"जैमिनीयं ब्राह्मणम्/काण्डम् १/३०१-३१०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४२:
अथैतां स्वरेण त्रिष्टुभम् अभ्यारोहति। प्राणस् स्वरः। पुरुषसंमित एष यत् पवमानः। स्वारं पुरस्ताद् भवति स्वारम् उपरिष्टात्। ताव् इमौ पुरुषस्य प्राणापानौ विपर्यूढौ। ताभ्यां विष्वञ्चि स्वरति॥
 
<poem>अथ रथन्तरम्। रेतस्सिक्तिर् एव सा॥
अथ वामदेव्यं स्वारम्। प्राणो वै स्वरः। अस्मिन्न् एवैतद् रेतसि सिक्ते प्राणं प्रतिदधाति॥
अथ नौधसं निधनम्। जन्मैव तत्। प्रैव तेन जनयति॥
अथ कालेयम् ऐळम्। पशवो वा इळान्नं पशवः। यद् एव जाताभ्यो ऽन्नाद्यं प्रतिधीयते तद् एवैतत्॥
अथार्भवस्य पवमानस्य गायत्र्य् उक्तब्राह्मणा॥</poem>
अथैता स्वरेण ककुभम् अभ्यारोहति। प्राणस् स्वरो विवृहः ककुप्। विवृह एव तत् प्राणं दधाति। स यन् निधनेनाभ्यारोहेत् - वज्रो वै निधनम् -- यथोपतापिनं दण्डेन हन्यात् तादृक् तत्। अथ यत् स्वरेणाभ्यारोहति प्राणम् एवास्याम् एतद् दधाति। भिषज्यत्य् एवैनाम् एतेन॥