरस्य “मर्म यस्मिन् स्थाने प्रहृतौ सत्यां स मरिष्यति तादृशं स्थानं “विवेद अज्ञासीत् ॥ विविप्रे । ‘ विप क्षेपणे ' इत्यस्य लिटि व्यत्ययेनात्मनेपदम् । इरेचः • इरयो रे' इति रे इत्यादेशः । निघातः॥ आसन् ।' अस भुवि ' इत्यस्य लङि रूपम् । यद्वृत्तयोगान्निघाताभावः । विवेद । ‘ विद ज्ञाने इत्यस्य लिटि रूपम् । लित्स्वरः । मर्म ।' मृङ् प्राणत्यागे ' इत्यस्मादौणादिको मनिन् । नित्स्वरः ॥
 
 
Line ११९ ⟶ १२१:
म॒नु॒ष्वत् । इ॒न्द्र॒ । सव॑नम् । जु॒षा॒णः । पिब॑ । सोम॑म् । शश्व॑ते । वी॒र्या॑य ।
 
सः । आ । व॒वृ॒त्स्व॒ । ह॒रि॒ऽअ॒श्व॒ । य॒ज्ञैः । स॒र॒ण्युऽभिः॑ । अ॒पः । अर्णा॑ । सि॒स॒र्षि॒ ॥५
 
मनुष्वत् । इन्द्र । सवनम् । जुषाणः । पिब । सोमम् । शश्वते । वीर्याय ।
 
सः । आ । ववृत्स्व । हरिऽअश्व । यज्ञैः । सरण्युऽभिः । अपः । अर्णा । सिसर्षि ॥५
 
हे “इन्द्र "मनुष्वत् मनोर्यज्ञमिव ममेदं “सवनं यज्ञं “जुषाणः सेवमानस्त्वं “शश्वते शाश्वताय “वीर्याय परपरिभवलक्षणाय सामर्थ्यायेमं "सोमं “पिब । हे “हर्यश्व हरितवर्णाश्वोपेत “सः तादृशस्त्वं “यज्ञैः यजनीयैः मरुद्भिः साकम् "आ “ववृत्स्व आगच्छ । किंच “सरण्युभिः एकश्रुतिमन्मन्त्रानात्मन इच्छद्धिः यद्वा सरण्युभिः सरणशीलैर्मरुद्भिः सहितस्त्वम् “अपः अन्तरिक्षस्थितान्युदकानि “अर्णा पार्थिवान्युदकानि “सिसर्षि प्रापय । यद्वा अपः । पञ्चम्यन्तमेतत्पदम् । अपो व्याप्तादन्तरिक्षात् सकाशात् अर्णांसि प्रापय ॥ ववृत्स्व । ‘ वृतु वर्तने ' । व्यत्ययेन शपः श्लुः । लोटि रूपम् । सरण्युभिः । रण शब्दार्थः । क्विप् । समानो रणो ध्वनिर्येषां ते सरणा मन्त्राः । तानिच्छन्तः । सुपः क्यच् । 'क्यात् इति उप्रत्ययः । यद्वा ‘ सृ गतौ '।' सृयुवचिभ्योऽन्युजागूजक्नुचः' (उ, सू. ३.३६१) इत्यन्युच्प्रत्ययः । ‘रषाभ्याम् ' (पा. सू. ८. ४. १ ) इति णत्वम् । चित्त्वादन्तोदात्तः । अपः । ‘ आप्लृ व्याप्तौ । आप्नोतेः क्विप् ह्रस्वश्च' इति क्विप् धातोर्ह्रस्वश्च । ‘सावेकाचः' इति विभक्तेरुदात्तत्वम् । सिसर्षि । 'सृ गतौ । छान्दसो जुहोत्यादिः । ‘ बहुलं छन्दसि ' इत्यभ्यासस्येत्वम् ॥ ॥ ९ ॥
 
 
Line १३३ ⟶ १३६:
त्वम् । अ॒पः । यत् । ह॒ । वृ॒त्रम् । ज॒घ॒न्वान् । अत्या॑न्ऽइव । प्र । असृ॑जः । सर्त॒वै । आ॒जौ ।
 
शया॑नम् । इ॒न्द्र॒ । चर॑ता । व॒धेन॑ । व॒व्रि॒ऽवांस॑म् । परि॑ । दे॒वीः । अदे॑वम् ॥६
 
त्वम् । अपः । यत् । ह । वृत्रम् । जघन्वान् । अत्यान्ऽइव । प्र । असृजः । सर्तवै । आजौ ।
 
शयानम् । इन्द्र । चरता । वधेन । वव्रिऽवांसम् । परि । देवीः । अदेवम् ॥६
 
हे “इन्द्र “त्वं “देवीः देवनशीलाः "अपः “परि “वव्रिवांसं परित आवृत्य वर्तमानमत एव “अदेवं बहूदकतयास्वच्छत्वेनाप्रतिभासमानं “शयानम् एकत्र निश्चलतया वर्तमानं “वृत्रं मेघं “यत् यदा “चरता तमुद्दिश्य वर्तमानेन "वधेन युद्धेन "जघन्वान् हतवानसि तदा त्वम् "आजौ युद्धे “सर्तवै अतिवेगगमनाय “अत्यानिव यथाश्वान् प्रेरयसि तथा त्वमपः उदकान्यन्तरिक्षादाकाशात् “प्रासृजः "ह प्रकर्षेण मेघभेदनं कृत्वासृजः खलु । तं यजाम इत्युत्तरेणान्वयः ॥ जघन्वान् । ‘हन हिंसागत्योः ' इत्यस्य क्वसौ ' विभाषा गमहनविदविशाम् ' इतीटो विकल्पितत्वादत्र इडभावः । ‘ अभ्यासाच्च इति हकारस्य घत्वम् । प्रत्ययस्वरः । असृजः । ‘ सृज विसर्गे '। शविकरणी । यद्योगादनिघातः । सर्तवै । ' सृ गतौ' । तुमर्थे तवैप्रत्ययः । ‘ अन्तश्च तवै युगपत् ' इति धातोः प्रत्ययस्य चोदात्तत्वम् । आजौ ।' अज गतिक्षेपणयोः' । 'अज्यतिभ्यां च ' ( उ. सू . ४, ५७०) इति इण्प्रत्ययः । णित्त्वादुपधावृद्धिः । अजन्ति गच्छन्त्यस्मिन्नित्याजिर्युद्धम् । प्रत्ययस्वरः। सर्तवाजावित्यत्र संहितायाम् आयादेशे कृते तस्य लोपः शाकल्यस्य' इति यकारलोपः । सर्वविधीनां छन्दसि विकल्पितत्वात् सवर्णदीर्घत्वे कर्तव्ये यलोपो नासिद्धो भवति । सवर्णदीर्घः। शयानम् । ‘ शीङ स्वप्ने' । शानच् । अदादित्वाच्छ्पो लुक् । ङित्त्वाल्लसार्वधातुकस्वरेण शानचोऽनुदात्तत्वे धातुस्वरः । वधेन । हन्तेर्भावे ‘ हनश्च वधः' इत्यप्प्रत्ययो वधादेशश्च धातोरन्तोदात्तश्च । वव्रिवांसम्। ‘ वृञ् वरणे ' इत्यस्य क्वसौ इडागमश्छान्दसः । प्रत्ययस्वरः ॥
 
 
Line १४७ ⟶ १५१:
यजा॑मः । इत् । नम॑सा । वृ॒द्धम् । इन्द्र॑म् । बृ॒हन्त॑म् । ऋ॒ष्वम् । अ॒जर॑म् । युवा॑नम् ।
 
यस्य॑ । प्रि॒ये इति॑ । म॒मतुः॑ । य॒ज्ञिय॑स्य । न । रोद॑सी॒ इति॑ । म॒हि॒मान॑म् । म॒माते॒ इति॑ ॥७
 
यजामः । इत् । नमसा । वृद्धम् । इन्द्रम् । बृहन्तम् । ऋष्वम् । अजरम् । युवानम् ।
 
यस्य । प्रिये इति । ममतुः । यज्ञियस्य । न । रोदसी इति । महिमानम् । ममाते इति ॥७
 
"नमसा हविर्लक्षणेनान्नेन “वृद्धं प्रवृद्धम् अत एव “बृहन्तं महान्तम् 'ऋष्वम् । ऋष्यते गम्यते स्तुतिलक्षणैर्मन्त्रैरिति ऋष्वं स्तोतव्यम् । “अजरं जरारहितम् अत एव “युवानं नित्यतरुणम् एवंविधम् “इन्द्रं “यजाम “इत् । कुशिका वयं यज्ञसिद्ध्यर्थं स्तुतिवाक्यैः पूजयामः । “प्रिये प्रियतमे अपरिमिते “रोदसी द्यावापृथिव्यौ “यज्ञियस्य यज्ञार्हस्य “यस्य इन्द्रस्य तव “महिमानं वैभवं “न “ममतुः न परिच्छेत्तुं शक्नुतः । न “ममाते इति द्वितीयं क्रियापदमादरार्थम् ॥ यजामः । यजेर्लटि रूपम् । ऋष्वम् । ‘ ऋषी गतौ'। ‘ सर्व निघृष्वऋष्व' ' इत्यादिना वप्रत्ययान्तो निपातितः । प्रत्ययस्वरः । प्रिये । ‘ ईदूदेत्' इति प्रगृह्यसंज्ञा । ममतुः । ‘ मा माने ' इत्यस्य लिट्यतुसि रूपम् । यद्वृत्तयोगादनिघातः । प्रत्ययस्वरः । महिमानम् । महिशब्दात् तस्य भावः इत्यर्थे पृथ्वादित्दिवामनिच् । चित्स्वरः । ममाते । ‘माङ् माने शब्दे च ' इत्यस्य लिट्यातामि रूपम् ॥
 
 
Line १६१ ⟶ १६६:
इन्द्र॑स्य । कर्म॑ । सुऽकृ॑ता । पु॒रूणि॑ । व्र॒तानि॑ । दे॒वाः । न । मि॒न॒न्ति॒ । विश्वे॑ ।
 
दा॒धार॑ । यः । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । ज॒जान॑ । सूर्य॑म् । उ॒षस॑म् । सु॒ऽदंसाः॑ ॥८
 
इन्द्रस्य । कर्म । सुऽकृता । पुरूणि । व्रतानि । देवाः । न । मिनन्ति । विश्वे ।
 
दाधार । यः । पृथिवीम् । द्याम् । उत । इमाम् । जजान । सूर्यम् । उषसम् । सुऽदंसाः ॥८
 
“विश्वे सर्वे “देवाः “इन्द्रस्य तव "कर्म कर्माणि “सुकृता सुकृतानि सुष्ठु निर्मितानि पृथिव्यादीनि “पुरूणि बहूनि “व्रतानि यज्ञादीनि च “न “मिनन्ति । एतानि सर्वाणि तव कर्माणि न हिंसन्ति । किंत्वाद्रियन्ते । किंच “यः अयमिन्द्रः “पृथिवीं भूलोकं “द्यां द्युलोकम् “उत अपि च “इमाम् इममन्तरिक्षलोकं च एतांस्त्रीन् लोकान् “दाधार । 'सुदंसाः सुकर्मा शोभनकर्मा सन्निन्द्रः “सूर्यं लोकप्रकाशकमादित्यम् “उषसम् अग्निहोत्रादिकर्मनिर्वाहकमुष:कालं “जजान उत्पादयामास । ‘ इन्द्रस्य कर्म सुकृता पुरूणि ' इत्येतत्पदकदम्बकम् ‘ एको द्वे वसुमती' इत्यस्मिन् वर्गे पठितम् (ऋ. सं. ३.३०, १३)। अत्रापि तदेव पठ्यते किमिति पदकाले नोत्सृज्यत इति चेन्न । वाक्यभेदात् । तत्र ‘इन्द्रस्य कर्म सुकृता पुरूणि ' इत्येकं वाक्यम् । अत्र तु ' कर्म सुकृता ' इत्येकं वाक्यं पुरूणि व्रतानि ' इत्यपरम् । किंच तत्रत्यं पदकदम्बकं प्रथमान्तम् अत्रत्यं द्वितीयान्तम् । अतो वाक्यभेदात् विभक्तिभेदाच्च पदकाले नोत्सृज्यते ।। मिनन्ति । 'मीञ् हिंसायाम्' इत्यस्य लटि रूपम् । निघातः । दाधार । ‘ धृञ् धारणे ' इत्यस्य लिटि रूपम् । तुजादित्वात् अभ्यासस्य दीर्घः । लित्स्वरः । जजान । जन जनने ' इत्यस्यान्तर्भावितण्यर्थस्य लिटि रूपम् । लित्स्वरः । सुदंसाः । ‘ सोर्मनसी' इत्युत्तरपदाद्युदात्तत्वम् ।।
 
 
Line १७५ ⟶ १८१:
अद्रो॑घ । स॒त्यम् । तव॑ । तत् । म॒हि॒ऽत्वम् । स॒द्यः । यत् । जा॒तः । अपि॑बः । ह॒ । सोम॑म् ।
 
न । द्यावः॑ । इ॒न्द्र॒ । त॒वसः॑ । ते॒ । ओजः॑ । न । अहा॑ । न । मासाः॑ । श॒रदः॑ । व॒र॒न्त॒ ॥९
 
अद्रोघ । सत्यम् । तव । तत् । महिऽत्वम् । सद्यः । यत् । जातः । अपिबः । ह । सोमम् ।
 
न । द्यावः । इन्द्र । तवसः । ते । ओजः । न । अहा । न । मासाः । शरदः । वरन्त ॥९
 
“अद्रोघ द्रोहवर्जित हे इन्द्र “तव “तन्महित्वं तादृशं माहात्म्यं “सत्यं यथार्थम् । “यत् यस्मात् “जातः उत्पन्नः “सद्यः तदानीमेव “सोमम् अस्माभिर्दीयमानं सोमरसम् “अपिबः । “ह प्रसिद्धौ । किंच “तवसः बलवतः "ते तव “ओजः सामर्थ्यं “द्यावः दिवः दिवोपलक्षिताः सर्वे लोकाः “न “वरन्त न वारयन्ति । किंच “अहा प्रतिपदादीन्यहानि न वारयन्ति । तथा “मासाः चैत्राद्याः “शरदः संवत्सराश्च तव सामर्थ्यं न वारयन्ति। किंतु तव सामर्थ्यमनुसृत्य सर्वे वर्तन्त इति भावः ।। अद्रोघ ।' आमन्त्रितस्य च ' इति षाष्ठिकमाद्युदात्तत्वम् । अपिबः । यद्योगादनिघातः । मासाः । ‘ मसी परिमाणे ' । मस्यते परिमीयते त्रिंशता दिनैरिति मासः । कर्मणि घञ् । ञित्वादाद्युदात्तः । शरदः । ‘शॄ हिंसायाम् ' इत्यस्मात् शॄदॄभसोऽदिः' इत्यधिकरणेऽदिप्रत्ययः । शीर्यन्तेऽस्यां तृणगुल्मवनस्पतीनां तेजांसीति शरत् । प्रत्ययस्वरः । वरन्त । ‘ वृञ् वरणे ' । अन्तर्भावितण्यर्थोऽत्र निवारणे वर्तते । भौवादिकः । छान्दसे लङि रूपम् । निघातः ॥
 
 
सद्यस्क्रीनाम्न्येकाहे निष्केवल्यशस्त्रे ' त्वं सद्यो अपिबः' इति सूक्तमुखीया । सूत्रितं च -- त्वं सद्यो अपिबो जात इन्द्रानु त्वाहिघ्ने अध देव देवाः ' ( आश्व. श्रौ. ९. ५) इति ।।
 
त्वं स॒द्यो अ॑पिबो जा॒त इं॑द्र॒ मदा॑य॒ सोमं॑ पर॒मे व्यो॑मन् ।
Line १८९ ⟶ १९८:
त्वम् । स॒द्यः । अ॒पि॒बः॒ । जा॒तः । इ॒न्द्र॒ । मदा॑य । सोम॑म् । प॒र॒मे । विऽओ॑मन् ।
 
यत् । ह॒ । द्यावा॑पृथि॒वी इति॑ । आ । अवि॑वेशीः । अथ॑ । अ॒भ॒वः॒ । पू॒र्व्यः । का॒रुऽधा॑याः ॥१०
 
त्वम् । सद्यः । अपिबः । जातः । इन्द्र । मदाय । सोमम् । परमे । विऽओमन् ।
 
यत् । ह । द्यावापृथिवी इति । आ । अविवेशीः । अथ । अभवः । पूर्व्यः । कारुऽधायाः ॥१०
 
हे “इन्द्र “सद्यः तदानीमेव “जातः “परमे “व्योमन् उत्तमे स्थाने स्थितः “त्वं “मदाय हर्षाय “सोमम् “अपिबः । “यत् यदा त्वं “द्यावापृथिवी द्यावापृथिव्यौ “आविवेशीः "ह आ समन्तात् भृशं प्रविष्टोऽसि खलु । “अथ अनन्तरं "पूर्व्यः पुरातनः सन् “कारुधायाः कर्मणां विधाता “अभवः खलु । व्योमन् । अव रक्षणगत्यादिषु । विपूर्वस्यावतेः ' नामन् सीमन्' इत्यादिना मनिन् । ज्वरत्वर' इत्यादिना ऊठ् । विशेषेणौम व्याप्तिर्यस्य तत् । ‘सुपां सुलुक्' इत्यादिना सुपो लुक् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । आविवेशीः । ‘ विश प्रवेशने ' इत्यस्य यङ्लुकि लङि सिपि “यङो वा' इतीडागमः । ‘ इतश्च' इति सिप इकारलोपः । यद्योगादनिघातः । कारुधायाः । कारुः । करोतेः कृवापाजिमिस्वदिसाध्यशूभ्य उण्प्रत्ययः । णित्वााःत् वृद्धिः । दधातेः ‘वहिहाधाञ्भ्यश्छन्दसि ' इत्यसुन्। णित्' इत्यनुवृत्तेः ' आतो युक् चिण्कृतोः' इति युगागमः । समासे गति कारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च ' इति सूत्रात् पूर्वपदप्रकृतिस्वरः ॥ ॥ १० ।।
 
 
Line २०३ ⟶ २१३:
अह॑न् । अहि॑म् । प॒रि॒ऽशया॑नम् । अर्णः॑ । ओ॒जा॒यमा॑नम् । तु॒वि॒ऽजा॒त॒ । तव्या॑न् ।
 
न । ते॒ । म॒हि॒ऽत्वम् । अनु॑ । भू॒त् । अध॑ । द्यौः । यत् । अ॒न्यया॑ । स्फि॒ग्या॑ । क्षाम् । अव॑स्थाः ॥११
 
अहन् । अहिम् । परिऽशयानम् । अर्णः । ओजायमानम् । तुविऽजात । तव्यान् ।
 
न । ते । महिऽत्वम् । अनु । भूत् । अध । द्यौः । यत् । अन्यया । स्फिग्या । क्षाम् । अवस्थाः ॥११
 
“तुविजात । बहूनि जातानि पृथिव्यादीनि यस्मात सोऽयं तुविजातः । हे तुविजात इन्द्र “तव्यान् अतिशयेन प्रवृद्धस्त्वम् “अर्णः “परिशयानम् उदकं परितः शयानमुदकमन्तः कृत्वा परितो वर्तमानमत एव “ओजायमानं बलमाचरन्तम् “अहिम् । आ समन्ताद्धन्ति अपहरत्युदकमित्यहिर्मेघः । तमिमं मेघम् "अहन् उदकप्रेरणाय हतवानसि । “अध अथ “ते 'महित्वं महिमानं “द्यौः “न “अनु “भूत् नानुभवति न जानाति । “यत् यस्मात् त्वम् “अन्यया एकतरया “स्फिग्या कट्या “क्षां भूमिम् “अवस्थाः अवच्छाद्य तिष्ठसि ।। अहन् । हन्तेः लङि सिब्लोपे' रूपम्। अहिम् । “हन हिंसागत्योः । ‘ आङि श्रिहनिभ्यां ह्रस्वश्च ' इति इण्प्रत्ययः डिच्च पूर्वपदस्य” ह्रस्वश्च । वृषादित्वात् आद्युदात्तत्वम्। ओजायमानम् । ओजःशब्दादाचारार्थे ' कर्तुः क्यङ् सलोपश्च' इति क्यङ्प्रत्ययः सलोपश्च । ङित्वादात्मनेपदम् । प्रत्ययस्वरः । तव्यान् । तु इति सौत्रो धातुः । अस्मात् तृजन्तात् ‘तुश्छन्दसि '
इतीयसुन् । ‘तुरिष्ठेमेयःसु ' इति तृचो लोपः । भसंज्ञायामोर्गुणः । इकारलोप-श्छान्दसः । नित्स्वरः । भूत् । भवतेर्लुङि रूपम् । स्फिग्या । 'यचि भम्' इति भसंज्ञायाः बाधितत्वात् 'स्वादिष्वसर्वनामस्थाने' इति पदसंज्ञायां जश्त्वम् । तृतीयायाः पूर्वसवर्णः । क्षाम् । ‘क्षि निवासगत्योः । ‘ अन्येभ्योऽपि दृश्यते' इति निरुपपदादपि डप्रत्ययः । ततष्टाप् । क्षियन्ति निवसन्त्यस्यां प्राणिन इति क्षा भूमिः । उदात्तनिवृत्तिस्वरेणान्तोदात्तः। अवस्थाः। ‘वस आच्छादने' इत्यस्य लङि अनुदात्तत्वात् आत्मनेपदम् । थासि अदादित्वाच्छपो लुक् । यद्योगादनिघातः । अडागमस्वरः ॥
 
 
Line २१७ ⟶ २२९:
य॒ज्ञः । हि । ते॒ । इ॒न्द्र॒ । वर्ध॑नः । भूत् । उ॒त । प्रि॒यः । सु॒तऽसो॑मः । मि॒येधः॑ ।
 
य॒ज्ञेन॑ । य॒ज्ञम् । अ॒व॒ । य॒ज्ञियः॑ । सन् । य॒ज्ञः । ते॒ । वज्र॑म् । अ॒हि॒ऽहत्ये॑ । आ॒व॒त् ॥१२
 
यज्ञः । हि । ते । इन्द्र । वर्धनः । भूत् । उत । प्रियः । सुतऽसोमः । मियेधः ।
 
यज्ञेन । यज्ञम् । अव । यज्ञियः । सन् । यज्ञः । ते । वज्रम् । अहिऽहत्ये । आवत् ॥१२
 
हे “इन्द्र अस्मदीयोऽयं “यज्ञः “ते तव "वर्धनः हविष्प्रदानेन वर्धयिता "भूत् "हि भवति खलु। “उत अपि च "सुतसोमः अभिषुतसोमवान् “मियेधः सारभूतोऽयं यज्ञः तव "प्रियः । स त्वं "यज्ञियः यज्ञार्हः “सन् 'यज्ञं यज्ञस्य कर्तारं यजमानं “यज्ञेन अनुष्ठीयमानेनानेन “अव फलप्रदानेन रक्ष। किंचायं “यज्ञः "ते तव “वज्रमहिहत्ये वृत्रहनने कर्मणि “आवत् रक्षतु ॥ वर्धनः । वृधु वर्धने ' इत्यस्य ण्यन्तस्य नन्द्यादित्वात् ल्युप्रत्ययः । लित्स्वरः । भूत् । हियोगादनिघातः । अव । अवतेर्लोटि रूपम् । निघातः । सन् । असेः शतरि रूपम् । प्रत्ययस्वरः । अहिहत्ये । “हन हिंसागत्योः । इत्यस्य भावे ‘हनस्त च ' इति क्यप् तकारश्चान्तादेशः । कृदुत्तरपदस्वरः । आवत् । अवतेश्छान्दसे लहङि रूपम् । निघातः ॥
 
 
Line २३१ ⟶ २४४:
य॒ज्ञेन॑ । इन्द्र॑म् । अव॑सा । आ । च॒क्रे॒ । अ॒र्वाक् । आ । ए॒न॒म् । सु॒म्नाय॑ । नव्य॑से । व॒वृ॒त्या॒म् ।
 
यः । स्तोमे॑भिः । व॒वृ॒धे । पू॒र्व्येभिः॑ । यः । म॒ध्य॒मेभिः॑ । उ॒त । नूत॑नेभिः ॥१३
 
यज्ञेन । इन्द्रम् । अवसा । आ । चक्रे । अर्वाक् । आ । एनम् । सुम्नाय । नव्यसे । ववृत्याम् ।
 
यः । स्तोमेभिः । ववृधे । पूर्व्येभिः । यः । मध्यमेभिः । उत । नूतनेभिः ॥१३
 
हे इन्द्र सर्वो यजमानः “अवसा स्वरक्षकेण “यज्ञेन “इन्द्रं त्वाम् “अर्वाक् “आ "चके हविष्प्रदानेनाभिमुखं करोति । तथाहं “नव्यसे नवतराय “सुम्नाय धनाय “एनं त्वाम् “आ “ववृत्याम् यज्ञेनावृत्तं मदभिमुखं कुर्याम् । कीदृशस्त्वम् । “यः पूर्व्येभिः पुरातनैः “स्तोमेभिः स्तोत्रैः "ववृधे । तथा “यः इन्द्रः “मध्यमेभिः मध्ये भवैः स्तोत्रैः “उत अपि च “नूतनेभिः अस्माभिः क्रियमाणैः अधुनातनैः स्तोत्रैर्वर्धते । चक्रे । करोतेर्लिटि रूपम् । नव्यसे । नवशब्दादीयसुनि भसंज्ञायामकारलोपे ईकारलोपश्छान्दसः । नित्त्वदाद्युदात्तः । ववृत्याम् । ‘वृतु वर्तने '। लिङि' बहुलं छन्दसि ' इति
शप: श्लुः । व्यत्ययेन परस्मैपदम् । निघातः । ववृधे । ' वृधु वर्धने ' इत्यस्य लिटि रूपम् । प्रत्ययस्वरः । मध्यमेभिः । मध्यशब्दात् शैषिकार्थे मध्यान्मः' ( पा. सू. ४. ३. ८) इति मप्रत्ययः । प्रत्ययस्वरः । नूतनेभिः । नवशब्दस्य ' त्नप्तनन्खाश्च प्रत्यया वक्तव्या नृ इत्यादेशश्च' ( पा. म. ५, ४. ३०.६ ) इति तन-न्र्सत्ययो नू इत्यादेशश्च ॥
 
 
Line २४५ ⟶ २६०:
वि॒वेष॑ । यत् । मा॒ । धि॒षणा॑ । ज॒जान॑ । स्तवै॑ । पु॒रा । पार्या॑त् । इन्द्र॑म् । अह्नः॑ ।
 
अंह॑सः । यत्र॑ । पी॒पर॑त् । यथा॑ । नः॒ । ना॒वाऽइ॑व । यान्त॑म् । उ॒भये॑ । ह॒व॒न्ते॒ ॥१४
 
विवेष । यत् । मा । धिषणा । जजान । स्तवै । पुरा । पार्यात् । इन्द्रम् । अह्नः ।
 
अंहसः । यत्र । पीपरत् । यथा । नः । नावाऽइव । यान्तम् । उभये । हवन्ते ॥१४
 
“यत् यदा “धिषणा इन्द्रं स्तवानीति मदीया बुद्धिर्मां "विवेष व्याप्नोत् तदाहं स्तोत्रं “जजान करोमि । बुद्धेः स्वरूपं दर्शयति । अहं “पार्यात् पारे भवादतिदूरवर्तिनः विघ्नकारिणः “अह्नः “पुरा पूर्वं “स्तवै स्तवानि । “यत्र यस्यां धिषणायामेव जातायां सत्यां स इन्द्रः “नः अस्मान् “अंहसः पापरूपाद्दारिद्र्यात् “यथा "पीपरत् यथा पारं नयेत् तथास्मदुभयपार्व्“वर्तिधनार्थिनो जनाः “हवन्ते आह्वयन्ति । तत्र दृष्टान्तः। “नावेव “यान्तम् । यथा नद्यादिषु नौकया यान्तं गच्छन्तं पुरुषम् “उभये उभयकूलवर्तिनः जना हवन्ते आह्वयन्ति तद्वत् ।। विवेष । ' विष्लृ व्याप्तौ' इत्यस्य लिटि णलि रूपम् । लित्स्वरः । जजान ।' जन जनने 'इत्यस्य लिट्युत्तमे णलि रूपम् । वाक्यभेदात् अनिघातः । अंहसः । अम गत्यादिषु । ' अमेर्हुक् च ' (उ, सू. ४, ६५२ ) इत्यसुन्प्रत्ययो हुगागमश्च । नित्स्वरः । पीपरत् । “पॄ पालनपूरणयोः ' इत्यस्य लुङि चङि ह्रस्वाभ्यासेत्वदीर्घगुणाः । यथायोगादनिघातः । लित्स्वरः । नावेव । नुद प्रेरणे' इत्यस्मात् ' ग्लानुदिभ्यो डौः ' ( उ. सू. २, २२ ) इति डौप्रत्ययः । नुद्यत इति नौः प्लवः । सावेकाचः ० ' इति तृतीयाया उदात्तत्वम् । ‘ इवेन नित्यसमासः विभक्त्यलोपः० ' इत्यादि । उभये । उभशब्दात् परस्य तयपः ‘ उभादुदात्तो नित्यम् ' ( पा. सू. ५, २, ४४ ) इत्ययजादेशः । वचनसामर्थ्यादादेः उदात्तत्वम् । हवन्ते । ह्वयतेर्लटि रूपम् ॥
 
 
माध्यदिने सवन आग्नीध्रीयस्थ ' आपूर्णो अस्य ' इति प्रस्थितयाज्या । सूत्रितं च आपूर्णो अस्य कलशः स्वाहेति माध्यंदिन्यः ' ( आश्व. श्रौ. ५. ५) इति ।।
 
आपू॑र्णो अस्य क॒लशः॒ स्वाहा॒ सेक्ते॑व॒ कोशं॑ सिसिचे॒ पिब॑ध्यै ।
Line २५९ ⟶ २७७:
आऽपू॑र्णः । अ॒स्य॒ । क॒लशः॑ । स्वाहा॑ । सेक्ता॑ऽइव । कोश॑म् । सि॒सि॒चे॒ । पिब॑ध्यै ।
 
सम् । ऊं॒ इति॑ । प्रि॒याः । आ । अ॒व॒वृ॒त्र॒न् । मदा॑य । प्र॒ऽद॒क्षि॒णित् । अ॒भि । सोमा॑सः । इन्द्र॑म् ॥१५
 
आऽपूर्णः । अस्य । कलशः । स्वाहा । सेक्ताऽइव । कोशम् । सिसिचे । पिबध्यै ।
 
सम् । ऊं इति । प्रियाः । आ । अववृत्रन् । मदाय । प्रऽदक्षिणित् । अभि । सोमासः । इन्द्रम् ॥१५
 
हे इन्द्र “अस्य तव पानार्थं “कलशः द्रोगकलशः सोमेन “आपूर्णः । स्वाहा' स्वाहाकृतो दत्तश्च सोमसहितः कलशः “पिबध्यै तव पानार्थं “सिसिचे तं सोमं चोदिताधारे सिञ्चामि। तत्र दृष्टान्तः । “कोशं “सेक्तेव । यथा सेक्ता सेचकः जलपूर्णात् कोशात् दृतेः सकाशात् जलं पात्रान्तरे सिञ्चति तद्वत् । “प्रियाः स्वादुतमाः “सोमासः दत्तास्ते सोमाः “इन्द्रं त्वाम् “अभि अभिलक्ष्यैव “मदाय तव हर्षार्थं “प्रदक्षिणित् प्रादक्षिण्येन “सम् “आववृत्रन् सम्यगावृत्य वर्तन्ताम् ॥ आपूर्णः। पॄ पालनपूरणयोः' इत्यस्य कर्मणि निष्ठा । ‘रदाभ्याम्' इति तस्य नत्वम् । ‘गतिरनन्तरः' इति गतिस्वरः । स्वाहा । निपातत्वादाद्युदात्तः । सेक्तेव कोशम्। 'न लोकाव्यय' इति षष्ठीप्रतिषेधः । सिसिचे । ‘षिच क्षरणे' इत्यस्य लिटि रूपम् । पिबध्यै । ‘पा पाने' इत्यस्य तुमर्थे शध्यैन्प्रत्ययः। शित्त्वात् पिबादेशः । नित्त्वादाद्युदात्तः। आववृत्रन्। ‘वृतु वर्तने' इत्यस्य लङि शप् । 'बहुलं छन्दसि' इति तस्य शपः श्लुः । व्यत्ययेन परस्मैपदम् । 'बहुलं छन्दसि ' इति झे रुडागमः ॥
 
 
Line २७३ ⟶ २९२:
न । त्वा॒ । ग॒भी॒रः । पु॒रु॒ऽहू॒त॒ । सिन्धुः॑ । न । अद्र॑यः । परि॑ । सन्तः॑ । व॒र॒न्त॒ ।
 
इ॒त्था । सखि॑ऽभ्यः । इ॒षि॒तः । यत् । इ॒न्द्र॒ । आ । दृ॒ळ्हम् । चि॒त् । अरु॑जः । गव्य॑म् । ऊ॒र्वम् ॥१६
 
न । त्वा । गभीरः । पुरुऽहूत । सिन्धुः । न । अद्रयः । परि । सन्तः । वरन्त ।
 
इत्था । सखिऽभ्यः । इषितः । यत् । इन्द्र । आ । दृळ्हम् । चित् । अरुजः । गव्यम् । ऊर्वम् ॥१६
 
हे “पुरुहूत “इन्द्र “गभीरः “सिन्धुः समुद्रः “त्वा त्वां “न वारयति । ततः “परि परितः वर्तमाना: “सन्तः “अद्रयः शैलास्त्वां “न “वरन्त न वारयन्ति । किंतु त्वामनुसृत्य वर्तन्ते । "यत् यस्मात् “इत्था इत्थमनेन प्रकारेण “सखिभ्यः सखिभिर्देवैः “इषितः प्रार्थितः त्वं “दृळ्हं “चित् अतिप्रबलमपि “गव्यं गवि भवम् अवटे वर्तमानम् “ऊर्वम् ऊर्वानलम् "आ "अरुजः सम्यगभाङ्क्षीः ॥ गभीरः । ‘गाधृ प्रतिष्ठालिप्सयोर्ग्रन्थे च' । अस्मात् ईरच्प्रत्ययः' । धकारस्य भकारः आकारस्य ह्रस्वश्च ‘ गभीरगम्भीरौ ' ( उ. सू. ४. ४७५) इत्यनेन निपात्यते । चित्स्वरः । सिन्धुः । ‘ स्यन्दू प्रस्रवणे । ‘ स्यन्देः संप्रसारणं धश्च' इत्युप्रत्ययः संप्रसारणं दकारस्य धकारः । ‘ नित्' इत्यनुवृत्तेराद्युदात्तः । परिषन्तः । सन्तः । अस्तेः शतरि रूपम्। उपसर्गप्रादुर्भ्यामस्तिर्यच्परः' इति षत्वम् । केचित् परेः' क्रियान्वयम् इच्छन्ति । तदा षत्वमनुपपन्नम् । परि। निपातस्वरः । सन्तः। प्रत्ययस्वरः । वरन्त । वृञ् वरणे । भौवादिकः । लङि रूपम् । निघातः । अरुजः । ‘ रुजो भङ्गे' इत्यस्य लङि रूपम् । गव्यम् । गोर्विकार इत्यर्थे ' गोपयसोर्यत्' इति यत् । यतोऽनावः' इत्याद्युदात्तत्वम् ॥
 
 
Line २८७ ⟶ ३०७:
शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।
 
शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥१७
 
शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ।
 
शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥१७
 
 
एषा ऋक् पूर्वमेव व्याख्याता ॥ ॥ ११ ॥
}}
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.३२" इत्यस्माद् प्रतिप्राप्तम्