"ऋग्वेदः मण्डल ४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७२:
*[[ऋग्वेदः सूक्तं ४.५७]]
*[[ऋग्वेदः सूक्तं ४.५८]]
 
 
{{टिप्पणी|
 
[http://puranastudy.byethost14.com/pur_index26/pva7.htm वामदेवोपरि पौराणिकाः संदर्भाः]
 
<poem>
वामदेवोपरि ये वैदिकाः संदर्भाः सन्ति, तेषां एकः अभिप्रायः अयं प्रतीयते – अस्मिन् जगति यत्किंचित् विकीर्णमस्ति, वालमस्ति, तस्मात् यत्किंचित् संभरणीयमस्ति, संभृत्य देवेभ्यः अर्पणीयमस्ति, तत् वामं अस्ति। वामदेव्यं साम अस्मिन् संदर्भे केन प्रकारेण साहाय्यं करिष्यति, अयं अन्वेषणीयः।
 
वाम-देव(ब्राह्मणोद्धारकोशः) -
प्राणो ह्येष य एष तपति....तं देवा अब्रुवन्नयं वै नः सर्वेषां वाम इति तस्माद्वामदेवस्तस्माद्वामदेव इत्याचक्षत एतमेव सन्तम् । ऐआ २,२,१ ॥
ते (देवाः) ऽब्रुवन् वामदेवं, त्वं न इमं यज्ञं दक्षिणतो गोपायेति, मध्यतो वसिष्ठमुत्तरतो भरद्वाजं सर्वाननु विश्वामित्रम्। - गो २.३.२३
प्रजापतिर्वै वामदेव्यम् (वामदेवः – शांआ) । - जै १.२२९, माश १३.३.३.४, शांआ १.२
वामदेव्य( सामन्-)
१. अथ वामदेव्यं शिवं शान्तं सुष्वाणमनुवर्तता इति । जै २,१९४ ।
२. आत्मा वै व्रतस्य वामदेव्यम् । जै २,४११ ।
३. इदं वा वामदेव्यं यजमानलोको ऽमृतलोकः स्वर्गो लोकः । ऐ ३,४६ ।।
४. क्लृप्तिर्वा एषा शान्तिर्वा एषा प्रतिष्ठा वा एषैष वाव यज्ञो यद्वामदेव्यम् । जै ३,११८ ।।
५. तद्यानि ह वै स्तुतानि सामानि पश्चात्वं तेषां वामदेव्यम्, अथ यान्यस्तुतानि पुरस्त्वं तेषां यो वै ग्रामस्य श्रेष्ठी बलिष्ठो भवति तेन पश्चात्वेन तेन पुरस्त्वेन यन्ति । जै ३,११८ ।
६. तद्वा एतत्पशव्यं यद्वामदेव्यम् । जै १.१३८ ।
७. तद्वा एतत् पिता माता साम्नां यद्वामदेव्यम् । यद् वै पुत्रो ऽतिपादयति पिता वै तस्य शमयिता पिता निषेद्धा॥ जै १,१४४।।
८, तद (वामदेव्यम् ) यन्मध्यतः क्रियते शान्त्या एव निषिद्ध्यै । जै १,१४४ ।
९. तावब्रूतां ( मित्रावरुणौ ) वामं मर्य्या इदं देवेष्वाजनीति तस्माद्वामदेव्यम् ( साम ) । तां ७,८,१। ।
१०. तासु वामदेव्यम् । स्तुतशस्त्रयोर्ह खलु वा एषा शान्तिर्यद् वामदेव्यम् । यद्ध वै
किं च यज्ञस्य मिथ्योल्बणं क्रियते तदेतेनैव शमयित्वोत्तिष्ठन्ति । मर्त्यं वा एतद्यज्ञस्य यद्वामदेव्यम् । स यथा स्थूललोष्टं मत्येन शमयेदेवमेवैतद्वामदेव्येन सर्वाणि स्तुतशस्त्राणि शमयन्ति । जै ३, ३०१। ।
११. तद् ऊर्ध्वम् उदैषद् यथा पृष्ठं यथा ककुद् एवम्।.....यदब्रुवन्न् ( देवाः) इयद्वा वेदमासेदं वाव नो देवानां वाममिति वामदेव्यस्य तद्वामदेव्यत्वम् । जै १,१४४ ।
१२. यद्यन्तरिक्षे वामदेव्येन ( अनुविन्दाम ) तस्यौदुम्बरः सोमचमसो दक्षिणा । जै २,१५९।।
१३. यद्वा इदं सद् यद् भूतं यद्भवद् यद्भविष्यद्यदिमे अन्तरा द्यावापृथिवी तद् वामदेव्यम् । मै १.६.७
१४. रूक्षितमिवैतद्यद्वामदेव्यं निर्धूतमिव । जै १,३३३ ।।
१५. वामदेव्यं वामदेवानां (वाव देवानाम् ) मधु । जै १,१४४ ।
१६. वामदेव्यं वै साम्नां सत् । तां ४,८,१० ।।
१७. अथ रथन्तरम्। रेतस्सिक्तिर् एव सा॥ अथ वामदेव्यं स्वारम्। प्राणो वै स्वरः। अस्मिन्न् एवैतद् रेतसि सिक्ते प्राणं प्रतिदधाति॥ अथ नौधसं निधनम्। जन्मैव तत्। प्रैव तेन जनयति॥ अथ कालेयम् ऐळम्। पशवो वा इळान्नं पशवः। यद् एव जाताभ्यो ऽन्नाद्यं प्रतिधीयते तद् एवैतत्॥ जै १,३०५।।
१८. ब्रह्म वै व्रतस्य शिरो, द्यावापृथिवी पक्षाव्, अन्तरिक्षम् आत्मा, साम पुच्छम्। गायत्रं वै व्रतस्य शिरस्, तद् धि ब्रह्म। बृह्द्रथन्तरे पक्षौ, ते हि द्यावापृथिवी। वामदेव्यमात्मा तद्धि अन्तरिक्षम् । जै २,४१५।।
१९. वामदेव्यं मैत्रावरुणसाम भवति । प्रजापतिर्वै वामदेव्यं प्राजापत्योऽश्वः। माश १३,३,३,४ ।
२०. वामदेव्येन सामानि (अन्वाभवत् ) । काठ ३५, १५ ।।
२१. अग्निर् वै रथन्तरं वायुर् वामदेव्यम् इन्द्रो नौधसं विश्वे देवाः कालेयम्। अथैष स्वर्ग एव लोको विश्व एव देवाः। । जै १,३३५ (तु. जै १,२९२; २,४३३)।
२२. विश्वेभिर्देवेभिः पृतना जयामि जागतेन छन्दसा सप्तदशेन स्तोमेन, वामदेव्येन साम्ना...। तैसं ३,५,३,२।।
२३. व्यानो (हिङ्कारो [जै १,१७३) वामदेव्यम् । जै १,२२९ ।
२४. शान्तिर्वै (+भेषजं [कौ.J) वामदेव्यम् । कौ २७,२; २९,३;४; तै १, १,८,२ ।।
२५. श्रोण्यां वामदेव्यं गायति । काठ २१,५; क ३१,२० ।।
२६. सद्ध खलु वै वामदेव्यं स्तोत्राणां सदग्निदेवतानां सद्विराट् छन्दसां सत् त्रयस्त्रिंश स्तोमानाम् । जै ३, ३०१ ।।
२७. विराट्सु वामदेव्यं अग्निष्टोमसाम भवति शान्त्यै क्ळृप्त्यै सद्वै वामदेव्यं साम्नां सद्विराट्छन्दसां। तां १५,१२,२ ।।
२८. समायुर्वामदेव्यम् । जै १,२९२; २,४३३ । ।
२९. अपो वा ऋत्व्यमार्च्छत् तासांव्वायुः पृष्ठे व्यवर्तत ततो वसु वामं समभवत् तस्मिन्मित्रावरुणौ पर्यपश्यतां तावब्रूतांव्वामं मर्या इदं देवेष्वाजानीति तस्माद्वामदेव्यम् .... तत् प्रजापतिरब्रवीत् सर्वेषां न इदमस्तु सर्व इदमुपजीवामेति तत् पृष्ठेषु न्यदधुः सर्वदेवत्यं वै वामदेव्यम् । तां ७,८,२ ।।
अन्तरिक्षं (वै (काठसंक. , तां, तै.) वामदेव्यम् (साम)। - मै ३.३.५, काठसंक ९, जै १.२२९, तां १५.१२.५, तै १.१.८.२, २.१.५.७
इदं वा (इदमेव ( जै १.३०७) अन्तरिक्षं वामदेव्यम् (स्वरः जै १.३०७)। जै १.१४६
उपहूतं वामदेव्यं (साम) सहान्तरिक्षेण । तैसं. २.६.७.२, माश १.८.१.१९
या ऽन्तरिक्षे (वाक्) या वाते, सा वामदेव्ये ... तां ब्राह्मणे न्यदधुः । का १४.५
अथ वामदेव्यम्। स ह सा शान्तिरेव स्तोमः। आप एव ताः। जै १.३१३
ओषधीरेव देवेभ्यो रथन्तरेणादुह, पशून् बृहता , आपो वामदेव्येन , यज्ञं यज्ञायज्ञियेन । मै ४.२.२
आत्मा वै यज्ञायज्ञीयं, तनूर्वामदेव्यम्। काठ २१.५, क ३१.२०
आत्मा वै वामदेव्यम् (साम) । मै ३.३.५
पञ्च ज्योतींषीद्धान्य् एषु लोकेषु दीप्यन्ते ऽग्निः पृथिव्यां वायुर् अन्तरिक्ष आदित्यो दिवि चन्द्रमा नक्षत्रेषु विद्युद् अप्सु।....वायुर् वामदेव्यस्यादित्यो बृहतश्। - जै १.२९२
वामदेव्यम् (संवत्सर (तैसं) आत्मा । तैसं ७.५.२५.१, जै १.२९२
मासम् ((वामदेव्यम् (जै) उद्गीथः । जै १.२९२, जैउ १.१२.२.६
योनिर्वामदेव्यं प्रजननमृषभः। - जै १.१३९
साम ते (सुपर्णस्य गरुत्मतः) तनूर्वामदेव्यम्। मै २.७.८, काठ १६.८
अन्तरिक्षं दैर्घश्रवसम्। वामदेव्यं ह्येतन्निदानेन - जै २.४३६
पशवः इहवद्वामदेव्यम् – जै ३.१५३
पशवो द्विहिंकारं वामदेव्यम् । जै ३.२, ३.१३२
पशवो वै वामदेव्यम् (वाजिनम्) तै.) । तैसं २.६.७.२, जै १.३३३, २.१९४, ३.१५, २६, ४९, २६१, तां ४.८.१५, ७.९.९, ११.४.८, १४.९.२४, तै १.६.३.१०
पिता वै वामदेव्यं पुत्राः पृष्ठानि । तां ७.९.१
प्रजननं वै रथन्तरम् (वामदेव्यम् – माश.) जै २.९३, १४६, १७४, २३९, माश ५.१.३.१२
प्रजापतिर्वामदेव्यम् (साम) – जै १.१३९, २.१५
प्रजापतिर्वै वामदेव्यम् (वामदेवः – शांआ) । जै १.२२९, माश १३.३.३.४, शांआ १.२
प्रजापतिर्ह खलु वा एतत् स्तोत्राणां यद् वामदेव्यम्। यथा ह वा इदं प्रजापतौ सर्वा जातविद्याः प्रतितिष्ठन्त्येवं ह वै वामदेव्ये सर्वाणि स्तोत्राणि प्रतितिष्ठन्ति। जै ३.३०१
स (प्रजापतिः) उदरादेव मध्यात् सप्तदशं स्तोममसृजत जगतीं छन्दो वामदेव्यं साम विश्वान् देवान् देवतां वैश्यं मनुष्यं गां पशुम् – जै १.६९
प्राजापत्यं वै वामदेव्यं (षष्ठमहः – कौ.) । कौ २३.८, २५.११, १५, तां ४.८.१५, ११.४.८
प्राणा वै वामदेव्यम् (वामम् – माश) । जै ३.३०१, माश ७.४.२.३५
प्राणो हि वामदेव्यम् (वायुः – तां) । जै १.३३३, २.४२४, तां ४.६.८
एतद्ध यज्ञस्याच्युतं यद् वामदेव्यम् (साम) । जै २.४२४
योनिर्वै वामदेव्यम् – जै ३.३०१
तद्ध वै प्रत्यक्षं वामदेव्यं ( साम) यद् राजनम् - जै २.१५
परोक्षमिव ह खलु वा एतद् वामदेव्यं यद् राजनम् – जै २.४११
यथा ह वै वयस आशय एवं राजनस्य वामदेव्यम् (साम) जै २.१५
वयो वै वामदेव्यम् (साम) जै १.१३९
वाम-भृत्
१. इयं ( पृथिवी ) वामभृत् ! माश ७,४,२,३५ ।।
२. देवासुरा संयत्ता आसन् । ते वामं वसु स न्यदधत तहेवा वामभृता ऽवृञ्जत, तद्वामभृतो
वामभृत्वम् । तैसं ५,५,३,३ ।।
३. वाग्वामभृत् । माश ७,४,२,३५ ।।
 
</poem>
 
 
 
}}
 
[[वर्गः:ऋग्वेदसंहिता]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_मण्डल_४" इत्यस्माद् प्रतिप्राप्तम्