"ऋग्वेदः मण्डल ४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८३:
<poem>
सोमयागे सुत्यादिवसे सामगानस्य क्रमः एवं भवति – प्रथमतः सामवेदिऋत्विग्भ्यः रथन्तरसाम्नः गानं भवति। होता ऋत्विक्तः अस्य सम्बन्धं भवति। तदोपरि वामदेव्यं सामस्य गानं भवति। मैत्रावरुणऋत्विक्तः अस्य संबन्धं अस्ति। तदोपरि नौधसं साम, तदोपरि कालेयं साम।
वामदेवसामोपरि ये वैदिकाः संदर्भाः सन्ति, तेषां एकः अभिप्रायः अयं प्रतीयते – अस्मिन् जगति यत्किंचित् विकीर्णमस्ति, वालमस्ति, तस्मात् यत्किंचित् संभरणीयमस्ति, संभृत्य देवेभ्यः अर्पणीयमस्ति, तत् वामं अस्ति। किंतु अत्र शंका भवति। रथन्तरस्य साम्नः अपि अयमेव लक्ष्यं अस्ति – यत्किंचित् पृथिव्योपरि श्रेष्ठतमं अस्ति, तत् पृथिवी आकाशे सूर्ये अथवा चन्द्रमसि स्थापयति। रथन्तरस्य सम्बद्धता होतृऋत्विजेन सह अस्ति। होता ऋत्विजः लक्षणं अस्ति – वह्निरसि हव्यवाहनः। सः अग्निरूपं भूत्वा हविषां देवेषु ऋजुरूपेण वहनं करोति। वामदेव्यं साम्नः संबद्धता मैत्रावरुण ऋत्विक्तः अस्ति। मैत्रावरुणस्य ऋत्विजः लक्षणं अस्ति – श्वात्रो असि प्रचेताः। सोमयागे सुत्यादिवसानां द्वौ प्रकारौ भवतः – अद्यसुत्या एवं श्वःसुत्या। यत्किंचित् अद्य, वर्तमानकाले करणीयं संभवं अस्ति, तत् सर्वं अद्यसुत्या दिवसे भवति। पापस्य लेपनकारणे यत्किंचित् अद्यकरणीयं संभवं नास्ति, तस्य शोधनं श्वः करणाय प्रयत्नं करणीयं। मैत्रावरुणस्य लक्षणंवैशिष्ट्यं अस्ति – श्वात्रः। यस्य अद्यैव उद्धारकरणे कोपि बाधा अस्ति, तस्य उद्धारकर्त्ता। श्वः, भविष्यतः अश्वःअश्वं, वर्तमानं प्रति गमयिता। ब्राह्मणग्रन्थेषु अस्य व्याख्या एवं प्रकारेण अस्ति। एका जाग्रत् चेतना अस्ति, एका सुप्त, अर्धसुप्त चेतना। सुप्तायाः संज्ञा पृष्ठं अस्ति। यथा पृष्ठभागः अदृश्यं अस्ति, एवमेव । रजनीश महाभागः सुप्तचेतनायाः जागरणे अत्यन्त मुखरः आसीत्। सः कथयति – विपश्यनाध्यानस्य किं लक्ष्यं अस्ति। अचेतनचेतना उपरि यः महान् भारः अस्ति, तस्य भारस्य जाग्रतचेतना उपरि स्थान्तरणस्य आवश्यकता अस्ति। वृषभस्य पृष्ठे ककुद् अपि भवति। वामदेवसाम्नः लक्ष्यं पृष्ठे ककुद् निर्माणं भवति। तां ७,८,२ अस्य अनुमानस्य पुष्टिः करोति।
जै १,३०५ अनुसारेण रथन्तरसामः रेतस्सिक्तिः अस्ति। सिक्ते रेतसि प्राणानां सञ्चारः वामदेव्येन भवति।
ब्राह्मणेषु सार्वत्रिकरूपेण (जै १.१३८) कथनमस्ति यत् यावत् प्राणाः, चेतना खण्डिताः सन्ति, तेषु अन्तःसंवादं नास्ति, तावत् स वामदेवः नास्ति। यदा प्राणेषु मध्ये अन्तःसंबंधं स्थापितं भविष्यति, तदा तत् वामदेवं भविष्यति। पुराणेषु अस्य कथनस्य रूपं एकादशी अस्ति। दश प्राणाः सन्ति। तेषां उपरि एकादशी दशप्राणानां व्यूहरूपा भवति। पुराणेषु वामदेवऋषिः पापानां शोधनाय एकादशी-द्वादशी तिथीनां महत्त्वं वर्णयति। अतीतकाले महर्षि महेशयोगी सामूहिकध्यानस्य पक्षधरः आसीत्।
ब्राह्मणग्रन्थेषु वामदेव्यस्य साम्नः सम्बन्धं योनिना सह अपि कथितं भवति।भवति(जै ३.३०१)। सर्वासां प्राणानां योनिः वामदेव्यं सामं अस्ति। यदा प्राणाः संवत्सरस्य दशमासपर्यन्तं योन्यां वसिष्यन्ति, तदा तेषां नवीनरूपे उत्पादनं भविष्यति। संवत्सरः मन, प्राण एवं वाचः सम्बन्धकरणतः सूचकः अस्ति। पुराणेषु वामदेव शिवस्य लक्षणरूपेण ओंकारस्य अ, उ, म अक्षरत्रय मध्ये उकारेण सह वामदेवशिवस्य सम्बद्धता कथितमस्ति। उकारः योनिरस्ति। अ अक्षरः ब्रह्मणा आदानस्य प्रतीकमस्ति, उकारः विष्णुना आधृतप्राणानां धारणस्य, मकारः शिवेन विसर्जनस्य। ब्राह्मणग्रन्थेषु (जै ३.३०१) वामदेवस्य साम्नः विशेषणं सद् अपि अस्ति। अयं सदः योनिरेव प्रतीयते।
 
मूर्तिकलासु वामदेवशिवस्य या मूर्तिरस्ति, तस्यां स्त्रीतत्त्वस्य, प्रकृतेः प्रधानता अस्ति। वामपक्षः अपि स्त्रीतत्त्वप्रधानएव भवति। अग्निपुराण ३०४.२६ अनुसारेण वामदेवशिवस्य स्वरूपं स्त्रीविलासी अस्ति। किन्तु गोपथब्राह्मणे २.३.२३ वामदेवेन दक्षिण दिशायाः गोपायनस्य उल्लेखं भवति। दक्षिणः पक्षः पुरुषप्रधानः भवति। अस्मिन् संदर्भे पुराणेषु वामनअवतारः उल्लेखनीयं अस्ति। वामनस्य आरंभिक स्थितिः अल्पाकारः अस्ति, किन्तु सैव विष्णुः उरुक्रमः भवितुं शक्यते।
वाम-देव(ब्राह्मणोद्धारकोशः) -
वामदेवसम्बन्धि एतेषां सर्वेषां लक्षणानां प्रस्फुटनं वैदिकऋचासु केन प्रकारेण भवति, अयं अन्वेषणीयः।
प्राणो ह्येष य एष तपति....तं देवा अब्रुवन्नयं वै नः सर्वेषां वाम इति तस्माद्वामदेवस्तस्माद्वामदेव इत्याचक्षत एतमेव सन्तम् । ऐआ २,२,१ ॥
ते (देवाः) ऽब्रुवन् वामदेवं, त्वं न इमं यज्ञं दक्षिणतो गोपायेति, मध्यतो वसिष्ठमुत्तरतो भरद्वाजं सर्वाननु विश्वामित्रम्। - गो २.३.२३
तद् आहू रथन्तरम् एव प्रथमे तृचे स्याद् वामदेव्यं द्वितीये बृहत् तृतीय एषां लोकानां समारोहायेति।…..अयम् एव लोको रथन्तरम् अन्तरिक्षं वामदेव्यम् असाव् एव बृहत्।….प्राण एव रथन्तरं व्यानो वामदेव्यम् उदानो बृहत्।….अथ यः कामयेत प्रजा मे श्रेयसी स्याद् इति रथन्तरम् एव प्रथमे तृचे कुर्याद् वामदेव्यम् उत्तरयोः। प्रजापतिर् वै वामदेव्यम्। प्रजापतिम् एव तत् स्वरम् अन्तत उपयन्ति प्रजननाय॥। - जै १.२२९, माश १३.३.३.४, शांआ १.२
वामदेव्य( सामन्-)
१. अथ रथन्तरम्। ब्रह्म वै रथन्तरम्। ब्रह्मसव एषः। ब्रह्मणाभिषिच्यमानो ऽभिषिच्याता इति। अथ वामदेव्यं शिवं शान्तं सुष्वाणम् अनुवर्तता इति। अथो पशवो वै वामदेव्यं, पशूनाम् एवावरुद्ध्यै। अथ नौधसं प्रज्ञातं ब्रह्मसाम। प्रज्ञातं ब्रह्मसाम नेद् अन्तरयामेति। अथ कालेयं कं सुष्वाणायासद् इत। जै २,१९४ ।
२. वामदेव्यम् एवैतस्याह्नः (महाव्रतस्य) पृष्ठं कार्यम् इति। आत्मा वै व्रतस्य वामदेव्यम् । जै २,४११ ।
३. त्रीणि ह वै यज्ञे क्रियन्ते जग्धं गीर्णं वान्तं…..तस्यास्ति वामदेव्यस्य स्तोत्रे प्रायश्चित्तिरिदं वा वामदेव्यं यजमानलोको ऽमृतलोकः स्वर्गो लोकस्तत्त्रिभिरक्षरैर्न्यूनं तस्य स्तोत्र उपसृप्य त्रेधात्मानं विगृह्णीयात् पुरुष इति । ऐ ३,४६ ।।
४. ते देवा वामदेव्यम् एव योनिं परिगृह्योर्ध्वा उदागाहन्त। तद् एतस्य पृष्ठ्यस्य षडहस्य मध्ये ह मायं न्यदधुः। तद् यानि ह वै स्तुतानि सामानि पश्चात्वं तेषां वामदेव्यम्, अथ यान्य् अस्तुतानि पुरस्त्वं तेषाम्। यो वै ग्रामस्य श्रेष्ठी बलिष्ठो भवति तेन पश्चात्वेन तेन पुरस्त्वेन यन्ति। अरिष्टेन यज्ञेन यजते य एवं वेद। ….. तस्माद् वामदेव्यं पृष्ठम्। पृष्ठं हि प्रतिवहतीति। क्लृप्तिर् वा एषा शान्तिर् वा एषा प्रतिष्ठा वा एषैष वाव यज्ञो यद् वामदेव्यम्। । जै ३,११८ ।।
५. तद्यानि ह वै स्तुतानि सामानि पश्चात्वं तेषां वामदेव्यम्, अथ यान्यस्तुतानि पुरस्त्वं तेषां यो वै ग्रामस्य श्रेष्ठी बलिष्ठो भवति तेन पश्चात्वेन तेन पुरस्त्वेन यन्ति । जै ३,११८ ।
६. देवा वा असुरान् युधम् अपप्रयन्तो ऽब्रुवन् यन् नो वामं वसु तद् अपनिधाय युध्यामहै यद् अद्य कस्मिंश् चिद् भूते ऽभ्यवधावामेति। पशवो वाव तेषां वामं वस्व् आसीत्। तद् अपनिधाय युधम् अपपरायन्। ते देवा असुरान् अजयन्। ते विजिग्यानाः पुनर् आयन्त एकं भूतम् अभ्यवायन्। तन् न व्यजानतेदं मम वामम् इदं ममेति। ते ऽब्रुवन् वीदं भजामहा इति। तस्य विभागे न समपादयन्। ते ऽब्रुवन् प्रजापताव् एव पृच्छामहा इति। ते प्रजापताव् अपृच्छन्त। स प्रजापतिर् अब्रवीत् सर्वेषाम् एव व एतद् वामं सह सर्वान् व एतेन स्तोष्यन्ति सर्वान् व एतद् अवष्यति मा विभग्ध्वम् इति॥ तद् यद् गायत्रीषु स्तुवन्ति तेनाग्नेयम्। गायत्र्यो ह्य् अग्निर् इति। यत् पृष्ठं माध्यंदिनं तेनैन्द्रम्। यत् कवतीषु स्तुवन्ति तेन प्राजापत्यम्। यद् अनिरुक्तं तेन वैश्वदेवम्। यन्मैत्रावरुणाय स्तुवन्ति तेन मैत्रावरुणम्। तद् वा एतत् पशव्यं यद् वामदेव्यम्॥। जै १.१३८ ।
७. तद्वा एतत् पिता माता साम्नां यद्वामदेव्यम् । यद् वै पुत्रो ऽतिपादयति पिता वै तस्य शमयिता पिता निषेद्धा। तद यन्मध्यतः क्रियते शान्त्या एव निषिद्ध्यै । तद् यानि ह वै स्तुतानि सामानि पश्चात्त्वं तेषां वामदेव्यम्। अथ यान्य् अस्तुतानि पुरस्त्वं तेषाम्। तेषाम् उभयेषां शान्त्यै निषिद्ध्यै॥जै १,१४४ ।
९. अपो वा ऋत्व्यमार्च्छत् तासांव्वायुः पृष्ठे व्यवर्तत ततो वसु वामं समभवत् तस्मिन्मित्रावरुणौ पर्यपश्यतां तावब्रूतांव्वामं मर्या इदं देवेष्वाजानीति तस्माद्वामदेव्यम् । तां ७,८,१। ।
अयं वै लोको मध्यमो वामदेव्यमेतस्माद्वा इमौ लोकौ विष्वञ्चावसृज्येतां बृहच्च रथन्तरं च । यद्रथन्तरेण स्तुवन्ति ये रथन्तराः पशवोऽन्तरीक्षं त उपश्रयन्ति यद्बृहता स्तुवन्ति ये बार्हताः पशवोऽन्तरीक्षं त उपश्रयन्ति ते वामदेव्यस्य स्तोत्रेणावरुद्धाः। - तां ७.९...
१०. तासु वामदेव्यम् । स्तुतशस्त्रयोर् ह खलु वा एषा शान्तिर् यद् वामदेव्यम्। यद् ध वै किं च यज्ञस्य मिथ्योल्बणं क्रियते तद् एतेनैव शमयित्वोत्तिष्ठन्ति। मत्यं वा एतद् यज्ञस्य यद् वामदेव्यम्। स यथा स्थूललोष्टम् मत्येन शमयेद् एवम् एवैतद् वामदेव्येन सर्वाणि स्तुतशस्त्राणि शमयन्ति। प्रजापतिर् ह खलु वा एतत् स्तोत्राणां यद् वामदेव्यम्। यथा ह वा इदं प्रजापतौ सर्वा जातविद्याः प्रतितिष्ठन्त्य् एवं ह वै वामदेव्ये सर्वाणि स्तोत्राणि प्रतितिष्ठन्ति। योनिर् वै वामदेव्यम्। तद् दशमे ऽहन् योनेश् च्यावयन्ति। । जै ३, ३०१। ।
११. तद् ऊर्ध्वम् उदैषद् यथा पृष्ठं यथा ककुद् एवम्।.....यदब्रुवन्न् ( देवाः) इयद्वा वेदमासेदं वाव नो देवानां वाममिति वामदेव्यस्य तद्वामदेव्यत्वम् । जै १,१४४ ।
१२. यद्यन्तरिक्षे वामदेव्येन ( अनुविन्दाम ) तस्यौदुम्बरः सोमचमसो दक्षिणा । जै २,१५९।।
१३. यद्वा इदं सद् यद् भूतं यद्भवद् यद्भविष्यद्यदिमे अन्तरा द्यावापृथिवी तद् वामदेव्यम् । मै १.६.७
१४. अथैतद् वामदेव्यम्। आ प्रतिहाराद् अनवानं गेयम्। प्राणो हि वामदेव्यम्। प्राणान् नेद् अवच्छिद्या इति॥.....रूक्षितमिवैतद्यद्वामदेव्यं निर्धूतमिव ।.....तस्मिन् पृष्ठरूपं वा गायेद् एता वा व्याहृतीर् व्याहृत्योद्गायेद् गोश् चाश्वश् चाजा चाविश् च व्रीहिश् च यवश् चेति। गौर् एव रथन्तरम् अश्वो बृहद् अजा वैरूपम् अविर् वैराजं व्रीहयश् शक्वर्यो यवा रेवतयः। जै १,३३३ ।।
१५. वामदेव्यं वामदेवानां (वाव देवानाम् ) मधु । जै १,१४४ ।
१६. वामदेव्यं वै साम्नां सत् । तां ४,८,१० ।।
१७. अथ रथन्तरम्। रेतस्सिक्तिर् एव सा॥ अथ वामदेव्यं स्वारम्। प्राणो वै स्वरः। अस्मिन्न् एवैतद् रेतसि सिक्ते प्राणं प्रतिदधाति॥ अथ नौधसं निधनम्। जन्मैव तत्। प्रैव तेन जनयति॥ अथ कालेयम् ऐळम्। पशवो वा इळान्नं पशवः। यद् एव जाताभ्यो ऽन्नाद्यं प्रतिधीयते तद् एवैतत्॥ जै १,३०५।।
१८. ब्रह्म वै व्रतस्य शिरो, द्यावापृथिवी पक्षाव्, अन्तरिक्षम् आत्मा, साम पुच्छम्। गायत्रं वै व्रतस्य शिरस्, तद् धि ब्रह्म। बृह्द्रथन्तरे पक्षौ, ते हि द्यावापृथिवी। वामदेव्यमात्मा तद्धि अन्तरिक्षम् । जै २,४१५।।
१९. वामदेव्यं मैत्रावरुणसाम भवति । प्रजापतिर्वै वामदेव्यं प्राजापत्योऽश्वः। माश १३,३,३,४ ।
२०. वामदेव्येन सामानि (अन्वाभवत् ) । काठ ३५, १५ ।।
२१. अग्निर् वै रथन्तरं वायुर् वामदेव्यम् इन्द्रो नौधसं विश्वे देवाः कालेयम्। अथैष स्वर्ग एव लोको विश्व एव देवाः। । जै १,३३५ (तु. जै १,२९२; २,४३३)।
२२. विश्वेभिर्देवेभिः पृतना जयामि जागतेन छन्दसा सप्तदशेन स्तोमेन, वामदेव्येन साम्ना...। तैसं ३,५,३,२।।
२३. अयम् एव लोको रथन्तरम् अन्तरिक्षं वामदेव्यम् असाव् एव बृहत्।....प्राण एव रथन्तरं व्यानो वामदेव्यम् उदानो बृहत्। (हिङ्कारो [जै १,१७३) वामदेव्यम् । जै १,२२९ ।
२४. शान्तिर्वै (+भेषजं [कौ.J) वामदेव्यम् । कौ २७,२; २९,३;४; तै १, १,८,२ ।।
२५. श्रोण्यां वामदेव्यं गायति । काठ २१,५; क ३१,२० ।।
२६. सद्ध खलु वै वामदेव्यं स्तोत्राणां सदग्निदेवतानां सद्विराट् छन्दसां सत् त्रयस्त्रिंश स्तोमानाम् । जै ३, ३०१ ।।
२७. विराट्सु वामदेव्यं अग्निष्टोमसाम भवति शान्त्यै क्ळृप्त्यै सद्वै वामदेव्यं साम्नां सद्विराट्छन्दसां। तां १५,१२,२ ।।
२८. समायुर्वामदेव्यम् । जै १,२९२; २,४३३ । ।
२९. अपो वा ऋत्व्यमार्च्छत् तासांव्वायुः पृष्ठे व्यवर्तत ततो वसु वामं समभवत् तस्मिन्मित्रावरुणौ पर्यपश्यतां तावब्रूतांव्वामं मर्या इदं देवेष्वाजानीति तस्माद्वामदेव्यम् .... तत् प्रजापतिरब्रवीत् सर्वेषां न इदमस्तु सर्व इदमुपजीवामेति तत् पृष्ठेषु न्यदधुः सर्वदेवत्यं वै वामदेव्यम् । तां ७,८,२ ।।
अन्तरिक्षं (वै (काठसंक. , तां, तै.) वामदेव्यम् (साम)। - मै ३.३.५, काठसंक ९, जै १.२२९, तां १५.१२.५, तै १.१.८.२, २.१.५.७
इदं वा (इदमेव ( जै १.३०७) अन्तरिक्षं वामदेव्यम् (स्वरः जै १.३०७)। जै १.१४६
उपहूतं वामदेव्यं (साम) सहान्तरिक्षेण । तैसं. २.६.७.२, माश १.८.१.१९
या ऽन्तरिक्षे (वाक्) या वाते, सा वामदेव्ये ... तां ब्राह्मणे न्यदधुः । का १४.५
अथ वामदेव्यम्। स ह सा शान्तिरेव स्तोमः। आप एव ताः। जै १.३१३
ओषधीरेव देवेभ्यो रथन्तरेणादुह, पशून् बृहता , आपो वामदेव्येन , यज्ञं यज्ञायज्ञियेन । मै ४.२.२
आत्मा वै यज्ञायज्ञीयं, तनूर्वामदेव्यम्। काठ २१.५, क ३१.२०
अग्निचिति-ब्राह्मणम् -- इयं वै रथन्तरम्, अन्तरिक्षं वामदेव्यं, असौ बृहत्, त्रिधातुर्वा एतदर्को निधीयते , आत्मा वै वामदेव्यं , प्रतिष्ठा यज्ञायज्ञियम् , बृहद्रथन्तरे पक्षौ। मै ३.३.५
पञ्च ज्योतींषीद्धान्य् एषु लोकेषु दीप्यन्ते ऽग्निः पृथिव्यां वायुर् अन्तरिक्ष आदित्यो दिवि चन्द्रमा नक्षत्रेषु विद्युद् अप्सु।....वायुर् वामदेव्यस्यादित्यो बृहतश्। - जै १.२९२
वामदेव्यम् (संवत्सर (तैसं) आत्मा । तैसं ७.५.२५.१, जै १.२९२
गायत्रम् एव हिंकारो रथन्तरं प्रस्तावो वामदेव्यम् उद्गीथो बृहत् प्रतिहारो यज्ञायज्ञीयं निधनम्।। जै १.२९२, जैउ १.१२.२.६
प्रजापतिर् वामदेव्यं प्रजापतिर् लोकानाम् अभिनेता।....वामदेव्यस्य स्तोत्र ऋषभम् अप्यर्जेत्। सौ हौ खा इत्य् एवर्षभः। योनिर्वामदेव्यं प्रजननमृषभः। - जै १.१३९
सुपर्णोऽसि गरुत्मान् , त्रिवृत्ते शिरो, गायत्रं चक्षु , र्बृहद्रथन्तरे पक्षौ, स्तोम आत्मा, छन्दांस्यङ्गानि, यजूंषि नाम साम ते तनू, र्वामदेव्यं , यज्ञायज्ञियं पुच्छम् , धिष्ण्याः शफाः । मै २.७.८, काठ १६.८
अन्तरिक्षं दैर्घश्रवसम्। वामदेव्यं ह्येतन्निदानेन - जै २.४३६
पशवः इहवद्वामदेव्यम् – जै ३.१५३
पशवो द्विहिंकारं वामदेव्यम् । जै ३.२, ३.१३२
उपहूतम्̇ रथंतरम्̇ सह पृथिव्येत्य् आह । इयं वै रथंतरम् । इमाम् एव सहान्नाद्येनोप ह्वयते । उपहूतं वामदेव्यम्̇ । सहान्तरिक्षेणेत्य् आह । पशवो वै वामदेव्यम् । पशून् एव सहान्तरिक्षेणोप ह्वयते । उपहूतम् बृहत् सह दिवेत्य् आह । ऐरं वै बृहत् । इराम् एव सह दिवोप ह्वयते । (वाजिनम्) तै.) । तैसं २.६.७.२, जै १.३३३, २.१९४, ३.१५, २६, ४९, २६१, तां ४.८.१५, ७.९.९, ११.४.८, १४.९.२४, तै १.६.३.१०
पिता वै वामदेव्यं पुत्राः पृष्ठानि । तां ७.९.१
प्रजननं वै रथन्तरम् (वामदेव्यम् – माश.) जै २.९३, १४६, १७४, २३९, माश ५.१.३.१२
प्रजापतिर्वामदेव्यम् (साम) – जै १.१३९, २.१५
प्रजापतिर्वै वामदेव्यम् (वामदेवः – शांआ) । जै १.२२९, माश १३.३.३.४, शांआ १.२
प्रजापतिर्ह खलु वा एतत् स्तोत्राणां यद् वामदेव्यम्। यथा ह वा इदं प्रजापतौ सर्वा जातविद्याः प्रतितिष्ठन्त्येवं ह वै वामदेव्ये सर्वाणि स्तोत्राणि प्रतितिष्ठन्ति। जै ३.३०१
स (प्रजापतिः) उदरादेव मध्यात् सप्तदशं स्तोममसृजत जगतीं छन्दो वामदेव्यं साम विश्वान् देवान् देवतां वैश्यं मनुष्यं गां पशुम् – जै १.६९
प्राजापत्यं वै वामदेव्यं (षष्ठमहः – कौ.) । कौ २३.८, २५.११, १५, तां ४.८.१५, ११.४.८
प्राणा वै वामदेव्यम् (वामम् – माश) । जै ३.३०१, माश ७.४.२.३५
प्राणो हि वामदेव्यम् (वायुः – तां) । जै १.३३३, २.४२४, तां ४.६.८
एतद्ध यज्ञस्याच्युतं यद् वामदेव्यम् (साम) । जै २.४२४
योनिर्वै वामदेव्यम् – जै ३.३०१
तद्ध वै प्रत्यक्षं वामदेव्यं ( साम) यद् राजनम् - जै २.१५
परोक्षमिव ह खलु वा एतद् वामदेव्यं यद् राजनम्। राजनं पृष्ठं भवति। वामदेव्यं मैत्रावरुणसाम। पञ्चनिधनं वामदेव्यं ब्रह्मसाम। – जै २.४११
यथा ह वै वयस आशय एवं राजनस्य वामदेव्यम् (साम) जै २.१५
तत् परोक्षम् इव गेयम्। नर्चम् उपस्पृशेत्। वयो वै वामदेव्यम्। यद् ऋचम् उपस्पृशेद् यथा वयो ऽन्तरिक्षेण पतद् वृक्षम् ऋच्छेत् तादृक् तत्॥ जै १.१३९
वाम-भृत्
१. इयं ( पृथिवी ) वामभृत् ! माश ७,४,२,३५ ।।
२. देवासुरा संयत्ता आसन् । ते वामं वसु स न्यदधत तहेवा वामभृता ऽवृञ्जत, तद्वामभृतो
वामभृत्वम् । तैसं ५,५,३,३ ।।
३. वाग्वामभृत् । माश ७,४,२,३५ ।।
 
 
 
</poem>
"https://sa.wikisource.org/wiki/ऋग्वेदः_मण्डल_४" इत्यस्माद् प्रतिप्राप्तम्