"ऋग्वेदः मण्डल ४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७३:
*[[ऋग्वेदः सूक्तं ४.५८]]
 
== ==
 
{{टिप्पणी|
 
पङ्क्तिः ८२:
 
<poem>
सोमयागे सुत्यादिवसे सामगानस्य क्रमः एवं भवति – प्रथमतः सामवेदिऋत्विग्भ्यः रथन्तरसाम्नः गानं भवति। होता ऋत्विक्तः अस्य सम्बन्धं भवति। तदोपरि वामदेव्यं सामस्य गानं भवति। मैत्रावरुणऋत्विक्तः अस्य संबन्धं अस्ति। तदोपरि नौधसं साम, तदोपरि कालेयं साम।
वामदेवोपरि ये वैदिकाः संदर्भाः सन्ति, तेषां एकः अभिप्रायः अयं प्रतीयते – अस्मिन् जगति यत्किंचित् विकीर्णमस्ति, वालमस्ति, तस्मात् यत्किंचित् संभरणीयमस्ति, संभृत्य देवेभ्यः अर्पणीयमस्ति, तत् वामं अस्ति। वामदेव्यं साम अस्मिन् संदर्भे केन प्रकारेण साहाय्यं करिष्यति, अयं अन्वेषणीयः।
वामदेवसामोपरि ये वैदिकाः संदर्भाः सन्ति, तेषां एकः अभिप्रायः अयं प्रतीयते – अस्मिन् जगति यत्किंचित् विकीर्णमस्ति, वालमस्ति, तस्मात् यत्किंचित् संभरणीयमस्ति, संभृत्य देवेभ्यः अर्पणीयमस्ति, तत् वामं अस्ति। किंतु अत्र शंका भवति। रथन्तरस्य साम्नः अपि अयमेव लक्ष्यं अस्ति – यत्किंचित् पृथिव्योपरि श्रेष्ठतमं अस्ति, तत् पृथिवी आकाशे सूर्ये अथवा चन्द्रमसि स्थापयति। रथन्तरस्य सम्बद्धता होतृऋत्विजेन सह अस्ति। होता ऋत्विजः लक्षणं अस्ति – वह्निरसि हव्यवाहनः। सः अग्निरूपं भूत्वा हविषां देवेषु ऋजुरूपेण वहनं करोति। वामदेव्यं साम्नः संबद्धता मैत्रावरुण ऋत्विक्तः अस्ति। मैत्रावरुणस्य ऋत्विजः लक्षणं अस्ति – श्वात्रो असि प्रचेताः। सोमयागे सुत्यादिवसानां द्वौ प्रकारौ भवतः – अद्यसुत्या एवं श्वःसुत्या। यत्किंचित् अद्य, वर्तमानकाले करणीयं संभवं अस्ति, तत् सर्वं अद्यसुत्या दिवसे भवति। पापस्य लेपनकारणे यत्किंचित् अद्यकरणीयं संभवं नास्ति, तस्य शोधनं श्वः करणाय प्रयत्नं करणीयं। मैत्रावरुणस्य लक्षणं अस्ति – श्वात्रः। यस्य अद्यैव उद्धारकरणे कोपि बाधा अस्ति, तस्य उद्धारकर्त्ता। श्वः, भविष्यतः अश्वः, वर्तमानं प्रति गमयिता। ब्राह्मणग्रन्थेषु अस्य व्याख्या एवं प्रकारेण अस्ति। एका जाग्रत् चेतना अस्ति, एका सुप्त, अर्धसुप्त चेतना। सुप्तायाः संज्ञा पृष्ठं अस्ति। यथा पृष्ठभागः अदृश्यं अस्ति, एवमेव । रजनीश महाभागः सुप्तचेतनायाः जागरणे अत्यन्त मुखरः आसीत्। वृषभस्य पृष्ठे ककुद् अपि भवति। वामदेवसाम्नः लक्ष्यं पृष्ठे ककुद् निर्माणं भवति।
ब्राह्मणेषु सार्वत्रिकरूपेण (जै १.१३८) कथनमस्ति यत् यावत् प्राणाः, चेतना खण्डिताः सन्ति, तेषु अन्तःसंवादं नास्ति, तावत् स वामदेवः नास्ति। यदा प्राणेषु मध्ये अन्तःसंबंधं स्थापितं भविष्यति, तदा तत् वामदेवं भविष्यति। पुराणेषु अस्य कथनस्य रूपं एकादशी अस्ति। दश प्राणाः सन्ति। तेषां उपरि एकादशी दशप्राणानां व्यूहरूपा भवति। पुराणेषु वामदेवऋषिः पापानां शोधनाय एकादशी-द्वादशी तिथीनां महत्त्वं वर्णयति।
ब्राह्मणग्रन्थेषु वामदेव्यस्य साम्नः सम्बन्धं योनिना सह अपि कथितं भवति। सर्वासां प्राणानां योनिः वामदेव्यं सामं अस्ति। यदा प्राणाः संवत्सरस्य दशमासपर्यन्तं योन्यां वसिष्यन्ति, तदा तेषां नवीनरूपे उत्पादनं भविष्यति। संवत्सरः मन, प्राण एवं वाचः सम्बन्धकरणतः सूचकः अस्ति। पुराणेषु वामदेव शिवस्य लक्षणरूपेण ओंकारस्य अ, उ, म अक्षरत्रय मध्ये उकारेण सह वामदेवशिवस्य सम्बद्धता कथितमस्ति। उकारः योनिरस्ति। अ अक्षरः ब्रह्मणा आदानस्य प्रतीकमस्ति, उकारः आधृतप्राणानां धारणस्य, मकारः विसर्जनस्य।
 
वाम-देव(ब्राह्मणोद्धारकोशः) -
प्राणो ह्येष य एष तपति....तं देवा अब्रुवन्नयं वै नः सर्वेषां वाम इति तस्माद्वामदेवस्तस्माद्वामदेव इत्याचक्षत एतमेव सन्तम् । ऐआ २,२,१ ॥
ते (देवाः) ऽब्रुवन् वामदेवं, त्वं न इमं यज्ञं दक्षिणतो गोपायेति, मध्यतो वसिष्ठमुत्तरतो भरद्वाजं सर्वाननु विश्वामित्रम्। - गो २.३.२३
तद् आहू रथन्तरम् एव प्रथमे तृचे स्याद् वामदेव्यं द्वितीये बृहत् तृतीय एषां लोकानां समारोहायेति।…..अयम् एव लोको रथन्तरम् अन्तरिक्षं वामदेव्यम् असाव् एव बृहत्।….प्राण एव रथन्तरं व्यानो वामदेव्यम् उदानो बृहत्।….अथ यः कामयेत प्रजा मे श्रेयसी स्याद् इति रथन्तरम् एव प्रथमे तृचे कुर्याद् वामदेव्यम् उत्तरयोः। प्रजापतिर् वै वामदेव्यम्। प्रजापतिम् एव तत् स्वरम् अन्तत उपयन्ति प्रजननाय॥। - जै १.२२९, माश १३.३.३.४, शांआ १.२
प्रजापतिर्वै वामदेव्यम् (वामदेवः – शांआ) । - जै १.२२९, माश १३.३.३.४, शांआ १.२
वामदेव्य( सामन्-)
१. अथ वामदेव्यं शिवं शान्तं सुष्वाणमनुवर्तता इति । जै २,१९४ ।
२. आत्मा वै व्रतस्य वामदेव्यम् । जै २,४११ ।
३. इदंत्रीणि ह वै यज्ञे क्रियन्ते जग्धं गीर्णं वान्तं…..तस्यास्ति वामदेव्यस्य स्तोत्रे प्रायश्चित्तिरिदं वा वामदेव्यं यजमानलोको ऽमृतलोकः स्वर्गो लोकःलोकस्तत्त्रिभिरक्षरैर्न्यूनं तस्य स्तोत्र उपसृप्य त्रेधात्मानं विगृह्णीयात् पुरुष इति । ऐ ३,४६ ।।
४. ते देवा वामदेव्यम् एव योनिं परिगृह्योर्ध्वा उदागाहन्त। तद् एतस्य पृष्ठ्यस्य षडहस्य मध्ये ह मायं न्यदधुः। तद् यानि ह वै स्तुतानि सामानि पश्चात्वं तेषां वामदेव्यम्, अथ यान्य् अस्तुतानि पुरस्त्वं तेषाम्। यो वै ग्रामस्य श्रेष्ठी बलिष्ठो भवति तेन पश्चात्वेन तेन पुरस्त्वेन यन्ति। अरिष्टेन यज्ञेन यजते य एवं वेद। ….. तस्माद् वामदेव्यं पृष्ठम्। पृष्ठं हि प्रतिवहतीति। क्लृप्तिर् वा एषा शान्तिर् वा एषा प्रतिष्ठा वा एषैष वाव यज्ञो यद् वामदेव्यम्। । जै ३,११८ ।।
४. क्लृप्तिर्वा एषा शान्तिर्वा एषा प्रतिष्ठा वा एषैष वाव यज्ञो यद्वामदेव्यम् । जै ३,११८ ।।
५. तद्यानि ह वै स्तुतानि सामानि पश्चात्वं तेषां वामदेव्यम्, अथ यान्यस्तुतानि पुरस्त्वं तेषां यो वै ग्रामस्य श्रेष्ठी बलिष्ठो भवति तेन पश्चात्वेन तेन पुरस्त्वेन यन्ति । जै ३,११८ ।
६. देवा वा असुरान् युधम् अपप्रयन्तो ऽब्रुवन् यन् नो वामं वसु तद् अपनिधाय युध्यामहै यद् अद्य कस्मिंश् चिद् भूते ऽभ्यवधावामेति। पशवो वाव तेषां वामं वस्व् आसीत्। तद् अपनिधाय युधम् अपपरायन्। ते देवा असुरान् अजयन्। ते विजिग्यानाः पुनर् आयन्त एकं भूतम् अभ्यवायन्। तन् न व्यजानतेदं मम वामम् इदं ममेति। ते ऽब्रुवन् वीदं भजामहा इति। तस्य विभागे न समपादयन्। ते ऽब्रुवन् प्रजापताव् एव पृच्छामहा इति। ते प्रजापताव् अपृच्छन्त। स प्रजापतिर् अब्रवीत् सर्वेषाम् एव व एतद् वामं सह सर्वान् व एतेन स्तोष्यन्ति सर्वान् व एतद् अवष्यति मा विभग्ध्वम् इति॥ तद् यद् गायत्रीषु स्तुवन्ति तेनाग्नेयम्। गायत्र्यो ह्य् अग्निर् इति। यत् पृष्ठं माध्यंदिनं तेनैन्द्रम्। यत् कवतीषु स्तुवन्ति तेन प्राजापत्यम्। यद् अनिरुक्तं तेन वैश्वदेवम्। यन्मैत्रावरुणाय स्तुवन्ति तेन मैत्रावरुणम्। तद् वा एतत् पशव्यं यद् वामदेव्यम्॥। जै १.१३८ ।
६. तद्वा एतत्पशव्यं यद्वामदेव्यम् । जै १.१३८ ।
७. तद्वा एतत् पिता माता साम्नां यद्वामदेव्यम् । यद् वै पुत्रो ऽतिपादयति पिता वै तस्य शमयिता पिता निषेद्धा॥निषेद्धा। जैतद यन्मध्यतः क्रियते शान्त्या एव निषिद्ध्यै । तद् यानि ह वै स्तुतानि सामानि पश्चात्त्वं तेषां वामदेव्यम्। अथ यान्य् अस्तुतानि पुरस्त्वं तेषाम्। तेषाम् उभयेषां शान्त्यै निषिद्ध्यै॥जै १,१४४।।१४४ ।
९. तावब्रूतां ( मित्रावरुणौ ) वामं मर्य्यामर्या अ इदं देवेष्वाजनीति तस्माद्वामदेव्यम् ( साम ) । तां ७,८,१। ।
८, तद (वामदेव्यम् ) यन्मध्यतः क्रियते शान्त्या एव निषिद्ध्यै । जै १,१४४ ।
१०. तासु वामदेव्यम् । स्तुतशस्त्रयोर् ह खलु वा एषा शान्तिर् यद् वामदेव्यम्। यद् ध वै किं च यज्ञस्य मिथ्योल्बणं क्रियते तद् एतेनैव शमयित्वोत्तिष्ठन्ति। मत्यं वा एतद् यज्ञस्य यद् वामदेव्यम्। स यथा स्थूललोष्टम् मत्येन शमयेद् एवम् एवैतद् वामदेव्येन सर्वाणि स्तुतशस्त्राणि शमयन्ति। प्रजापतिर् ह खलु वा एतत् स्तोत्राणां यद् वामदेव्यम्। यथा ह वा इदं प्रजापतौ सर्वा जातविद्याः प्रतितिष्ठन्त्य् एवं ह वै वामदेव्ये सर्वाणि स्तोत्राणि प्रतितिष्ठन्ति। योनिर् वै वामदेव्यम्। तद् दशमे ऽहन् योनेश् च्यावयन्ति। । जै ३, ३०१। ।
९. तावब्रूतां ( मित्रावरुणौ ) वामं मर्य्या इदं देवेष्वाजनीति तस्माद्वामदेव्यम् ( साम ) । तां ७,८,१। ।
१०. तासु वामदेव्यम् । स्तुतशस्त्रयोर्ह खलु वा एषा शान्तिर्यद् वामदेव्यम् । यद्ध वै
किं च यज्ञस्य मिथ्योल्बणं क्रियते तदेतेनैव शमयित्वोत्तिष्ठन्ति । मर्त्यं वा एतद्यज्ञस्य यद्वामदेव्यम् । स यथा स्थूललोष्टं मत्येन शमयेदेवमेवैतद्वामदेव्येन सर्वाणि स्तुतशस्त्राणि शमयन्ति । जै ३, ३०१। ।
११. तद् ऊर्ध्वम् उदैषद् यथा पृष्ठं यथा ककुद् एवम्।.....यदब्रुवन्न् ( देवाः) इयद्वा वेदमासेदं वाव नो देवानां वाममिति वामदेव्यस्य तद्वामदेव्यत्वम् । जै १,१४४ ।
१२. यद्यन्तरिक्षे वामदेव्येन ( अनुविन्दाम ) तस्यौदुम्बरः सोमचमसो दक्षिणा । जै २,१५९।।
Line १२९ ⟶ १३०:
पञ्च ज्योतींषीद्धान्य् एषु लोकेषु दीप्यन्ते ऽग्निः पृथिव्यां वायुर् अन्तरिक्ष आदित्यो दिवि चन्द्रमा नक्षत्रेषु विद्युद् अप्सु।....वायुर् वामदेव्यस्यादित्यो बृहतश्। - जै १.२९२
वामदेव्यम् (संवत्सर (तैसं) आत्मा । तैसं ७.५.२५.१, जै १.२९२
मासम्गायत्रम् एव हिंकारो रथन्तरं प्रस्तावो ((वामदेव्यम् (जै)उद्गीथो बृहत् प्रतिहारो उद्गीथःयज्ञायज्ञीयं निधनम्।। जै १.२९२, जैउ १.१२.२.६
प्रजापतिर् वामदेव्यं प्रजापतिर् लोकानाम् अभिनेता।....वामदेव्यस्य स्तोत्र ऋषभम् अप्यर्जेत्। सौ हौ खा इत्य् एवर्षभः। योनिर्वामदेव्यं प्रजननमृषभः। - जै १.१३९
साम ते (सुपर्णस्य गरुत्मतः) तनूर्वामदेव्यम्। मै २.७.८, काठ १६.८
अन्तरिक्षं दैर्घश्रवसम्। वामदेव्यं ह्येतन्निदानेन - जै २.४३६
Line १५६ ⟶ १५७:
वामभृत्वम् । तैसं ५,५,३,३ ।।
३. वाग्वामभृत् । माश ७,४,२,३५ ।।
 
 
</poem>
"https://sa.wikisource.org/wiki/ऋग्वेदः_मण्डल_४" इत्यस्माद् प्रतिप्राप्तम्